Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.213

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.213.1

ब्रूहि तत्कारणं येन ब्रह्मन्नालायनी शुभा ।
जाता ममाध्वरे कृष्मा सर्ववेदविदां वर ॥ १.२१३.१ ॥

婆罗门啊,请告诉我,吉祥的那罗耶尼为何在我的祭祀中以黑天女的身份降生,你是诸吠陀智者中最优秀的。

1.213.2

शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः ।
यदर्थं चैव संभूता तव गेहे यशस्विनी ॥ १.२१३.२ ॥

国王啊,请听:楼陀罗赐给她的恩惠,以及这位荣耀的女子为何降生于你的宫中。

1.213.3

हन्त त कथयिष्यामि कृष्मायाः पौर्वदेहिकम् ।
इन्द्रसेनेति विख्याता पुरा नालायनी शुभा ॥ १.२१३.३ ॥

现在我将讲述黑天女的前世:吉祥的那罗耶尼,往昔以因陀罗西纳之名闻名。

1.213.4

मौद्गल्यस्य पतिमासाद्य चचार विगतज्वरा ।
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया ॥ १.२१३.४ ॥

她得到毛德伽利亚为夫,无忧无虑地生活,伟大的仙人毛德伽利亚也与她欢乐相处。

1.213.5

संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा ।
ततः कदाचिद्धर्मात्मा तृप्तः कामैर्व्यरज्यत ॥ १.२१३.५ ॥

国王啊,多年如同瞬息而过。后来有一天,这位正法之人已厌足于欲望,遂生出离之心。

1.213.6

अन्विच्छन्परमं धर्मं ब्रह्मयोगपरोऽभवत् ।
उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि।
मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा ॥ १.२१३.६ ॥

他追求至高的正法,专注于梵瑜伽。那婆罗门便舍弃了她,她随即倒在地上。虎中之王啊,毛德伽利亚始终因苦行而清净。

1.213.7

प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि ।
अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात् ॥ १.२१३.७ ॥

尊者啊,请对我慈悲;您不应该抛弃我。梵仁啊,我还未从欲望的享受中满足。

1.213.8

यस्मात्त्वं मामनिःशङ्का ह्यवक्तव्यं भाषसे ।
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम ॥ १.२१३.८ ॥

因为你毫无畏惧地对我说不该说的话,并妨碍我的苦行,所以现在听我的话。

1.213.9

भविष्यसि नृलोके त्वं राजपुत्री यशस्वि ।
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः ॥ १.२१३.९ ॥

你将在人间成为有名的公主,乃是大德的德鲁帕达、般遮罗王之女。

1.213.10

भवितारस्तत्र तव पतयः पञ्च विप्लुताः ।
तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि ॥ १.२१३.१० ॥

你在那里将有五位丈夫,他们将离散;与那些面容甜美的人,你将长久地得到欢乐。

1.213.11

सैवं शप्ता तु विमना वनं प्रागाद्यशस्विनी ।
भोगैरतृप्ता देवेशं तपसाऽऽराधयत्तदा ॥ १.२१३.११ ॥

她被如此诅咒,心情沮丧地走进森林;对享乐未得满足,便以苦行崇拜神中之主。

1.213.12

निराशीर्मारुताहारा निराहारा तथैव च ।
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत् ॥ १.२१३.१२ ॥

无所希求,以风为食,又不进饮食,追随太阳,她成为行五火苦行之人。

1.213.13

तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम् ।
वचं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः ॥ १.२१३.१३ ॥

帕舒帕蒂(Paśupati)对她的苦行感到满意,亲自赐予了恩惠。楼陀罗,诸界之主,大能之主。

1.213.14

भविष्यति परं जन्म भविष्यति वराङ्गना ।
भविष्यन्ति परं भद्रे पतयः पञ्च विश्रुताः ॥ १.२१३.१४ ॥

将有另一次出生,你将成为卓越的女子。善良的女子啊,将有五位闻名的丈夫。

1.213.15

महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः ।
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि ॥ १.२१३.१५ ॥

他们都将拥有因陀罗的形貌,拥有与因陀罗相等的勇武。你居于彼处,将为诸神完成一件大业。

1.213.16

एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम् ।
एको भवति नैकस्या बहवस्तद्ब्रवीहि मे ॥ १.२१३.१६ ॥

我只选择了一位丈夫,这五位怎么会如此?一个女子怎会有多位而非一位丈夫?请告诉我。

1.213.17

पञ्चकृत्वस्त्वया चोक्तः पतिं देहीत्यहं पुनः ।
पञ्चते पतयो भद्रे भविष्यन्ति सुखावहाः ॥ १.२१३.१७ ॥

你曾五次说:'请给我一位丈夫。'善良的女子啊,将有五位丈夫为你带来幸福。

1.213.18

धर्म एकः पतिः स्त्रीणां पूर्वमे प्रकल्पितः ।
बहुपत्नीकता पुंसो धर्मश्च बहुभिः कृतः ॥ १.२१३.१८ ॥

从前,由我为女子确立的法是一位丈夫;而男子拥有多妻,则已被众人视为法。

1.213.19

स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः सदा ।
सहधर्मचरी भर्तुरेका एकस्य चोच्यते ॥ १.२१३.१९ ॥

此女人之法自古以来即由诸仙所立:与丈夫同行法道者唯有一人,只为一人而言。

1.213.20

एको हि भर्ता नारीणां कौमार इति लौकिकः ।
आपत्सु च नियोगेन भर्तुर्नार्याः परः स्मृतः ॥ १.२१३.२० ॥

女人自少女起只有一位丈夫,此为世俗之常;遇危难时,依尼奥加之法,除丈夫外另有一人被记为女人之夫。

1.213.21

गच्छेत न तृतीयं तु तस्या निष्कृतिरुच्यते ।
चतुर्थे पतिता नारी पञ्चमे वर्धकी भवेत् ॥ १.२१३.२१ ॥

不可与第三人交合;此事有赎罪之法。与第四人则女人堕落;与第五人则成为“跋陀吉”(卑贱者)。

1.213.22

एवं गते धर्मपथे न वृणे बहुपुंस्कताम् ।
अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात् ॥ १.२१३.२२ ॥

如此法道既已确立,我不选择多夫之境。若由那些无世俗行为者所行的道路,我如何能免于种姓混杂之罪?

1.213.23

अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे ।
सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति ॥ १.२१३.२३ ॥

往昔女人不设遮拦,于经期时即得清净。你曾说过此事一次,这对你不会成为非法。

1.213.24

यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः ।
कौमारं च भवेत्सर्वैः संगमे संगमे च मे ॥ १.२१३.२४ ॥

若我有五位丈夫,我愿与他们彼此相悦;愿我经由他们每一人而保持处女之身,每次结合中我的童贞都得以保全。

1.213.25

पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा ।
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् ॥ १.२१३.२५ ॥

我曾因侍奉丈夫而获得成就;我也得到了享受的欲望;愿那享受也归于我。

1.213.26

रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् ।
भोगानाप्स्यसि सिद्धिं च योगेन च महत्त्वताम् ॥ १.२१३.२६ ॥

善良的女子啊,欢愉与成就不能彼此相伴;你将获得享受,并且通过瑜伽,你也将获得伴随尊贵的成就。

1.213.27

अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता ।
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि ॥ १.२१३.२७ ॥

在另一身体中你也将具备美貌、福运与德行;经由五人重获童贞之后,你将成为大有福分之人。

1.213.28

गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे ।
तमानय ममाभ्याशं सुरराजं शुचिस्मिते ॥ १.२१३.२८ ॥

去吧,吉祥的女子;把你在恒河水中所见的那个人,那位诸神之王,带到我的身旁来,纯净微笑的女子啊。

1.213.29

इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् ।
जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम् ॥ १.२१३.२९ ॥

毗湿伐罗巴对她如此说后,她绕行湿婆一周,便朝着圣洁的、三路流淌的恒河而去。