摩诃婆罗多 · 章 1.214
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.214.1
पुरा वै नैमिशारण्ये देवाः सत्रमुपासते ।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥ १.२१४.१ ॥
往昔,在尼弥沙林中,诸神正在举行长久的萨德拉祭祀。国王啊,那时毗婆娑之子(阎摩)担任了沙米特罗祭司之职。
1.214.2
ततो यमो दीक्षितस्तत्र राज-
न्नामारयत्कंचिदपि प्रजानाम्।
ततः प्रजास्ता बहुला बभूवुः ।
कालातिपातान्मरणप्रहीणाः ॥ १.२१४.२ ॥
那时,受戒的阎摩,国王啊,没有杀害任何一个众生。于是那些众生变得众多,随着时间流逝,他们不再有死亡。
1.214.3
सोमश्च शक्रो वरुणः कुबेरः ।
साध्या रुद्रा वसवोऽथाश्विनौ च।
प्रजापतिर्भुवनस्य प्रणेता ।
समाजग्मुस्तत्र देवास्तथाऽन्ये ॥ १.२१४.३ ॥
月神(苏摩)、帝释(因陀罗)、伐楼那、俱比罗、萨提耶神、楼陀罗诸神、婆薮诸神、双马童,世界之主生主(补罗阇帕蒂),以及其他诸神,都聚集在那里。
1.214.4
ततोऽब्रुवँल्लोकगुरुं समेता ।
भयात्तीव्रान्मानुषाणां विवृद्ध्या।
तस्माद्भयादुद्विजन्तः सुखेप्सवः ।
प्रयाम सर्वे शरणं भवन्तम् ॥ १.२१४.४ ॥
于是聚集的诸神对世界之师说:因人类急剧增多而生起的剧烈恐惧,我们因这恐惧而不安,且渴望安乐,因此都前来投奔您。
1.214.5
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः ।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति ॥ १.२१४.५ ॥
你们都是不死之神,何必畏惧人类?凡人近处,不应使你们生起恐惧。
1.214.6
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन ।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥ १.२१४.६ ॥
凡人已与不死者相同,再无任何区别。因这无区别而不安,我们来到这里,为求得区别。
1.214.7
वैवस्वतो व्यापृतः सत्रहेतो-
स्तेन त्विमे न म्रियन्ते मनुष्याः।
तस्मिन्नेकाग्रे कृतसर्वकार्ये ।
तत एषां भवितैवान्तकालः ॥ १.२१४.७ ॥
毗婆娑婆(阎摩)正忙于一场祭祀,所以这些人不会死去。待他专心一意地完成一切事务之后,他们的死期必定到来。
1.214.8
वैवस्वतस्यैव तनुर्विभक्ता ।
वीर्येण युष्माकमुत प्रवृद्धा।
सैषामन्तो भविता ह्यन्तकाले ।
न तत्र वीर्यं भविता नरेषु ॥ १.२१४.८ ॥
毗婆娑婆的身体确实被分割,并因你们的威力而增长。在死亡之时,正是它将成为他们的终结;那时人们将没有力量。
1.214.9
ततस्तु ते पूर्वजदेववाक्यं ।
श्रुत्वा जग्मुर्यत्र देवा यजन्ते।
समासीनास्ते समेता महाबला ।
भागीरथ्यां ददृशुः पुण्डरीकम् ॥ १.२१४.९ ॥
于是他们听了先祖诸神的话,便前往诸神祭祀之处。那些大力者齐聚而坐,在婆吉罗提河中看见了一朵白莲。
1.214.10
दृष्ट्वा च तद्विस्मितास्ते बभूवु-
स्तेषामिन्द्रस्तत्र शूरो जगाम।
सोऽपश्यद्योषामथ पावकप्रभां ।
यत्र देवी गङ्गा सततं प्रसूता ॥ १.२१४.१० ॥
他们见此都感到惊异。其中勇猛的因陀罗前往那里,看见一位光辉如火的女子——正是女神恒河不断产子之处。
1.214.11
सा तत्र योषा रुदती जलार्थिनी ।
गङ्गां देवीं व्यवगाह्य व्यतिष्ठत्।
तस्याश्रुबिन्दुः पतितो जले य-
स्तत्पद्ममासीदथ तत्र काञ्चनम् ॥ १.२१४.११ ॥
她哭泣着,为求水而走下女神恒河,站在水中。她的一滴泪落入水中,那里便化为一朵金莲。
1.214.12
तदद्भुतं प्रेक्ष्य वज्री तदानी-
मपृच्छत्तां योषितमन्तिकाद्वै।
का त्वं भद्रे रोदिषि कस्य हेतो-
र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि ॥ १.२१४.१२ ॥
雷电持有者见此奇景,便从近处问那女子:“善良的女子,你是谁?因何而哭?我想听真实的话,你说吧。”
1.214.13
त्वं वेत्स्यसे मामिह याऽस्मि शक्र ।
यदर्थं चाहं रोदिमि मन्दभाग्या।
आगच्छ राजन्पुरतो गमिष्ये ।
द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम् ॥ १.२१४.१३ ॥
你在这里就会知道我是谁,帝释啊。我这个不幸的人为何而哭,王啊,请来,我将走在前面。你将看到我为之哭泣的那个人。
1.214.14
तां गच्छन्तीमन्वगच्छत्तदानीं ।
सोऽपश्यदारात्तरुणं दर्शनीयम्।
सिद्धासनस्थं युवतीसहायं ।
क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥ १.२१४.१४ ॥
那时他跟随她前行;远远地他看见一位俊美的青年,坐在悉陀坐姿中,身边有一位年轻女子,在山王之巅掷骰子作戏。
1.214.15
तमब्रवीद्देवराजो ममेदं ।
त्वं विद्धि विद्वन्भुवनं वशे स्थितम्।
ईशोऽहस्मीति समन्युरब्रवी-
द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥ १.२१४.१५ ॥
众神之王对他说:“智者啊,你要知道,这个世界处于我的掌控之下。我就是主宰。”看见他正沉迷于骰子、十分懈怠,他怒气冲冲地说道。
1.214.16
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो ।
जहाय शक्रं च शैरुदैक्षत।
संस्तम्भितोऽभूदथ देवराज-
स्तेनेक्षितः स्थाणुरिवावतस्थे ॥ १.२१४.१६ ॥
神见愤怒的因陀罗,便放开他,转而注视自己。于是天王僵住了;被他注视,便像木桩一样站立着。
1.214.17
यदा तु पर्याप्तमिहास्य क्रीडया ।
तदा देवीं रुदतीं तामुवाच।
आनीयतामेष यतोऽहमारा-
न्नैनं दर्पः पुनरप्याविशेत ॥ १.२१४.१७ ॥
当他在此的嬉戏已足够时,他对哭泣的女神说:“把他带来;我在远处,免得骄慢再次进入他身中。”
1.214.18
ततः शक्रः स्पृष्टमात्रस्तया तु ।
स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्।
तमब्रवीद्भगवानुग्रतेजा ।
मैवं पुनः शक्र कृथाः कथंचित् ॥ १.२१४.१८ ॥
于是因陀罗仅被她一碰,肢体便松软,倒在地上。于是那位光辉猛烈的世尊对他说:“因陀罗,今后绝不可再以任何方式这样做。”
1.214.19
निवर्तयैनं च महाद्रिराजं ।
बलं च वीर्यं च तवाप्रमेयम्।
छिद्रस्य चैवाविश मध्यमस्य ।
यत्रासते त्वद्विधाः सूर्यभासः ॥ १.२१४.१९ ॥
把他和大山之王都放回去,也收回你无量的力量与勇武。进入中间的裂缝,那里住着像你一样如太阳般光辉的人。
1.214.20
स तद्विवृत्य विवरं महागिरे-
स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श।
स तानभिप्रेक्ष्य बभूव दुःखितः ।
कच्चिन्नाहं भविता वै यथेमे ॥ १.२१४.२० ॥
他打开那大山的裂缝,看见另外四位同样光辉的人。看见他们,他便忧伤起来,心想:“难道我不会成为像他们一样的人吗?”
1.214.21
ततो देवो गिरिशो वज्रपाणिं ।
विवृत्य नेत्रे कुपितोऽभ्युवाच।
दरीमेतां प्रविश त्वं शतक्रतो ।
यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥ १.२१४.२१ ॥
于是神灵Giriśa怒目而视,对执金刚者说:「百祭啊,你进入这个洞穴吧,因为你从前出于幼稚轻慢了我。」
1.214.22
उक्तस्त्वेवं विभुना देवराजः ।
प्रावेपताऽऽर्तो भृशमेवाभिषङ्गात्।
स्रस्तैरङ्गैरनिलेनेव नुन्न-
मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥ १.२१४.२२ ॥
被那位大能如此呵斥,天王浑身战栗,四肢瘫软,宛如山王之巅被风吹动的一片菩提叶。
1.214.23
स प्राञ्जलिर्वै वृषवाहनेन ।
प्रवेपमानः सहसैवमुक्तः।
उवाच देवं बहुरूपमुग्र-
मद्याशेषस्य भुवनस्य त्वं भवाद्यः ॥ १.२१४.२३ ॥
被乘牛者突然如此呵斥,他合掌颤抖,对那位多相而威猛的神说:「今日,唯有你是一切世界的婆婆(Bhava)等神。」
1.214.24
तमब्रवीदुग्रवर्चाः प्रहस्य ।
नैवंशीलाः शेषमिहाप्नुवन्ति।
एतेऽप्येवं भवितारः पुरस्ता-
त्तस्मादेतां दरीमाविश्य शेष्य ॥ १.२१४.२४ ॥
炽烈光辉的神笑着对他说:「这样性情的人在此无法得到余生;他们此前也将如此。因此你进入此洞,留存为余者吧。」
1.214.25
एषा भार्या भविता वो न संशयो ।
योनिं सर्वे मानुषीमाविशध्वम्।
तत्र यूयं कर्म कृत्वाऽविषह्यं ।
बहूनन्यान्निधनं प्रापयित्वा ॥ १.२१४.२५ ॥
此人必将成为你们的妻子,毫无疑问。你们都应进入人类的胎中;在那里,你们将做出难以忍受的事,使许多其他人走向死亡,
1.214.26
कर्तव्यमन्यद्विविधार्थयुक्तम् ॥ १.२१४.२६ ॥
还有另一项职责,与多种目的相关。
1.214.27
गमिष्यामो मानुषं देवलोका-
द्दुराधरो विहितो यत्र मोक्षः।
देवास्त्वस्मानादधीरञ्जनन्यां ।
धर्मो वायुर्मघवानश्विनौ च ॥ १.२१४.२७ ॥
我们将从诸神之界前往人间,那里虽难,却已规定了解脱。愿诸神将我们置于母胎之中——法、风、摩伽婆(因陀罗)以及双阿湿毗尼。
1.214.28
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु ।
देवश्रेष्ठं पुनरेवेदमाह।
वीर्येणाहं पुरुषं कार्यहेतो-
र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥ १.२१४.२८ ॥
闻此言,持金刚者(因陀罗)又对诸神之最胜者说:「我将以我的威力,为某一目的,给予一个由我所生的人,作为他们之中的第五位。」
1.214.29
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान् ।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः ॥ १.२१४.२९ ॥
毗湿婆菩阇、颇陀达摩、威力强大的因陀罗尸毗——其中第四为寂静;光辉者被记为第五。
1.214.30
तेषां कामं भगवानुग्रधन्वा ।
प्रादादिष्टं सन्निसर्गाद्यथोक्तम्।
तां चाप्येषां योषितं लोककान्तां ।
श्रियं भार्यां व्यदधान्मानुषेषु ॥ १.२१४.३० ॥
世尊猛弓(湿婆)满足了他们的愿望,正如所说,依其本性。并将他们的女子——世人所爱的吉祥天(室利)——指定为他们在人间的妻子。
1.214.31
तैरेव सार्धं तु ततः स देवो ।
जगाम नारायणमप्रमेयम्।
अनन्तमव्यक्तमजं पुराणं ।
सनातनं विश्वमनन्तरूपम् ॥ १.२१४.३१ ॥
于是,那位天神与他们一同前往无量的那罗延——无尽、未显、不生、古老、永恒、遍在、具无限形相者。
1.214.32
शुक्लमेकमपरं चापि कृष्णम् ॥ १.२१४.३२ ॥
一为白,另一为黑。
1.214.33
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ १.२१४.३३ ॥
被称为Keśa者,以肤色称为Kṛṣṇa。
1.214.34
ये ते पूर्वं शक्ररूपा निबद्धा-
स्तस्यां दर्यां पर्वतस्योत्तरस्य।
इहैव ते पाण्डवा वीर्यवन्तः ।
शक्रस्यांशः पाण्डवः सव्यसाची ॥ १.२१४.३४ ॥
昔日具有因陀罗形相、被囚禁于北山那洞穴中者,那些勇猛的般度之子便在此处。般度之子萨维亚萨钦(阿周那)是因陀罗的一部分。
1.214.35
एवमेते पाण्डवाः संबभूवु-
र्ये ते राजन्पूर्वमिन्द्रा बभूवुः।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा ।
भार्या यैषा द्रौपदी दिव्यरूपा ॥ १.२१४.३५ ॥
如是,这些般度之子降生了,大王——他们昔日即是因陀罗。他们的吉祥天女也先前已被宣示;这位具有天界形相的德劳帕蒂便是他们的妻子。
1.214.36
कथं हि स्त्री कर्मणा ते महीतला-
त्समुत्तिष्ठेदन्यतो दैवयोगात्।
यस्या रूपं सोमसूर्यप्रकाशं ।
गन्धश्चास्याः कोशमात्रात्प्रवाति ॥ १.२१४.३६ ॥
此女子岂能因你之业从大地表面生出,或因天命从他处而来?她的形相光辉如日月,她的香气仿佛唯从莲花蕊中散发。
1.214.37
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ।
ददानि ते वरमत्यद्भुतं च।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं ।
पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥ १.२१४.३७ ॥
我又出于慈爱,赐你另一恩典,人主啊,极为奇妙:请得天眼,观看贡蒂之子,他们具备昔日功德所成的天界之身。
1.214.38
ततो व्यासः परमोदारकर्मा ।
शुचिर्विप्रस्तपसा तस्य राज्ञः।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् ।
राजाऽपश्यत्पूर्वदेहैर्यथावत् ॥ १.२१४.३८ ॥
于是,行至高尚大德的清净婆罗门毗耶娑,以其苦行之力赐予国王天眼。国王如实地看到了他们所有人在前世之身中的模样。
1.214.39
ततो दिव्यान्हेमकिरीटमालिनः ।
शक्रप्रख्यान्पावकादित्यवर्णान्।
बद्धापीडांश्चारुरूपांश्च यूनो ।
व्यूढोरस्कांस्तालमात्रान्ददर्श ॥ १.२१४.३९ ॥
随后他看见了神圣的青年,戴着金冠与花环,如因陀罗一般,光彩如火与日,缠着束起的头巾,形貌俊美,胸膛宽阔,身高如棕榈树。
1.214.40
दिव्यैर्वस्त्रैरजोभिः सुगन्धै-
र्माल्यैश्चाग्र्यैः शोभमानानतीव।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा-
नादित्यान्वा सर्वगुणोपपन्नान् ॥ १.२१४.४० ॥
身穿天衣、佩戴不凋的芬芳花环,光彩异常耀目,仿佛三眼之神本尊,或诸婆薮、楼陀罗、阿提底亚,具足一切美德。
1.214.41
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा-
त्र्शक्रात्मजं चेन्द्ररूपं निशम्य।
प्रीतो राजा द्रुपदो विस्मितश्च ।
दिव्यां मायां तामवेक्ष्याप्रमेयाम् ॥ १.२१४.४१ ॥
德鲁波达王望见那些前世的因陀罗、俊美的因陀罗之子以及因陀罗之形,心中既欢喜又惊异于那不可限量的神圣幻术。
1.214.42
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां ।
दिव्यां साक्षात्सोमवह्निप्रकाशाम्।
योग्यां तेषां रूपतेजोयशोभिः ।
पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः ॥ १.२१४.४२ ॥
国王之主见那位最优秀、容貌极其美丽、神圣、如同月亮与火焰般光辉的女子,她在容貌、光彩与名望上都与他们相配,便以为她可做他们的妻子,心中欢喜。
1.214.43
स तद्दृष्ट्वा महदाश्चर्यरूपं ।
जग्राह पादौ सत्यवत्याः सुतस्य।
नैतच्चित्रं परमर्षे त्वयीति ।
प्रसन्नचेताः स उवाच चैनम् ॥ १.२१४.४३ ॥
他见此伟大奇妙的形相,便抱住萨蒂亚瓦蒂之子的双足,心怀喜悦地对他说:'至上仙人啊,这在您身上并不奇怪。'
1.214.44
इदं चापि पुरावृत्तं तन्निबोध च भूमिम ।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि ॥ १.२१४.४४ ॥
大地之主啊,请听这段古老的叙述,它讲述的是古代王仙们的婚姻之事。
1.214.45
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः ।
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः ॥ १.२१४.४५ ॥
有一位名叫尼坦图的王仙,在大地上闻名。他有五个伟大的弓箭手儿子。
1.214.46
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान् ।
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः ॥ १.२१४.४६ ॥
萨尔维耶、舜罗塞那、有力的室苏塞那、亭度萨罗与阿提萨罗——这些都是行祭的刹帝利。
1.214.47
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः ।
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः ॥ १.२१४.४७ ॥
他们彼此不相逾越,彼此言语和悦,无嫉妒,通晓法,温和,并且真正做令人欢喜之事。
1.214.48
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे ।
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान् ॥ १.२१४.४८ ॥
在她的自选夫婿典礼上,希毗之女获得了这五位英雄、人类之主,即奈坦塔瓦们作为丈夫——她便是婆摩阿湿婉。
1.214.49
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता ।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा ॥ १.२१४.४९ ॥
她的声音如琵琶般甜美,并具乾闥婆音律,此时的婆摩阿湿婉成为了一切女子中最优秀者。
1.214.50
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः ।
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः ॥ १.२१४.५० ॥
她的五位夫君是奈坦塔瓦,刹帝利中的雄牛,大地的守护者,具备一切美德。
1.214.51
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा ।
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता ॥ १.२१४.५१ ॥
这些国王共有一位妻子,乃乌奢那罗家族的吉祥之女,名为婆摩阿湿婉——愿你平安——她具备如此德行。
1.214.52
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत ।
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा ॥ १.२१४.५२ ॥
她从这五人中以五种方式生下了五位继承者,啊,王中之虎,为那些奈坦塔瓦而生,当时。
1.214.53
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि ।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम ॥ १.२१४.५३ ॥
这些兄弟在大地上以五种方式各有不同的名字。请听我如实道来,啊,王中最优者。
1.214.54
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः ।
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम ॥ १.२१४.५४ ॥
沙尔维耶人、舜罗森人、室嚙多塞纳诸王,以及汀度萨罗与阿提萨罗——这些是他们的世系,最优秀的国王啊。
1.214.55
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता ।
तथैव द्रुपदैषा ते सुता वै देवरूपिणी।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥ १.२१४.५५ ॥
如此,大地上闻名的婆摩阿什维成为了一位妻子。同样,德鲁帕达这位形如天神的女儿,你的那个女儿——普利沙塔之后、无可指摘的黑公主,被定为五人的妻子。
1.214.56
आसीत्तपोवंने काचिदृषेः कन्या महात्मनः ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ १.२१४.५६ ॥
在苦行林中,有一位大德仙人之女;她美貌而贞洁,却未能得到丈夫。
1.214.57
तोषयामास तपसा सा किलोग्रेण शङ्करम् ।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥ १.२१४.५७ ॥
她以猛烈的苦行使湿婆欢喜。主神欣然亲自对她说:“请选择你所愿的恩赐。”
1.214.58
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥ १.२१४.५८ ॥
她听后,一再对赐予恩惠的天神、主神说:“我愿得一位具备一切美德的丈夫。”
1.214.59
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥ १.२१४.५९ ॥
天神之主湿婆心中欢喜,将那恩赐赐予她:“吉祥的女子啊,你将有五位丈夫。”
1.214.60
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर ॥ १.२१४.६० ॥
她取悦神灵,再次说道:“湿婆啊,我应当从您那里得到一位具备德行的夫君。”
1.214.61
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः ॥ १.२१४.६१ ॥
神中之神心中欢喜,又对她说了吉祥的话:“你向我说了五次:‘请给我一位夫君’。”
1.214.62
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते ।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति ॥ १.२१४.६२ ॥
“就这样吧,吉祥的人啊,愿这份祝福属于你。待你转生到另一个身体中,这一切都会发生。”
1.214.63
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥ १.२१४.६३ ॥
这位德鲁帕达之女确实以神性之身降生。她被注定为五人之妻,即黑天女、帕尔沙蒂,她纯洁无瑕。
1.214.64
सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि ।
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती ॥ १.२१४.६४ ॥
她自己化为那罗耶尼,在大地上容貌无比,以毛德伽利耶为夫,从湿婆那里求取恩惠。
1.214.65
एतद्देवरहस्यं ते श्रावितं राजसत्तम ।
नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः ॥ १.२१४.६५ ॥
“诸王中最优秀的人啊,这神的秘密已经讲给你听了。不可告诉任何人,因为这是神圣的秘密。”
1.214.66
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे ।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥ १.२१४.६६ ॥
为了般度五子,天界的吉祥女神在那场大祭祀中降生;她在此苦修,如今成了你的女儿。
1.214.67
सैषा देवी रुचिरा देवजुष्टा ।
पञ्चानामेका स्वकृतेनेह कर्मणा।
सृष्टा स्वयं देवपत्नी स्वयंभुवा ।
श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥ १.२१४.६७ ॥
这位为诸神所爱的美丽女神,凭自己的业在此成为五者之一。自在者亲自将她创造为神的妻子。大王,听了德鲁帕达的愿望,就照此行事吧。