Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.216

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.216.1

पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह ।
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन ॥ १.२१६.१ ॥

与般度五子结成姻亲的德鲁帕达,毫无惧怕,即便是对诸神也不畏惧。

1.216.2

कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः ॥ १.२१६.२ ॥

德鲁帕达那些女眷走近贡蒂,报上自己的名字,以头叩触她的双足。

1.216.3

कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥ १.२१६.३ ॥

克里希那身着细麻布衣,完成吉祥礼仪,向婆婆行礼之后,躬身合掌而立。

1.216.4

रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥ १.२१६.४ ॥

对于具备美貌与吉祥相、品性端庄的德罗波蒂,普利塔以慈爱之心向这位儿媳说出祝福之词。

1.216.5

यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।
रोहिणी च यथा सोमे दमयन्ती यथा नले ॥ १.२१६.५ ॥

如因陀罗尼之于黄马之主因陀罗,娑诃之于火神毗婆娑(阿耆尼),罗诃尼之于月神苏摩,达摩衍蒂之于那罗,

1.216.6

यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥ १.२१६.६ ॥

如跋陀罗之于毗沙门(俱毗罗),阿伦陀蒂之于婆悉吒,吉祥天女之于那罗延,你也应如此对待你的夫君们。

1.216.7

जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता ।
सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता ॥ १.२१६.७ ॥

啊,吉祥的女子,愿你生育存活的儿子与英勇的儿子,充满大幸福,富贵吉祥,享受丰足,成为行祭者的妻子,并忠于丈夫。

1.216.8

अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून् ।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥ १.२१६.८ ॥

愿你在依礼敬奉客人、远来的圣者、长辈、幼童与师长的同时,岁月永远如此度过。

1.216.9

कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला ॥ १.२१६.९ ॥

啊,热爱正法的女子,在俱卢与斋伽罗等主要国家和城市中,让你的丈夫被灌顶为王。

1.216.10

पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥ १.२१६.१० ॥

把你那些大力丈夫以勇武所征服的整个大地,在大祭马祭中施与婆罗门。

1.216.11

पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते ।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं ॥ १.२१६.११ ॥

啊,有德的吉祥女子,愿你获得大地上一切优良的珍宝,并幸福地度过一百个秋天。

1.216.12

यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम् ।
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां ॥ १.२१६.१२ ॥

正如今日我祝福你这身穿麻布的新妇,我也将再次祝福你这位已生育儿子、德行兼备的女子。

1.216.13

ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।
वैदूर्यमणिचित्राणि हैमान्याभरणानि च ॥ १.२१६.१३ ॥

随后,赫利(黑天)向已娶妻的般度五子送去镶嵌吠琉璃宝石的金饰。

1.216.14

वासांसि च महार्हाणि नानादेश्यानि माधवः ।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥ १.२१६.१४ ॥

摩陀婆又送去来自各地的贵重衣物、毛毯、兽皮和宝石,柔软而精美。

1.216.15

शयनासनयानानि विविधानि महान्ति च ।
वैदूर्यवज्रचित्राणि शतशो भाजनानि च ॥ १.२१६.१५ ॥

床榻、座椅、各种大型车辆,以及数百件镶嵌吠琉璃与钻石的器皿。

1.216.16

रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः ।
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः ॥ १.२१६.१६ ॥

黑天赠予来自各地的侍女,她们美貌、年轻、温和,并装饰得十分精美。

1.216.17

गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् ।
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान् ॥ १.२१६.१७ ॥

训练有素的象、优良骏马、装饰精美的车,以及镶饰金子与明亮饰带的驯服战车。

1.216.18

कोटिशश्च सुवर्णं च तेषामकृतकं तथा ।
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥ १.२१६.१८ ॥

摩图苏陀那(黑天)以无量之心,将数千万金与未经加工的金子排列成行送去。

1.216.19

तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।
मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥ १.२१६.१९ ॥

法王坚战怀着无上的喜悦接受了这一切,只想让戈文达欢喜。