Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.217

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.217.1

ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत ।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥ १.२१७.१ ॥

于是,诸王的探子带来消息:吉祥的德罗波蒂已与般度五子(她的丈夫们)会合。

1.217.2

येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ १.२१७.२ ॥

正是那位大德的阿周那,诸胜者中的最优者,手持大弓与大箭,拿起那张弓射中了目标。

1.217.3

यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली ।
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे ॥ १.२१७.३ ॥

正是那位有力者,将摩德罗国王沙利亚高高举起并摔倒在地;他在战斗中大怒,用一棵树震慑众人。

1.217.4

न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥ १.२१७.४ ॥

那位大德之人毫无慌乱。他就是毗摩,其触碰可怖,能砍倒敌军的肢体。

1.217.5

योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा ।
स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः ॥ १.२१७.५ ॥

在那场战斗中,他甚至胜过了难敌。那位王,般度子孙中最优秀者,分享功德,增益智慧。

1.217.6

दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत् ।
तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ ॥ १.२१७.६ ॥

那两位孪生者,品行圆满,具备力量与勇武,曾如敌人般与难敌的幼弟们交战。

1.217.7

ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान् ।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥ १.२१७.७ ॥

国王们听说那些化作婆罗门模样、心境平静的般度之子、昆蒂之子,都感到惊异。

1.217.8

पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः ।
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ॥ १.२१७.८ ॥

所有市民和刹帝利王都感到惊异,因为早先听说昆蒂与她的儿子们在漆宫中被烧死了。

1.217.9

सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी ।
पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः ॥ १.२१७.९ ॥

在所有地上君主和诸国之中,昆蒂都享有盛名;国王们把那些人看作重生者一般。

1.217.10

धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै ॥ १.२१७.१० ॥

那时,他们因补罗阇那所做的极其残忍之事而责备毗湿摩与俱卢族的持国王。

1.217.11

धार्मिकान्वृत्तसंपन्नान्मातुः प्रियहिते रतान् ।
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति ॥ १.२१७.११ ॥

当他想要毁灭那些普利塔之子时,他们正直、品行端正,一心使母亲欢喜、为母亲谋福。

1.217.12

ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत ।
मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः ॥ १.२१७.१२ ॥

斯瓦耶姆瓦罗仪式结束后,婆罗多啊,持国的诸子都受迦尔纳与萨乌巴罗的蛊惑,开始商议。

1.217.13

कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः ।
उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः ॥ १.२१७.१३ ॥

一个敌人应当削弱,另一个应当困扰。依一切刹帝利之见,贡蒂之子应由我消灭。

1.217.14

एवं पराजिताः सर्वे यदि यूयं गमिष्यथ ।
अकृत्वा संविदं कांचिन्मनस्तप्स्यत्यसंशयम् ॥ १.२१७.१४ ॥

你们若如此战败而去,未曾达成任何和议,你们的心无疑会懊悔。

1.217.15

अयं देशश्च कालश्च पाण्डवाहरणाय नः ।
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ ॥ १.२१७.१५ ॥

此地与此时对我们擒获般度五子正为有利。若你们不如此行,将在世间成为笑柄。

1.217.16

यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् ।
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम ॥ १.२१७.१६ ॥

他们想要投靠居住的那位君主,乃是德鲁帕达,依我之见,此人勇力与力量皆微弱。

1.217.17

यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः ।
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् ॥ १.२१७.१७ ॥

只要维里希尼族的俊杰,以及人中猛虎、威力盛大的枝提王希舒波罗仍然活着,并且尚未知晓他们。

1.217.18

एकीभावं गतो राज्ञा द्रुपदेन महात्मना ।
दुराधर्षतरा राजन्भविष्यन्ति न संशयः ॥ १.२१७.१८ ॥

与大德的德鲁帕达王合而为一,大王,他们无疑将变得更加难以抵挡。

1.217.19

यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः ।
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति ॥ १.२१७.१९ ॥

趁诸王仍然动摇之际,我们应当决定除掉般度之子。

1.217.20

मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव ।
पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम् ॥ १.२१७.२० ॥

他们如同从毒蛇口中脱出一般逃离了蜡屋,若再次获释,我们便大难临头了。

1.217.21

तेषामिहोपयातानामेषां तु चिरवासिनाम् ।
अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव ॥ १.२१७.२१ ॥

要在这些前来、久居于此的人之间立足,难如夹在两头大象之间。

1.217.22

हनध्वं प्रगृहीतानि बलानि बलिनां वराः ।
यावन्नः कुरुसेनायां पतन्ति पतगा इव ॥ १.२१७.२२ ॥

诸位强者中的俊杰啊,在它们如飞蛾般扑向我们的俱卢大军之前,把被擒的军队全部消灭吧。

1.217.23

तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम् ।
एतन्मम मतं चैव प्राप्तकालं नरर्षभ ॥ १.२१७.२३ ॥

那么就从四面全力进攻,摧毁此城。这是我的看法,此时正是良机,人中之雄啊。

1.217.24

शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः ।
सोमदत्तिरिदं वाक्यं जगाद परमं ततः ॥ १.२१७.२४ ॥

听完邪恶之人沙恭尼的这番话,索摩达多之子随即说出了这番至高的言辞。

1.217.25

प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च ।
तथा देशं च कालं च षड्विधान्स नयोद्गुणान् ॥ १.२१७.२५ ॥

既知自己与他人的七种要素,又知地点与时机,以及六种善治之德,

1.217.26

स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् ।
प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम् ॥ १.२१७.२६ ॥

审慎考量自身的地位、增长、衰落、领土、盟友与勇力之后,应攻击饱受灾祸折磨的敌人。

1.217.27

ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् ।
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् ॥ १.२१७.२७ ॥

因此我认为般度之子拥有盟友与财库,在力量与勇气中坚定,并因自己的行为而受百姓爱戴。

1.217.28

वपुषा हि तु भूतानां नेत्राणि हृदयानि च ।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् ॥ १.२१७.२८ ॥

阿周那以其容貌悦动众生的眼与心,又以甜美的言语令人们的耳朵欢喜。

1.217.29

न तु केवलदैवेन प्रजा भावेन भेजिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ १.२१७.२९ ॥

然而民众并非仅因天命而归向他,而是出于各自的心意;他以行动成就了心中所喜之事。

1.217.30

न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती ॥ १.२१७.३० ॥

从那言辞优美的般度之子口中,没有说出不当的话,没有偏执的话,没有虚假的话,也没有令人不悦的话。

1.217.31

तानेवंगुणसंपन्नान्संपन्नान्राजलक्षणैः ।
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात् ॥ १.२१७.३१ ॥

我看不到有谁能以武力铲除那些具备这些德性、带有王者之相的人。

1.217.32

प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला ।
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति ॥ १.२१७.३२ ॥

般度之子之中,既有广大的影响之力,也有充沛的谋略之力,同样也有振奋的精力之力。

1.217.33

मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः ।
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः ॥ १.२१७.३३ ॥

坚战善知时机;他以怀柔、赏赐、离间和惩罚来运用世袭之力、友邦之力与军队之力。

1.217.34

अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः ।
परिक्रीय धनैः शत्रुं मित्राणि च बलानि च ॥ १.२१७.३४ ॥

其后,依我之见,敌人不应以愤怒征服,而应以财富收买敌人、朋友与军队来取胜。

1.217.35

मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः ।
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः ॥ १.२१७.३५ ॥

般度之子已奠定善业之根,因而享有大地。我认为,即便诸神与因陀罗同来,也无法战胜般度五子。

1.217.36

येषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ ।
श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम् ॥ १.२१७.३६ ॥

为了他们,克里希那与桑卡尔沙那二人始终尽心竭力——若你们认为此为善,若我的这一看法在你们看来合宜,或你们另有其见——

1.217.37

संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम् ।
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि ॥ १.२१७.३७ ॥

与所有般度族达成协议之后,让我们循原路返回,回到那有高大城门、望楼和数百张床榻的地方。

1.217.38

गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम् ।
तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः ॥ १.२१७.३८ ॥

这座上好的城市有水环绕而受到守护,并储备了草料、谷物、燃料与补给,以及器械、兵器和药材。

1.217.39

युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः ।
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् ॥ १.२१७.३९ ॥

城中有许多门户、库房和精美的台座,高耸着巨大的器械轮,并被高大的望楼环绕。

1.217.40

दृढप्राकारनिर्यूहं शतघ्नीशतसंकुलम् ।
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः ॥ १.२१७.४० ॥

它拥有坚固的城墙和突出的女墙,聚集着数百座攻城器械;所谓由砖、木或人力所筑的城垣,即是此类。

1.217.41

प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः ।
तदेतन्नरगर्भेण पाण्डरेण विराजते ॥ १.२१७.४१ ॥

那里,由筑墙的勇士所尊奉的城垣名为“人胎”。这座城以人造的白色城心而闪耀。

1.217.42

सालेनानेकतालेन सर्वतः संवृतं पुरम् ।
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः ॥ १.२१७.४२ ॥

这座城四面被娑罗树与许多棕榈树所环绕;伟大的德鲁帕达的百姓都忠于他。

1.217.43

दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये ।
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः ॥ १.२१७.४३ ॥

得知凡以施赠与尊敬而结交者,城内城外之人,皆被威猛的诸王所围困,

1.217.44

उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः ।
तस्मात्संन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः ॥ १.२१७.४४ ॥

十阿尔诃人将高举兵器而来。因此,让我们与持国之子及般度五子议和。

1.217.45

स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम ।
एतन्मम मतं सर्वैः क्रियतां यदि रोचते।
एतद्धि सुकृतं मन्ये क्षेमं चापि महीभिताम् ॥ १.२१७.४५ ॥

若我的话可信,我们就回到自己的国家去吧。这是我的意见;若大家都同意,就照此去做。我认为这是善举,对诸王也是安全的。