摩诃婆罗多 · 章 1.218
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.218.1
सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा ।
उवाच वचनं काले कालज्ञः सर्वकर्मणाम् ॥ १.२१८.१ ॥
Karṇa,毗迦尔达那之子、公牛般的英雄,听了索摩达塔之子的话,他知道一切行动的时机,于恰当的时刻说出了这些话。
1.218.2
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् ।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति ॥ १.२१८.२ ॥
所说的这一切都基于良好的政策,且有意义。我并不非议这些话;请听我的话。
1.218.3
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः ।
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति ॥ १.२१८.३ ॥
人在一切事务中都不应陷入犹豫;心若分为两半,任何其他事情都无法成功。
1.218.4
संप्रयाणासनाभ्यां तु कर्शनेन तथैव च ।
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः ॥ १.२१८.४ ॥
仅靠行军、驻营,或同样地疲惫敌人,都无法夺取这座城市;大声喧哗也是不得体的。
1.218.5
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम ।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः ॥ १.२१८.५ ॥
依我思量,现在正是歼灭他们的时候,趁喜好战争的毗利尼族尚未攻击我们的后方。
1.218.6
भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः ।
प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि ॥ १.२१८.६ ॥
你们也应当欢欣,以自己臂膀的力量自豪,去推倒城墙,并填平壕沟。
1.218.7
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् ।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥ १.२१८.७ ॥
放干积水,把不平之处整平,用草和木柴填满此城的大壕沟。
1.218.8
घुष्यतां राजमार्गेषु परेषां यो हनिष्यति ।
नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥ १.२१८.८ ॥
在王道上宣告:凡杀死敌方象、马或步兵者,将得到赏赐与荣誉。
1.218.9
नागे दशसहस्राणि पञ्च चाश्वपदातिषु ।
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥ १.२१८.९ ॥
杀象者,诸王给予一万;杀马或步兵者,给予五千;杀战车者,给予象的两倍财富。
1.218.10
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः ।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥ १.२१८.१० ॥
那些沉溺于欲乐者、孩童、老人,以及心不在战斗之人——这些怯懦者,留在此处吧。
1.218.11
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः ।
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम् ॥ १.२१८.११ ॥
不可许可劫掠,也不可未经命令擅自前往。守护你们的荣誉,愿你们吉祥;我们必定能战胜敌人。
1.218.12
अनुलोमाश्च नो वाताः सततं मृगपक्षिणः ।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥ १.२१८.१२ ॥
风对我们始终有利,走兽飞禽也都吉利;火焰明亮,兵器与铠甲也闪闪发光。
1.218.13
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः ।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥ १.२१८.१३ ॥
于是,听了迦尔纳的话,欲使持国之子欢喜的诸王,便出征于战场,使敌人战栗。
1.218.14
न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः ।
यथा परिरपुघ्नानां प्रसभं युद्ध एव च ॥ १.२१८.१४ ॥
他们的心念并非完全贪恋于感官之境;如同诛杀敌人的人一般,他们被强力牵引,沉浸于战斗之中。
1.218.15
वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः ।
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः ॥ १.२१८.१५ ॥
迦尔纳领先之军,发出如信度河波涛般的巨响;难近为其大鱼,难敌为其大鳄。
1.218.16
स राजसागरो भीमो भीमघोषप्रदर्शनः ।
अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥ १.२१८.१६ ॥
那片王者之海,可怖而发出骇人的吼声,疾速冲向那座城,使其居于右侧而行。
1.218.17
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् ।
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः ॥ १.२१८.१७ ॥
德律波陀之子见那支不可抵挡、闪耀着兵器、火焰与毒蛇的军队剧烈颤动,便大声呼喊起来。
1.218.18
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः ।
निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र ॥ १.२१८.१८ ॥
那些勇士乘着发出如云雷般轰鸣的上好战车,从城门冲出,使敌人惊恐。
1.218.19
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः ।
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान् ॥ १.२१८.१९ ॥
持国之子:德里斯塔德于姆那、希坎丁、苏弥多罗、可爱的普里耶达尔沙纳、奇multipliedketu、苏盖图,以及勇武的达瓦吉盖图。
1.218.20
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः ।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥ १.२१८.२० ॥
德鲁波达王的众位勇武之子,渴望胜利;以及大勇的德鲁波达,其旗帜上绘有白色头巾。
1.218.21
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः ।
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः ॥ १.२१८.२१ ॥
那位最优秀的君王,持白色拂尘与华盖,乘坐着挂有白色旗帜的战车,在众子之中闪耀光芒。
1.218.22
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः ।
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ॥ १.२१८.२२ ॥
如同满月之夜明月升起于群星之中,那支军队飘扬着旗帜的顶端,直行而不动摇地前进。
1.218.23
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् ।
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः ॥ १.२१८.२३ ॥
见德鲁波达之军前来,俱卢军便冲杀过去,双方同时爆发出震天的喧嚣。
1.218.24
बलयोः संप्रसरतोः सरितां स्रोतसोरिव ।
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ॥ १.२१८.२४ ॥
两支军队如同两条河流的激流般向前奔涌,那些军阵四处散布着战车、象与马。
1.218.25
ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे ।
उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे ॥ १.२१८.२५ ॥
当上好战鼓的声响响起、大噪喧腾之时,他们如散布四方的光焰般照耀四方。
1.218.26
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः ।
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ॥ १.२१८.२६ ॥
于是心怀愤怒的伟大的般度子孙乘坐由上等良马驾驭、声如雷鸣的战车出发了。
1.218.27
धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः ।
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ॥ १.२१८.२७ ॥
婆罗多族的雄牛们挥动着白色的旗帜,登上战车,看见般度之子站在战车上手持弓箭,
1.218.28
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च ।
निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे ॥ १.२१८.२८ ॥
般度之子出阵之时,诸王的心中生出战栗与颤抖;而德罗纳的那支军队在战场上也同样动摇。
1.218.29
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति ।
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् ॥ १.२१८.२९ ॥
至高的欢喜与喜悦向胜利涌来;片刻之间,两军之中陷入极大的混乱与交错。
1.218.30
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम् ।
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ ॥ १.२१८.३० ॥
于是他们以死为先而展开单打独斗;在那场战斗中,苏弥特罗与普里耶达尔沙那彼此攻击。
1.218.31
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः ।
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ ॥ १.२१८.३१ ॥
在左右开弓的阿周那注视下,胜车与迦尔纳被杀;见到如苏弥陀罗之子般俊美可爱的两人已倒下,阿周那……
1.218.32
जयद्रथसुतं तत्र जघान पितुरन्तिके ।
वृषसेनादवरजं सुदामानं धनंजयः ॥ १.२१८.३२ ॥
在那里,持财者(阿周那)当着父亲的面杀死了胜车之子,也杀死了毗湿沙那之弟苏达曼。
1.218.33
कर्णपुत्रं महेष्वासं रथनीडादपातयत् ।
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ॥ १.२१८.३३ ॥
他把大弓手迦尔纳之子从车座上打落。那两位如狮子般迅猛的王子见到自己的两个儿子被杀……
1.218.34
नामृष्येतां महाबाहू प्रहारमिव सद्गजौ ।
तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति ॥ १.२१८.३४ ॥
这两位大臂者不能忍受那一击,如同良象不能忍受鞭挞。他们毫不慌乱,朝法尔古那的战车走去。
1.218.35
प्रतिमुक्ततलत्राणौ शपमानौ परस्परम् ।
सन्निपातस्तयोरासीदतिघोरो महामृधे ॥ १.२१८.३५ ॥
两人束紧护臂与护手,彼此咒骂,在那场大战中发生了极为可怖的交锋。
1.218.36
वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे ।
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ ॥ १.२१८.३६ ॥
正如持金刚的因陀罗在与弗栗多和商巴拉的战斗中所做的那样,那两位人中雄牛在那场大战中杀死了法尔古那的三匹马。
1.218.37
ततः किलिकिलाशब्दः कुरूणामभवत्तदा ।
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ॥ १.२१८.३७ ॥
那时,俱卢人中爆发出欢呼之声;威猛的毗摩娑那看见那些马已被杀死。
1.218.38
निमेषान्तरमात्रेण रथमश्वैरयोजयत् ।
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ ॥ १.२१८.३८ ॥
转瞬之间,他把马套上另一辆战车;见战车驶近,难敌与他的人马走在前面。
1.218.39
सौबलः सौमदत्तिश्च समेयातां परन्तपौ ।
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ॥ १.२१८.३९ ॥
能苦恼敌人的萨乌巴拉与苏摩达塔两人一同前来;面对他们五人,心志坚定的大力毗摩娑那挺身而战。
1.218.40
अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः ।
तैर्निरुद्धो न संत्रासं जगाम समितिंजयः ॥ १.२१८.४० ॥
那时他与那些英雄交战,如同主宰者与感官对象相争;虽被他们包围,这位战场上的胜者却毫无惧色。
1.218.41
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी ।
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः ॥ १.२१८.४१ ॥
他好比被五头发狂的象围住的狮子;那五人同时以五支锋利的箭射中了他。
1.218.42
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् ।
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ॥ १.२१८.४२ ॥
他们把车夫与马送往毗婆娑塔的国度;马匹被杀之后,这位大战车武士便从最好的战车上下来。
1.218.43
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः ।
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि ॥ १.२१८.४३ ॥
般度之子高举利剑,在许多路径上穿行,于马背、车轮、轭和辕上皆然。
1.218.44
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः ।
विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ॥ १.२१८.४४ ॥
他如金翅鸟扑向蛇群一般击倒敌人而行;看见他们无弓、无甲、无车,
1.218.45
अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः ।
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ ॥ १.२१८.४५ ॥
以阿尔祖那为首的新生虎将般的战车武士扑来——德里什塔俄姆那、希坎丁,以及战场上不可战胜的孪生兄弟。
1.218.46
तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः ।
रथध्वजपताकाश्च सवर्मन्तरधीयत ॥ १.२१८.४६ ॥
当那场大车战开始时,在箭雨之下,战车的旗帜、飘带与披甲的战士皆隐没不见。
1.218.47
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् ।
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः ॥ १.२१८.४७ ॥
那场战斗持续了很久,看似势均力敌;随后臂力强大的阿尔祖那以战车再次将他们击退。
1.218.48
तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः ।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥ १.२१८.४८ ॥
大臂的弓箭手迦尔纳见他冲来,身为诸善用兵器者中的翘楚,便以箭矢将其阻住。
1.218.49
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् ।
त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः ॥ १.२१८.४९ ॥
他被击中后,因陀罗之子帕尔塔愤怒地搭上三支如雷霆般的箭,要杀死这个愤怒者,那位般度之子。
1.218.50
तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् ।
अपोवाह रथाच्चाशु सूतः परपुरंजयम् ॥ १.२१८.५० ॥
卡尔纳被那些箭射中,抓着旗杆,他的御者迅速将这位征服敌城者带离战车。
1.218.51
ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम् ।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु ॥ १.२१८.५१ ॥
于是卡尔纳战败,持国之子们心中生起巨大的恐惧,看到般度之子们欢欣鼓舞。
1.218.52
तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम् ।
गिरा मधुरया चापि समाश्वासयतासकृत् ॥ १.२१८.५२ ॥
看到那支军队极度颤抖,苏巴拉之子(沙恭尼)便用甜美的话语反复安慰它。
1.218.53
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः ।
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम् ॥ १.२१८.५३ ॥
于是以难敌为首的持国诸子,又重新稳住了那支被帕尔塔所困扰的军队。
1.218.54
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः ।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥ १.२१८.५४ ॥
于是勇猛无比的怖军见到难敌,便愤怒起来;这位大臂者想起了漆宫。
1.218.55
ततः संग्रामशिरसि ददर्श विपुलद्रुमम् ।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥ १.२१८.५५ ॥
于是他在战阵之首看见一棵巨大的树,挺立伸展,高达五十根枝干。
1.218.56
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् ।
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि ॥ १.२१८.५६ ॥
那棵树干粗大、极其高耸、如因陀罗之旗般挺立的大树,他用双手将其连根拔起,连同根部高高举起。
1.218.57
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् ।
भीमसेनभयार्तानि फल्गुनाभिहतानि च ॥ १.२१८.५७ ॥
他在战场上冲向敌人,如手持金刚杵的因陀罗冲向阿修罗,冲向那些被怖畏于比玛塞那、又被法尔古那打击的军队。
1.218.58
न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम् ।
तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च ॥ १.२१८.५८ ॥
持国之子们的那些军队甚至不敢抬头观看。它们之中有惊慌失措的战士,也有疲惫的马匹和象群。
1.218.59
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः ।
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः ॥ १.२१८.५९ ॥
如风吹散天空的云朵,毗摩向四方驱散了(军队)——那些转身而逃、毫无喜色的人、象与马。
1.218.60
नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम् ।
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः ॥ १.२१८.६० ॥
他们既不追击,也不攻击,更没有说任何刻薄的话;被箭所伤的刹帝利们回到了自己的营地。
1.218.61
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः ।
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह ॥ १.२१८.६१ ॥
其他人欢欣地向城市前进,那城市给居民带来欢乐;与般度之子们之间有片刻的战斗。
1.218.62
यावत्तद्युद्धमभवन्महद्देवासुरोपमम् ।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥ १.२१८.६२ ॥
那场战斗如同诸神与阿修罗之战般壮大,直到战事停止,便迎来了和平;伟大的车战勇士们也都退去了。
1.218.63
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम् ।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥ १.२१८.६३ ॥
众人都完成了各自的善誓;他们对德行端正的新娘说话,又对德鲁帕达和普利沙塔之子德里斯塔迪尤姆纳说,他们的目的已经达成。
1.218.64
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि ।
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥ १.२१८.६४ ॥
沙古尼、信度王、迦尔纳和难敌也都是如此——他们心中便生出悲伤,却没有用言语说出来。
1.218.65
ततः प्रयाता राजानः सर्व एव यथागतम् ।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥ १.२१८.६५ ॥
于是众王都照来时的样子离去;德里塔拉什特拉的诸子那时都前往那伽普拉。
1.218.66
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः ।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥ १.२१८.६६ ॥
在城市被围之前,般度之子们已派遣骑兵,说:“去吧,代我们向紫利(克里希纳)通报。”
1.218.67
तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम् ।
ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥ १.२१८.६७ ॥
他们很快抵达了优陀婆之城,对善于言辞的桑迦尔沙那和优毗陀罗说话。
1.218.68
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः ।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥ १.२१८.६८ ॥
般度之子向所有安陀迦与毗瑞尼族问候平安,说他们自己虽受伤,却已从蜡宫中脱身。
1.218.69
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम् ।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥ १.२१८.६९ ॥
他们说,在集会上赢得了莲花眼的德劳badi,她在品性、行为与定力上都与他们相配。
1.218.70
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः ।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥ १.२१८.७० ॥
克里希那听罢,回答他们说:“这一切我都知道,因为已经杀了那罗刹。”
1.218.71
तत उद्योजयामास माधवश्चतुरङ्गिणीम् ।
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति ॥ १.२१८.७१ ॥
于是摩陀婆下令整顿四军,迅速率军向般遮罗城进发。
1.218.72
ततः संकर्षणश्चैव केशवश्च महाबलः ।
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः ॥ १.२१८.७२ ॥
随后,大力的桑迦尔沙那与克沙婆率领全体耶陀族人,前去与般度五子相见。
1.218.73
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम् ।
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि ॥ १.२१८.७३ ॥
他敬重了姑母,向耶达瓦女子行礼,并按规仪用明亮的饰物装扮了德罗波蒂。
1.218.74
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान् ।
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना ॥ १.२१८.७४ ॥
两人使般度诸子欢喜,也敬重了他们;而他们也按礼被高尚的国王德鲁波陀所尊敬。
1.218.75
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः ।
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा ॥ १.२१८.७५ ॥
众耶达瓦人受到般度诸子和诸位高尚者的敬重,那时便与般度诸子一同在般遮罗城中欢乐度日。