Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.219

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.219.1

वृत्ते स्वयंवरे चैव राजानः सर्व एव ते ।
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥ १.२१९.१ ॥

选婿大典结束后,诸王得知般度五子已被选中,便依原路返回了。

1.219.2

अथ दुर्योधनो राजा विमना भ्रातृभिः सह ।
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ १.२१९.२ ॥

于是国王难敌心情沮丧,与诸弟、马嘶、舅父、迦尔纳和俱卢族的克利巴一同离去。

1.219.3

विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ।
तं तु दुःशासनोऽव्रीडो मन्दंमन्दमिवाब्रवीत् ॥ १.२१९.३ ॥

无耻的难降见德罗波蒂选中了白马的阿周那,便折返回来,几乎是温和地对他说话。

1.219.4

यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः ।
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥ १.२१९.४ ॥

若他不是婆罗门,便得不到德罗波蒂。大王啊,实际上没有人真正认识财主(阿周那)。

1.219.5

दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम् ।
धिगस्तु पौरुषं मन्त्रं यद्धरन्तीह पाण्डवाः ॥ १.२१९.५ ॥

我认为天命最为高贵,人的努力也是徒劳的。耻辱啊,般度之子们凭借那种努力与谋略在此夺走了奖赏!

1.219.6

बध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम् ।
उद्वाह्य राज्ञां तैर्न्यस्तो वामः पादः पृथासुतैः ॥ १.२१९.६ ॥

般度之子蒙蔽了我们的眼睛,娶走了德鲁帕达之女,并把左脚踩在了诸王头上。

1.219.7

विमुक्ताः कथमेतेन जतुवेश्मविर्भुजः ।
अस्माकं पौरुषं सत्वं बुद्धिश्चापि गता ततः ॥ १.२१९.७ ॥

那些借此逃出漆屋的人怎会得以解脱?那时我们的男子气概、勇气与智慧也都消失了。

1.219.8

वयं हता मातुलाद्य विश्वस्य च पुरोचनम् ।
अदग्ध्वा पाण्डवानेतान्स्वयं दग्धो हुताशने ॥ १.२१९.८ ॥

舅舅啊,今日我们毁灭了,那位可信的布罗遮那也一样。他未能烧死这些般度之子,自己却葬身火中。

1.219.9

मत्तो मातुल मन्येऽहं पाण्डवा बुद्धिमत्तराः ।
तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः ॥ १.२१९.९ ॥

舅舅,我认为般度之子比我更聪明。从漆屋中解脱的他们,已无死亡之惧。

1.219.10

एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् ।
पञ्चपुत्रां किरातीं च विदुरं च महामतिम् ॥ १.२१९.१० ॥

他们这样交谈,同时指责布罗遮那、那位生有五子的吉拉塔女人,以及大智的维杜罗。

1.219.11

विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥ १.२१९.११ ॥

他们悲苦、心神失落,进入了象城(哈斯蒂纳普拉)。

1.219.12

त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः ।
मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च ॥ १.२१९.१२ ॥

他们见到大力的普利塔之子已获解脱,并与德鲁帕达联合,心生恐惧,失去了决心。

1.219.13

धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम् ।
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥ १.२१९.१३ ॥

想到德瑞什塔德尤姆那、同样想到湿employ乔的湿卡丁,以及德鲁帕达的其他儿子,他们都精通各种战争。

1.219.14

विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् ।
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥ १.२१९.१४ ॥

此时,维杜拉听说德劳帕蒂选择了般度五子,又听说持国王的儿子们羞愧难当、傲气已挫而归来。

1.219.15

ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशांपते ।
उवाच दिष्ट्या कुरवो वर्ध्त इति विस्मितः ॥ १.२१९.१५ ॥

于是欢喜的维杜拉惊讶地对持国王说:“人主啊,幸运的是,俱卢族正在兴盛。”

1.219.16

वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ १.२१९.१६ ॥

毗其陀维利耶之子的国王听了维杜拉的话,非常高兴,说道:“幸运啊!幸运啊!”婆罗多啊。

1.219.17

मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥ १.२१९.१७ ॥

那位慧眼之王因无知,以为德鲁帕达之女选择了他的长子难敌。

1.219.18

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ १.२१९.१८ ॥

于是他下令为德劳帕蒂取来许多首饰:“把黑公主带来”,并且也叫来他的儿子难敌。

1.219.19

अथ स्म पश्चाद्विदुर आचख्यावम्बिकात्मजम् ।
कौरव्या इति सामान्यान्न मन्येथास्तवात्मजान् ॥ १.२१९.१९ ॥

随后毗杜罗对安比迦之子说:“不要因为都称作俱卢族后裔的共同名称,就把你的儿子们当作另外一类。”

1.219.20

वर्धन्त इति मद्वाक्याद्वर्धिताः पाण्डुनन्दनाः ।
कृष्णया संवृताः पार्था विमुक्ता राजसङ्गरात् ॥ १.२१९.२० ॥

“愿他们兴旺”——依我的话,般度之子得以兴盛;从国王的誓约中解脱,普利塔之子与黑天女重新聚首。

1.219.21

दिष्ट्या कुशलिनो राजन्पूजिता द्रुपदेन च ॥ १.२१९.२१ ॥

国王啊,幸运的是他们平安无事,并且受到了德鲁帕达的尊敬。

1.219.22

एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः ।
आकारच्छादनार्थाय दिष्ट्यादिष्ट्येति चाब्रवीत् ॥ १.२१९.२२ ॥

国王听了毗杜罗这番话,为掩饰内心的情绪,说道:“幸运!幸运!”

1.219.23

एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः ।
न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसंभवा ॥ १.२१९.२३ ॥

“就这样吧,毗杜罗,愿你吉祥。若般度五子尚在,你那如甘露般的话语所带来的喜悦,已充满我的身躯,难以容纳。”

1.219.24

साध्वाचारतया तेषां संबन्धो द्रुपदेन च ।
बभूव परमश्लाघ्यो दिष्ट्यादिष्ट्येति चाब्रवीत् ॥ १.२१९.२४ ॥

凭着他们的善行,他们与德鲁帕达的结盟变得极其值得称赞。他说:“幸运!幸运!”

1.219.25

अन्ववाये वसोर्जातः प्रवरे मात्स्यके कुले ।
वृत्तविद्यातपोवृद्धः पार्थिवानां च संमतः ॥ १.२१९.२५ ॥

他出生于婆苏的家族、殊胜的摩差耶迦族,品行、学问与苦行皆年高德劭,为诸王所敬重。

1.219.26

पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः ।
तेषां संबन्धिनश्चान्ये बहवः सुमहाबलाः ॥ १.२१९.२६ ॥

他的儿子与孙子皆持守善行誓愿,他们其余的许多亲属也都极为强大。

1.219.27

यथैव पाण्डोः पुत्रास्ते ततोऽप्यभ्यधिका मम ।
सेयमभ्यधिकान्येभ्यो वृत्तिर्विदुर मे मता ॥ १.२१९.२७ ॥

正如般度之子之于我,他们对我而言比那些人更亲;维杜罗啊,我所持的此种态度,高于这一切。

1.219.28

या प्रीतिः पाण्डुपुत्रेषु न साऽन्यत्र ममाभिभो ।
नित्योऽयं चिन्तितः क्षत्तः सत्यं सत्येन शपे ॥ १.२१९.२८ ॥

我对般度之子的爱,在别处是不会有的,哦,有力者;这份忧虑始终存在,维杜罗啊。我以真理起誓,以真理。

1.219.29

यत्ते कुशलिनो वीराः पाण्डुपुत्रा महारथाः ।
मित्रवन्तोऽभवन्पुत्रा दुर्योधनमुखास्तथा ॥ १.२१९.२९ ॥

般度之子,即英勇的大战车武士,安然地拥有了盟友,这对你是好事;以难敌为首的我的儿子们,也同样如此。

1.219.30

मया श्रुतं यदा वह्नेर्दग्धाः पाण्डुसुता इति ।
तदाऽदह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च ॥ १.२१९.३० ॥

当我听说般度之子被火烧死时,我便日夜焚烧,不吃不睡。

1.219.31

असहायाश्चं मे पुत्रा लूनपक्षा इव द्विजाः ।
तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम।
अद्य वै स्थिरसाम्राज्यमाचन्द्रार्कं ममाभवत् ॥ १.२१९.३१ ॥

我的儿子们没有助力,如同断翼的飞鸟。维杜罗啊,请听真话:我的儿子们其实有很好的盟友。今天我的王权已经稳固,与日月同在。

1.219.32

को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् ।
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥ १.२१९.३२ ॥

维杜罗啊,哪位国王,即使失去了荣耀,在与德鲁帕达及其亲族结为朋友时不希望兴盛呢?

1.219.33

तं तथा भाषमाणं तु विदुरः प्रत्यभाषत ।
नित्यं भवतु ते बुद्धिरेषा राजञ्छतं समाः।
इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम् ॥ १.२१९.३३ ॥

对这样说话的他,维杜罗回答道:国王啊,愿你的这份智慧永远长存百年。说完这话,国王啊,维杜罗便回到了自己的住所。

1.219.34

ततो दुर्योधनश्चापि राधेयश्च विशांपते ।
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥ १.२१९.३४ ॥

于是,人主啊,难敌与罗陀之子迦尔纳来到持国王面前,说了这些话。

1.219.35

सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः ।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥ १.२१९.३५ ॥

在维杜罗面前,我们不敢指责你的过错。我们将私下说。你打算做什么?

1.219.36

सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः ।
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदांवर ॥ १.२१९.३६ ॥

父亲啊,你把敌人的壮大当作自己的兴盛,还在维杜罗面前赞扬他们,人中之杰啊。

1.219.37

अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ ।
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥ १.२१९.३७ ॥

无罪的国王啊,在一件应做之事上你却做了别的事。亲爱的孩子,必须时常削弱他们的力量。

1.219.38

ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे ।
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ १.२१९.३८ ॥

我们商议在适当的时机应做之事,以免他们连同我们的儿子、力量和亲族一并吞噬。