Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.221

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.221.1

दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः ।
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन ॥ १.२२१.१ ॥

难敌啊,我认为你的判断不对。俱卢的增益者啊,不能用计谋制服般度之子。

1.221.2

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया ।
निग्रहीतुं तदा वीर न चैव शकितास्त्वया ॥ १.२२१.२ ॥

英雄啊,你先前也曾用细微的计谋试图制服他们,但当时你并未能做到。

1.221.3

इहैव वर्तमानास्ते समीपे तव पार्थिव ।
अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥ १.२२१.३ ॥

君王啊,他们就住在你身边。如同尚未长翼的幼鸟,无法加以伤害。

1.221.4

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते ।
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युता ॥ १.२२१.४ ॥

如今他们已长出羽翼,在远方生活,已经完全长成。贡提之子无法用计谋制服,这是我坚定不移的看法。

1.221.5

न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च ।
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥ १.२२१.५ ॥

他们既不能被灾祸制服,也不能被天命所致的厄运制服。他们有能力,并渴望获得父祖的地位。

1.221.6

परस्परेण भेदश्च नाधातुं तेषु शक्यते ।
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥ १.२२१.६ ॥

也不可能在他们之间挑起分裂。专情于同一位妻子的人,彼此不会分离。

1.221.7

न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः ।
परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥ १.२२१.७ ॥

即便如此,黑天女也无法被他人从他们之中离间。她既已选择了困厄者,何况如今的清净者呢!

1.221.8

ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता ।
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा ॥ १.२२१.८ ॥

对女子而言,一妻多夫是值得追求的美德。黑天女既已得到这美德,便不能离间他们。

1.221.9

आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः ।
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥ १.२२१.९ ॥

那位般遮罗王立下高贵之誓,并非贪慕财富的国王。即使以封赐王国相诱,他也必定不会抛弃贡蒂之子。

1.221.10

तथाऽस्म पुत्रो गुणवाननुरक्तश्च पाण्डवान् ।
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन ॥ १.२२१.१० ॥

同样,我们那位有德的儿子也倾心于般度五子。因此,我认为无论用什么方法都无法使他们屈服。

1.221.11

इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ ।
यावन्न कृतमूलास्ते पाण्डवेया विशांपते ॥ १.२२१.११ ॥

人中雄牛啊,人主啊,在般度之子尚未根深蒂固之前,我们现在应当这样做。

1.221.12

तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम् ।
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः।
तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥ १.२२१.१२ ॥

在那之前就应当攻击他们。亲爱的,愿你同意此事。只要我们一方强大而般遮罗一方弱小,就应攻击他们;不要犹豫。

1.221.13

वाहनानि प्रभूतानि मित्राणि च कुलानि च ।
यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव ॥ १.२२१.१३ ॥

甘陀罗王啊,只要他们仍有众多车乘、盟友与宗族,那么,君王啊,便当施展你的勇武。

1.221.14

यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः ।
सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव ॥ १.२२१.१४ ॥

只要般遮罗王尚未与他那些大勇的儿子们一同立志行动,那么,君王啊,便当施展你的勇武。

1.221.15

यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् ।
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति ॥ १.२२१.१५ ॥

只要伐尔史涅耶尚未为般遮罗宫殿为般度之子的王国,率领耶达婆军队前来,

1.221.16

वसूनि विविधान्भोगान्राज्यमेव च केवलम् ।
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथंचन ॥ १.२२१.१६ ॥

克里希那所拥有的,不仅是财富、种种享乐与王权;为了般度之子,他无论如何也不会舍弃这些。

1.221.17

विक्रमेण मही प्राप्ता भरतेन महात्मना ।
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥ १.२२१.१७ ॥

以勇武,大德的婆罗多获得了大地;以勇武,击败帕卡的因陀罗征服了三界。

1.221.18

विक्रमं च प्रशंसन्ति क्षत्रियस्य विशांपते ।
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥ १.२२१.१८ ॥

人主啊,人们赞美刹帝利的勇武;君王中的雄牛啊,勇武正是英雄自身的法。

1.221.19

ते बलेन वयं राजन्महता चतुरङ्गिणा ।
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥ १.२२१.१९ ॥

大王啊,我们凭借庞大的四军之力,迅速击败德鲁帕德,把般度之子们带到这里来。

1.221.20

न हि साम्ना न दानेन न भदेन च पाण्डवाः ।
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥ १.२२१.२० ॥

般度之子无法以怀柔、赠予或离间来制服,因此唯有凭勇力去打倒他们。

1.221.21

तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् ।
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप ॥ १.२२१.२१ ॥

凭勇力战胜他们后,你便可享有这整个大地。因此,人主啊,我看不到达成此事的其他办法。

1.221.22

श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् ।
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥ १.२२१.२२ ॥

力量强大的持国听了羯尔纳(Rādheya)的话,先向他致敬,然后说了这番话。

1.221.23

उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने ।
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम् ॥ १.२२१.२३ ॥

很有智慧的御者之子啊,精通兵器的你说出这样的话,实在恰当;你充满勇力,这样的言辞正与你相称。

1.221.24

भूय एव तु भीष्मश्च द्रोणो विदुर एव च ।
युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया ॥ १.२२१.२४ ॥

再请毗湿摩、德罗纳和维杜罗,以及你们二位,商议出一个能给我们带来幸福的计策。

1.221.25

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ १.२२१.२५ ॥

于是,大名远扬的大王持国召集了所有这些大臣,当时便与他们商议。