Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.222

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.222.1

न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥ १.२२२.१ ॥

与般度之子作战,我无论如何也不愿意。正如持国是我的,毫无疑问般度也是我的。

1.222.2

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम ।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥ १.२२२.२ ॥

甘陀利的儿子是我的,贡蒂的儿子也是我的。正如他们应由我保护,持国啊,也应由你保护。

1.222.3

यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव ॥ १.२२२.३ ॥

正如对我和国王一样,对你的儿子难敌也是如此;对所有俱卢人和其他人也同样如此,国王啊。

1.222.4

एवं गते विग्रहं तैर्न रोचे ।
सन्धाय वीरैर्दीयतामर्धभूमिः।
तेषामपीदं प्रपितामहानां ।
राज्यं पितुश्चैव कुरूत्तमानाम् ॥ १.२२२.४ ॥

既然如此,我不赞成与他们开战。应与这些英雄议和,将一半土地交给他们。这王国属于他们的祖先,也属于他们的父亲——俱卢人中最杰出的一位。

1.222.5

दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि ।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥ १.२२२.५ ॥

难敌啊,正如你认为这王国是你的祖传之物,孩子,般度五子也认为它是他们的祖传之物。

1.222.6

यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः ।
कुत एव तवापीदं भारतस्यापि कस्यचित् ॥ १.२२२.६ ॥

若光荣的般度之子未曾得到王国,它怎会落到你手中?婆罗多族中又有谁能得到它呢?

1.222.7

अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥ १.२२२.७ ॥

婆罗多族的雄牛啊,你以非法得到了王国;依我之见,他们之前也已经得到了王国。

1.222.8

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ १.२२२.८ ॥

人中的猛虎啊,应以温和的言辞将王国的一半交给他们;这对所有人都有益。

1.222.9

अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।
तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥ १.२२२.९ ॥

若违背此意而行,对我们没有好处;你的恶名也必将彻底,毫无疑问。

1.222.10

कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् ।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम् ॥ १.२२२.१० ॥

请致力于守护你的名声,因为名声是最高的力量;失去名声的人,其生命被认为确实毫无意义。

1.222.11

यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति ॥ १.२२२.११ ॥

俱卢之子啊,只要人的名声未灭,他便仍然活着;而名声已灭的人,确实会消亡,甘陀利之子啊。

1.222.12

तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥ १.२२२.१२ ॥

大臂者啊,请全力承担这适合俱卢族的法;行事要与你的先祖相称。

1.222.13

दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा ।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः ॥ १.२२२.१३ ॥

幸而般度之子仍然活着,幸而普利塔也仍在人世。幸而邪恶的普罗遮那未能如愿,便已走向毁灭。

1.222.14

यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः ।
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ॥ १.२२२.१४ ॥

自从昆提跋阳之族的那些儿子被焚烧之时起,甘陀利之子啊,从那时起我便不能正视他们。

1.222.15

लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम् ।
न चापि दोषेण तथा लोको मन्येत्पुरोचनम्।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥ १.२२२.१५ ॥

即使世人听闻昆提如今的境遇,人们也不会像世人归咎于你那样,把普罗遮那视为有罪,啊,人中之虎。

1.222.16

तदिदं जीवितं तेषां तव किल्बिषनाशनम् ।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥ १.२२२.१६ ॥

因此,他们的存活正是消除你罪过之物。大王啊,见到般度之子也应当如此看待。

1.222.17

न चापि तेषां वीराणां जीवतां कुरुनन्दन ।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं ॥ १.२२२.१७ ॥

还有,库鲁之喜啊,只要那些英雄仍然活着,即使手持金刚杵的天神亲自前来,也无法夺走他们应得的父业之份。

1.222.18

ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः ।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥ १.२२२.१८ ॥

他们都安住于法,并且同心同德。被不义驱逐的他们,在本应同样属于他们的王国中,尤其受到了伤害。

1.222.19

यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ १.२२२.१९ ॥

如果你必须遵循达摩,如果你必须做我所喜爱的事,如果你必须谋求他们的福祉,那么就把王国的一半分给他们。