摩诃婆罗多 · 章 1.223
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.223.1
मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप ।
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम ॥ १.२२३.१ ॥
哦,国王持国,在为商议而聚集的好心人之中,我们所听到的,只是合乎法、有益且能带来名声的话。
1.223.2
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥ १.२२३.२ ॥
亲爱的,这也是我的看法,与伟大的毗湿摩一致:应当把国土分给昆蒂之子,这才是永恒的法。
1.223.3
प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः ।
बहुलं रत्नमादाय तेषामर्थाय भारत ॥ १.२२३.३ ॥
哦,婆罗多,应迅速派一位言语温和的人前往德鲁帕达处,为他们带去大量珠宝。
1.223.4
मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु ।
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥ १.२२३.४ ॥
也应把彼此的事务告诉他;让他带着财富前往,并讲述由此联合而生的至高繁荣。
1.223.5
संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा ।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥ १.२२३.५ ॥
哦,国王,他见你欢喜,也应谈及难敌;哦,婆罗多,也应一再对德鲁帕达与德里斯塔德尤姆纳这样说。
1.223.6
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् ।
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन् ॥ १.२२३.६ ॥
也应述说此联合的合宜、情谊与益处,并反复安慰昆蒂之子与玛德利的两个儿子。
1.223.7
हिरण्मयानि शुभ्राणि बहून्याभरणानि च ।
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु ॥ १.२२३.७ ॥
众王之主啊,依你之言,应将许多金色耀眼的饰物送给德劳波蒂。
1.223.8
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ ।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥ १.२२३.८ ॥
同样,婆罗多族的雄牛啊,应将贡蒂准备的合宜之物送给德鲁帕达的所有儿子和所有般度五子。
1.223.9
दत्त्वा तानि महार्हाणि पाण्डवान्संप्रहर्षय ।
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह।
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति ॥ १.२२३.९ ॥
把那些贵重之物送给般度五子,使他们欢喜。如此怀着安抚之心,与德鲁帕达和般度五子交谈之后,然后再谈论他们的到来。
1.223.10
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् ।
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह ॥ १.२२३.१० ॥
待众英雄得到许可后,让一支壮丽的军队出发。杜莎萨那与毗伽尔纳也应前去把般度五子请到这里来。
1.223.11
ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया ।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥ १.२२३.११ ॥
那时,那些卓越的般度五子,始终受你尊敬,将在臣民的同意下坐上祖传的王位。
1.223.12
एतत्तव महाराज तेषु पुत्रेषु चैव हि ।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥ १.२२३.१२ ॥
伟大的君王啊,婆罗多的后裔,我认为与毗湿摩一同对他们和你的儿子采取这样的行为,是最为恰当的做法。
1.223.13
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ ।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥ १.२२३.१३ ॥
两个因财富和荣誉与你相连、在一切事务中亲近的人,若不商议你的利益,还有什么比这更令人惊讶的呢?
1.223.14
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ।
ब्रूयान्निश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥ १.२२३.१४ ॥
心怀邪念、内心隐秘之人,只是借用善的名义说话,他又将如何按照善人的意见行事呢?
1.223.15
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा ।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥ १.२२३.१५ ॥
在困难的事务中,朋友不会为自己或他人谋福;苦或乐按照命运降临于所有人。
1.223.16
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः ।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥ १.२२३.१६ ॥
无论智慧是否经过培养,无论是孩童还是老人,有伴还是无伴,人在任何地方都会得到一切。
1.223.17
श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः ।
आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥ १.२२३.१७ ॥
据说古时在王舍城有一位名叫安步微遮的君主,是摩竭陀诸王中的国王。
1.223.18
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः ।
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा ॥ १.२२३.१८ ॥
那位君王失去了一切感官,唯余呼吸;那时他便依靠大臣,留在一切事务之中。
1.223.19
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा ।
स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥ १.२२३.१९ ॥
他的大臣摩诃迦尔尼当时成为唯一的主宰。他自认为已获得力量,便开始轻慢他人。
1.223.20
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च ।
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥ १.२२३.२० ॥
他全部夺取了国王用以享乐的女子、宝物和财富,那愚人当时也自己掌握了权力。
1.223.21
तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत ।
तथाहि सर्वमादाय राज्यमस्य जिहीर्षति ॥ १.२२३.२१ ॥
他得到了那些,贪婪者的贪欲便因贪欲而增长;这样夺取了一切之后,他还想夺去他的王国。
1.223.22
हीनस्य करणैः सर्वैरच्छ्वासपरमस्य च ।
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतं ॥ १.२२३.२२ ॥
我们听说,国王失去了一切感官、仅余呼吸,尽管努力,也未能夺回那王国。
1.223.23
किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता ।
यदि ते विहितं राज्यं भविष्यति विशांपते ॥ १.२२३.२३ ॥
他那人中之主的地位难道不是注定的吗?人民之主啊,若王国已为你注定,它便会属于你。
1.223.24
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्धुवम् ।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥ १.२२३.२४ ॥
在全世界注视之下,它必定会留在你身上。若另有安排,你即便努力也不会得到它。
1.223.25
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् ।
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥ १.२२३.२५ ॥
因此,博学者啊,要留心大臣们的善言与恶言;恶人的话与非恶人的话都应当明白。
1.223.26
विद्म ते भावदोषेण यदर्थमिदमुच्यते ।
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत ॥ १.२२३.२६ ॥
我们知道你说这话是出于心意的过失。恶人啊,为了般度之子,你确实在揭示过错。
1.223.27
हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम् ।
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥ १.२२३.२७ ॥
卡尔纳啊,我说的是增益家族的至高利益。如果你认为这不好,那就你来说什么是至高的利益。
1.223.28
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् ।
कुरवो वै विनङ्क्ष्यन्ति नचिरेणैव मे मतिः ॥ १.२२३.२८ ॥
如果我所说的至高利益没有被照做,那么俱卢族必将不久灭亡。这是我的看法。