摩诃婆罗多 · 章 1.224
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.224.1
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।
न त्वशुश्रूषमाणे वै वाक्यं संप्रति तिष्ठति ॥ १.२२४.१ ॥
国王啊,亲属应当向你说有益之言,这毫无疑问;但对于不愿听的人,那话如今已无法立足。
1.224.2
प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः ।
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥ १.२२४.२ ॥
国王啊,俱卢之最、Śantanu之子Bhīṣma说了令人喜悦又有益的话,你却不接受。
1.224.3
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।
तच्च राधासुतः कर्णो मन्यते न हितं तव ॥ १.२२४.३ ॥
同样,Droṇa多次说了上好而有益的话,但Rādhā之子Karṇa认为那对你并不有益。
1.224.4
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥ १.२२४.४ ॥
国王啊,我反复思量,也找不到比这两位人中狮子在智慧上更胜的你最好的益友。
1.224.5
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।
समौ च त्वयि राजेन्त्र तथा पाण्डुसुतेषु च ॥ १.२२४.५ ॥
王中之王啊,这两人在年岁、智慧与学识上皆为长者,对你和对般度之子同样平等。
1.224.6
धर्मे चानवरौ राजन्सत्यतायां च भारत ।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥ १.२२४.६ ॥
国王啊,婆罗多之后,在法与真实上,这二人不逊于Daśaratha之子Rāma,也不逊于Gaya,此事毫无疑问。
1.224.7
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन ।
न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि ॥ १.२२४.७ ॥
他们二人以前从未对你说过任何不利的话,也看不出他们对你有任何过错。
1.224.8
तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि ।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥ १.२२४.८ ॥
那两位人中之虎、勇武真实的人,怎会在你这无罪之王面前谋划不利于你的事呢?
1.224.9
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।
त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः ॥ १.२२४.९ ॥
人主啊,这世上二人皆有智慧,是人中最优秀者;为了你,他们不会说任何歪曲的话。
1.224.10
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ॥ १.२२४.१० ॥
这是我坚定的看法,库鲁之乐啊:为了利益,这两位知法者不会为某一派说话。
1.224.11
एतद्धि परमं श्रेयो मन्येऽहं तव भारत ।
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव ॥ १.२२४.११ ॥
婆罗多啊,我认为这是你最高的利益:正如杜尔约达那等诸子都是你的儿子,国王啊。
1.224.12
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ।
तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः ॥ १.२२४.१२ ॥
同样,般度之子也是你的儿子,国王啊,毫无疑问;如果他们会谋划对他们有害之事,那便是不知此理的人。
1.224.13
मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः ।
अथ ते हृदये राजन्विशेषः स्वेषु वर्तते।
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥ १.२२४.१३ ॥
你的大臣们特别看不到善,国王啊。你心中对自己的儿子有偏袒。他们若揭示内心隐藏之事,必定不会行善。
1.224.14
एतदर्थमिमौ राजन्महात्मानौ महाद्युती ।
नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः ॥ १.२२४.१४ ॥
正因为此,国王啊,这二位大德与大光明者并未公开说出任何事情,因为这正是你的决定。
1.224.15
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ ।
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥ १.२२४.१५ ॥
那二位人中之牛所说的对他们不可能之事,就让它如此吧,人中之虎啊。愿这对你是吉祥的。
1.224.16
कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः ।
शक्यो विजेतुं संग्रामे राजन्मघवतापि हि ॥ १.२२४.१६ ॥
国王啊,光荣的般度之子萨维亚萨钦、财胜者,在战场上怎能被击败?即便是因陀罗也不能。
1.224.17
भीमसेनो महाबाहुर्नागायुतबलो महान् ।
राक्षसानां भयकरो बाहुशाली महाबलः ॥ १.२२४.१७ ॥
大臂的毗摩那罗,力量如万头象,伟大,令罗刹恐惧,臂力强大,大力无比。
1.224.18
हिडिम्बो निहतो येन बाहुयुद्धेन भारत ।
यो रावणसमो युद्धे तथा च बकराक्षसः ॥ १.२२४.१८ ॥
婆罗多之子啊,他以徒手搏斗杀死了希丁巴,在战场上可与罗波那相比,又如罗刹巴卡。
1.224.19
स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः ।
कथं स्म युधि शक्येत विजेतुममरैरपि ॥ १.२२४.१९ ॥
噢,诸王之主啊,作战中的毗摩,威力可怖,即便天神,又如何能在战场上将其战胜?
1.224.20
तथैव कृतिनौ युद्धे यमौ यमसुताविव ।
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता ॥ १.२२४.२० ॥
同样,那两位在战斗中娴熟、如同阎摩之子的孪生兄弟,想活命的人如何能在战场上将他们战胜?
1.224.21
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम् ॥ १.२२४.२१ ॥
那位长兄般坚定、慈悲、宽恕、诚实且勇武的般度长子,如何能在战场上被战胜?
1.224.22
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः ।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥ १.२२४.२२ ॥
以罗摩为护持、以生主为谋士、萨提奇在其一方的人,在战斗中怎会不是无敌的?
1.224.23
द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः ।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥ १.२२४.२३ ॥
德鲁帕达是他们的岳父,般遮罗诸人是他们的内兄弟,以德里斯塔笃由那为首的英雄,以及德鲁帕达的诸子是他们的兄弟——
1.224.24
चैद्यश्च येषां भ्राता च शिशुपालो महारथः ।
सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत।
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥ १.२२४.२४ ॥
车底与大车将希舒braid,二人皆是其兄弟——婆罗多啊,知其不可战胜,便应依法妥善对待他们,给予他们应得的继承之分。
1.224.25
इदं निर्दिष्टमयशः पुरोचनकृतं महत् ।
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥ १.२२४.२५ ॥
此大耻辱乃补罗遮那所为,已被指明。大王啊,今日凭借他们的恩惠,洗清你自己的此污名吧。
1.224.26
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले ।
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम् ॥ १.२२४.२६ ॥
他们这份恩惠遍及我们全族;这是最高的福祉,既关乎生命,也关乎刹帝利之族的昌盛。
1.224.27
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा ।
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥ १.२२४.२७ ॥
德鲁帕达也是伟大的国王,往昔曾与我们结仇。大王啊,争取他归附,便是增强自己一方。
1.224.28
बलवन्तश्च दाशार्हा बहवश्च विशांपते ।
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः ॥ १.२२४.२८ ॥
十阿尔哈族人强大而众多,人主啊。哪里有黑天,哪里便有众人;哪里有黑天,哪里便有胜利。
1.224.29
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप ।
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत् ॥ १.२२४.२९ ॥
大王啊,凡可仅以和睦成就之事,谁被天命所诅咒,会以战争去做呢?
1.224.30
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः ।
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु ॥ १.२२४.३० ॥
听闻普利塔之子尚在人世,城邑与乡村之民必会欣然前来相见;大王啊,请做他们所喜爱之事吧。
1.224.31
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ १.२२४.३१ ॥
难敌、迦尔纳,以及苏波罗之子沙古尼,皆沉溺于不义,心智邪恶,是愚昧的孩子;不要听从他们的话。
1.224.32
उक्तमेतत्पुरा राजन्मया गुणवतस्तव ।
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति ॥ १.२२४.३२ ॥
大王,我以前就对你这位有德之人说过:由于难敌的过失,这些民众必将毁灭。