摩诃婆罗多 · 章 1.225
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.225.1
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः ।
हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम्।
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥ १.२२५.१ ॥
沙恭多之子毗湿摩与智慧而尊贵的仙人德罗纳说出了有益、至上真实而殊胜的言语。你也对我说出有益的至上之言和真理。
1.225.2
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः ।
तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ १.२२५.२ ॥
正如那些英雄、大车战士、贡蒂之子属于般度,同样依法,我的所有儿子也都是;这毫无疑问。
1.225.3
यथैव मम पुत्राणामिदं राज्यं विधीयते ।
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥ १.२२५.३ ॥
正如这王国被分配给我的儿子,同样这王国也属于般度之子;毫无疑问。
1.225.4
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् ।
तया च देवरूपिण्या कृष्णया सह भारत ॥ १.२२५.४ ॥
刹多啊,去把他们连同母亲,以及形貌如神的克里希纳一起,恭敬地接来,婆罗多啊。
1.225.5
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥ १.२२५.५ ॥
幸运的是,那些普利塔之子还活着;幸运的是,普利塔本人也还活着;幸运的是,那些大车战士得到了德鲁帕达之女。
1.225.6
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।
दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥ १.२२५.६ ॥
幸运的是,我们都在兴旺;幸运的是,普罗昌那已经平息。幸运的是,光辉者啊,我的大悲痛已被除去。
1.225.7
त्वमेव गत्वा विदुर तानिहानय मा चिरम् ।
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम्।
आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित् ॥ १.२२५.७ ॥
“你亲自去吧,维杜罗,把他们带来,不要拖延。”受此吩咐,御者维杜罗登上快车,数日之内便抵达了通晓王法的潘查拉人那里。
1.225.8
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ १.२२५.८ ॥
于是,维杜罗遵从持国的命令,前往耶若塞那(德鲁帕达)及般度五子那里,婆罗多的后裔啊。
1.225.9
समुपादाय रत्नानि वसूनि विविधानि च ।
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह ॥ १.२२५.९ ॥
带上各种珠宝和财物,献给德罗波蒂、般度五子以及耶若塞那。
1.225.10
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः ।
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥ १.२२५.१० ॥
他到了那里,这位通晓法义、精通一切典籍的人,依礼来到德鲁帕达面前,大王啊,德鲁帕达已与般度五子相聚。
1.225.11
स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥ १.२२५.११ ॥
德鲁帕达也依法接待了维杜罗,随后两人依礼互相问候平安。
1.225.12
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ।
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥ १.२२५.१२ ॥
他在那里见到了般度五子和婆苏提婆,婆罗多的后裔啊。他怀着深情拥抱了他们,然后问候了他们的平安。
1.225.13
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम् ।
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः ॥ १.२२५.१३ ॥
那位智慧无量的人也依次受到他们的敬重,遵从持国之言,一再怀着深情。
1.225.14
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् ।
प्रददौ चापि रत्नानि विविधानि वसूनि च ॥ १.२२५.१४ ॥
大王啊,他随后询问了般度之子的安好,又赠予他们各种珠宝与财物。
1.225.15
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते ।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥ १.२२५.१५ ॥
人民之主啊,正如俱卢族曾经赠予般度五子、贡蒂、德劳帕蒂以及德鲁帕达之子的那样。
1.225.16
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः ।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च ॥ १.२२५.१६ ॥
那位智慧无量、谦逊有礼的人,在般度之子和克萨瓦面前,谦恭地对德鲁帕达说道。
1.225.17
राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम ।
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥ १.२२५.१७ ॥
大王,请与臣僚和诸子一同听我的话。持国与诸子、臣僚和亲族一同问候您。
1.225.18
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः ।
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप ॥ १.२२५.१८ ॥
大王啊,他满心欢喜,一再问候您的安好;владыка людей,由于这层姻亲关系,他对您怀有坚定的情谊。
1.225.19
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः ।
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥ १.२२५.१९ ॥
同样,商多之子毘湿摩与俱卢族人一起,从各方面询问你的安好,哦,大智者。
1.225.20
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव ।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥ १.२२५.२० ॥
婆罗堕阇之子德罗纳大智,你的亲密朋友,拥抱你之后询问你的安好。
1.225.21
धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान् ।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः ॥ १.२२५.२१ ॥
般遮罗之子啊,与你结为姻亲的持国,自认为已心愿达成;所有俱卢族人也是如此。
1.225.22
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता ।
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह ॥ १.२२५.२२ ॥
在他们看来,得到王国并不如与你结成姻亲那样令人欢喜,哦,耶祗娑仙那。
1.225.23
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् ।
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम् ॥ १.२२५.२३ ॥
既已知此事,请您派遣般度五子前往,因为俱卢族人极其渴望见到般度之子。
1.225.24
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः ।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा ॥ १.२२५.२४ ॥
这些人中雄牛们久已远离,而普利塔也会渴望见到这座城市。
1.225.25
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।
द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः ॥ १.२२५.२५ ॥
黑天女(德罗波蒂)也是,所有俱卢最优秀的女子都渴望见到她而等待着;城市和我们的领地也在等待。
1.225.26
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम् ।
गमनं सहदाराणामेतदत्र मतं मम ॥ १.२२५.२६ ॥
愿您不再迟延,命令般度之子与妻子们同来;这是我的意见。
1.225.27
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु ।
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्।
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ १.२२५.२७ ॥
大王啊,待您放走伟大的般度五子之后,我将派遣持国王的迅捷使者;贡蒂之子与贡蒂将与黑天女一同到来。