摩诃婆罗多 · 章 1.227
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.227.1
दुर्योधनस्य महिषी काशिराजसुता तदा ।
धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा ॥ १.२२७.१ ॥
那时,难敌的正妃、迦尸王之女,与持国诸子的媳妇们在一起。
1.227.2
पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम् ।
पूजयामास पूजार्हां शचीदेवीमिवागताम् ॥ १.२२७.२ ॥
她迎接了贤德的般遮罗公主,仿佛另一位吉祥天女;她礼敬这位应受供养的人,如同前来的舍81天后(舍till)。
1.227.3
ववन्दे तत्र गान्धारीं कृष्णया सह माधवी ।
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे ॥ १.२२७.३ ॥
在那里,摩陀维与黑天女一同礼拜甘陀利;送上祝福后,她拥抱了般遮罗公主。
1.227.4
परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम् ।
पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत ॥ १.२२७.४ ॥
甘陀利拥抱了莲花眼的黑天女后想道:“对我的儿子们来说,这位般遮罗公主正是死亡。”
1.227.5
संचिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा ।
कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम् ॥ १.२२७.५ ॥
苏跋罗之女思量之后,巧妙地对毗杜罗说:“善御者啊,请将王女贡蒂与她的媳妇及随从……”
1.227.6
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते ।
करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ ॥ १.२२७.६ ॥
若你认为可行,就请尽快将她送往般度的居所,择吉日、吉星宿与吉时。
1.227.7
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः ।
तथेत्येव तदा क्षत्ता कारयामास तत्तथा ॥ १.२२७.७ ॥
“愿贡蒂与她的儿子们在自己的家中快乐地生活,就这样吧。”维杜拉随即说“就这样吧”,便吩咐照此安排妥当。
1.227.8
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा ।
नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान् ॥ १.२२७.८ ॥
那时亲族极其尊重般度五子;城中居民与各行会首领也尊敬般度五子。
1.227.9
भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा ।
शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम् ॥ १.२२७.९ ॥
那时,毗湿摩、德罗纳、克利巴、迦尔纳以及与其子同来的跋利迦,奉持国之命,举行了迎宾的礼仪。
1.227.10
एवं विहरतां तेषां पाण्डवानां महात्मनाम् ।
नेता सर्वस्य कार्यस्य विदुरो राजशासनात् ॥ १.२२७.१० ॥
般度五子这些大德如此生活之时,主管一切事务的维杜拉奉国王之命安排诸事。
1.227.11
विश्रान्तास्ते महात्मानः कंचित्कालं सकेशवाः ।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ १.२२७.११ ॥
这些大德与克沙婆一同休息了一段时间;随后,国王持国与善典之子召见了他们。
1.227.12
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम ।
पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत् ॥ १.२२७.१२ ॥
贡蒂之子啊!你与兄弟们一同听我这句话:般度增广了王国,般度也护佑了世界。
1.227.13
शासनान्मम कौन्तेय मम भ्राता महाबलः ।
कृतवान्दुष्करं कर्म नित्यमेव विशांपते ॥ १.२२७.१३ ॥
孔提之子啊,依我之命,我那大力的兄弟一直在完成艰难的事业,人主啊。
1.227.14
तस्मात्त्वमपि कौन्तेय शासनं कुरु मा चिरम् ।
मम पुत्रा दुरात्मानः सर्वेऽहंकारसंयुताः ॥ १.२२७.१४ ॥
因此,孔提之子啊,你也应当不再拖延地遵从我的命令。我的儿子们都心怀恶念,充满骄傲。
1.227.15
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर ।
स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः ॥ १.२२७.१५ ॥
युधिष्ठिर啊,我那些心怀恶念、总是专注于自身事务而又骄傲自大的儿子们,永远不会遵从我的命令。
1.227.16
पुनर्वै विग्रहो मा भूत्खाण्डवप्रस्थमाविश ।
न हि वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ॥ १.२२७.१६ ॥
不要再有争斗了,你们进入肯达瓦普拉斯塔吧。你们住在那里时,无人能够欺压你们。
1.227.17
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ।
अर्धराज्यं तु संप्राप्य खाण्डवप्रस्थणाविश ॥ १.२२७.१७ ॥
像众神受执金刚者守护那样,受普利塔之子阿周那守护,你获得半壁王国后,进入肯达瓦普拉斯塔吧。
1.227.18
केशवो यदि मन्यते तत्कर्तव्यमसंशयम् ॥ १.२२७.१८ ॥
若克舍婆如此认为,那么无疑应当照此去做。
1.227.19
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च ।
वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन् ॥ १.२२७.१९ ॥
众人接受了这番话,向国王行礼,并与婆苏提婆商议之后,般度诸子便坐下了。
1.227.20
अभिषेकस्य संभारान्क्षत्तरानय मा चिरम् ।
अभिषिक्तं करिष्यामि ह्यद्य वै कुरुनन्दनम् ॥ १.२२७.२० ॥
刻差陀啊,快把灌顶的器物拿来。今天我就要为库卢之喜灌顶。
1.227.21
ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वतः ।
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः ॥ १.२२७.२१ ॥
请召集婆罗门、商人中的翘楚、行会首领、四方的臣民,尤其是亲族。
1.227.22
पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम् ।
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः ॥ १.२२७.२२ ॥
孩子啊,请宣读吉祥之语;布施千头牛;让村长们向婆罗门慷慨地奉上厚重的酬谢。
1.227.23
अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय ।
मुक्तावलीश्च हारं च निष्काणि कटकानि च ॥ १.२२७.२३ ॥
刻差陀啊,把臂钏用的王冠和手饰拿来;也拿来珍珠串、项链、尼什迦金币与手镯。
1.227.24
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम् ।
अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः ॥ १.२२७.२४ ॥
也拿来腰带、圣线与腹带;再加上由婆罗门骑乘的一千零八头大象。
1.227.25
जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः ।
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम् ॥ १.२२७.२५ ॥
愿祭司迅速取来恒河之水,以灌顶之水沾湿,饰以一切珍饰。
1.227.26
औपवाह्योपरिगतं दिव्यचारमरवीजितम् ।
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम् ॥ १.२२७.२६ ॥
坐于王车之上,由天界侍者扇动,饰以镶嵌金与宝石的白伞盖。
1.227.27
जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा ।
दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम् ॥ १.२२७.२७ ॥
婆罗门高呼“胜利!”,诸王亦加赞颂;我见到了昆蒂的长子、阿遮弥茶之后裔坚战。
1.227.28
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः ।
पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च ॥ १.२२७.२८ ॥
愿他人心中欢喜而称赞:为报答对般度所施之恩,授予王国,也授予我。
1.227.29
प्रतिक्रिया कृतमिदं भविष्यति न संशयः ।
भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन् ॥ १.२२७.२९ ॥
此举必是报答之行,毫无疑问。毗湿摩、德罗纳、克里巴与刹多说:“善哉,善哉!”
1.227.30
युक्तमेतन्महाभाग कौरवाणां यशस्करम् ।
शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि ॥ १.२२७.३० ॥
大福之人啊,此事适当,能为俱卢族增添荣誉。王中之王啊,你所说之事,应当今日就迅速去做。
1.227.31
इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा ।
तथोक्तं धृतराष्ट्रेण कारयामास केशवः ॥ १.२२७.३१ ॥
被如此告知后,韦尔什尼之后即刻催促此事;依照持国所言,克舍婆使之得以施行。
1.227.32
तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा ।
आगत्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः ॥ १.२२७.३२ ॥
大王啊,就在那时,黑岛仙人(克里希纳·二叶)来到,被所有俱卢人及其友人群所敬礼。
1.227.33
मूर्धाभिषिक्तैः सहितो ब्राह्मणैर्वेदपारगैः ।
कारयामास विधिवत्केशवानुमते तदा ॥ १.२२७.३३ ॥
与受过灌顶的诸王及精通吠陀的婆罗门一同,他当时依照仪轨,在克舍婆的允许下使之得以举行。
1.227.34
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ ।
बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः ॥ १.२२७.३४ ॥
克里帕、德罗纳、毗湿摩、达乌米亚、毗耶娑、克舍婆、跋利迦、苏摩达多——以精通四吠陀的祭司为首。
1.227.35
अभिषेकं तदा चक्रुर्भद्रपीठे सुसंस्कृतम् ॥ १.२२७.३५ ॥
于是他们在吉祥的宝座上,举行了精心准备的灌顶礼。
1.227.36
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नृपान्भवान् ।
राजसूयादिभिर्यज्ञैः क्रतुभिर्वरदक्षिणैः ॥ १.२२७.३६ ॥
征服整个大地,使诸王臣服于你,然后应当通过王祭(拉杰苏耶)及其他以丰厚布施举行的祭祀与仪式而成为君主。
1.227.37
स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैः सह ।
एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन् ॥ १.२२७.३७ ॥
沐浴阿婆陀娑之后,与亲族同乐。如此说罢,众人以祝福礼敬他。
1.227.38
मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः ।
जयेति संस्तुतो राजा प्रददौ धनमक्षयम् ॥ १.२२७.३८ ॥
头顶受灌顶,佩戴一切饰物的俱卢王,在“胜利!”的赞颂声中,布施了无尽的财富。
1.227.39
सर्वमूर्धाभिषिक्तैश्च पूजितः कुरनन्दनः ।
औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः ॥ १.२२७.३९ ॥
受到所有灌顶之王的礼敬,俱卢之子乘上王家大象,在白伞之下光彩焕发。
1.227.40
रराज राजाभिमतो महेन्द्र इव दैवतैः ।
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम् ॥ १.२२७.४० ॥
受诸王爱戴,他在诸神之中光彩如大因陀罗。随后绕行名为那伽萨婆耶的城市,
1.227.41
प्रविवेश तदा राजा नागरैः पूजितो गृहम् ।
मूर्धाभिषिक्तं कौन्तेयमभ्यगच्छन्त कौरवाः ॥ १.२२७.४१ ॥
那时,受市民礼敬的国王进入宫殿。俱卢族人走近那位灌顶的贡提之子。
1.227.42
गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः ।
ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं ॥ १.२२७.४२ ॥
甘陀利之子们与亲族一同悲泣。得知诸子的悲痛后,持国说了这些话。
1.227.43
समक्षं वासुदेवस्य कुरूणां च समक्षतः ।
अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः ॥ १.२२७.४३ ॥
在婆苏提婆与俱卢族人面前,你获得了灌顶,这对心性未经修炼的人而言是难以获得的。
1.227.44
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव ।
आयुः पुरूरवा राजन्नहुषेण ययातिना ॥ १.२२७.४४ ॥
国王啊,俱卢之子,今日便去吧,你已完成使命。国王啊,在阿由的世系中,你与补鲁罗婆娑、那呼沙、耶耶提同列。
1.227.45
तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम ।
राजधानी तु सर्वेषां पौरवाणां महाभुज ॥ १.२२७.४५ ॥
王中之王啊,他们都住在那里的犍陀婆;全体波卢族的都城也在那里,大臂者啊。
1.227.46
विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै ।
तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय ॥ १.२२७.४६ ॥
因菩陀之子的贪欲,它被众仙人毁灭了。因此你应当使犍陀婆普罗斯塔这座城与王国兴旺起来。
1.227.47
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम् ॥ १.२२७.४७ ॥
婆罗门、刹帝利、吠舍、首陀罗,具有善相者,以及其他众生,都将因对你的虔诚而前往那座吉祥之城。
1.227.48
पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम् ।
तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ ॥ १.२२७.४८ ॥
那座城与王国繁荣富足,充满财富与五谷;因此,贡蒂之子啊,无垢者,你当与兄弟们一同前往。
1.227.49
प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च ।
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः ॥ १.२२७.४९ ॥
众人接受了他的话,向他行礼,随后与战车、象、马和步兵一同出发。
1.227.50
प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः ।
तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे ॥ १.२२७.५० ॥
于是他们乘着发出轰响的良车出发;众市民见此,也怀着虔敬一同出发。
1.227.51
गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात् ।
पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान् ॥ १.२२७.५१ ॥
他从那伽城的住宅中看到他们与般度之子同行,便对市民宣布:不应随般度之子同往。
1.227.52
घोषयामास नगरे धार्तराष्ट्रः ससौबलः ।
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ॥ १.२२७.५२ ॥
在城中,持国之子与沙恭尼一同下令宣告;随后般度之子在黑天引领下前往那里。
1.227.53
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिव च्युतम् ।
वासुदेवो जगन्नाथश्चिन्तयामास वासवम् ॥ १.२२७.५३ ॥
他们装饰那座城市,仿佛它是从天上坠落的;世界之主瓦苏提婆便思念婆娑(因陀罗)。
1.227.54
महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत् ।
विश्वकर्मन्महाप्राज्ञ अद्यप्रभृति तत्पुरम् ॥ १.२२७.५४ ॥
大王,摩亨德罗(因陀罗)思考后命令毗首羯摩:“大智者毗首羯摩啊,从今日起,那座城市归你所有。”
1.227.55
इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति ।
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम् ॥ १.२२७.५५ ॥
这座名为因陀罗普拉斯塔的神圣城市将建于大地之上。奉因陀罗之命,毗首羯摩前往克舍婆。
1.227.56
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत ।
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान् ॥ १.२२७.५६ ॥
他向值得礼拜的人顶礼,问道:“我该做什么?”婆薮提婆听后,对毗首羯摩说道。
1.227.57
कुरुष्व कुरुराजस्य महेन्द्रपुरसन्निभम् ।
इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम् ॥ १.२२७.५७ ॥
为库卢王建造一座如同摩诃因陀罗之城的大城,由因陀罗命名为因陀罗普拉斯塔。
1.227.58
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।
स्वस्तिवाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति ॥ १.२२७.५८ ॥
此后,在清净吉祥之地,大车士们举行了安宁仪式,依法诵读吉祥祝愿,说道:“愿它成为因陀罗普拉斯塔。”
1.227.59
तत्पुरं मापयामासुर्द्वैपायनपुरोगमाः ।
ततः स विश्वकर्मा तु चकार पुरमुत्तमम् ॥ १.२२७.५९ ॥
他们在仙人毗耶娑的率领下测量了那座城。随后毗首羯摩建造了一座极为优美的城市。
1.227.60
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् ।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥ १.२२७.६० ॥
以如大海般的护城濠装饰,配有高耸入天的城墙。
1.227.61
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च ।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ १.२२७.६१ ॥
以白云的光辉和如冷光月亮般的明亮,那座最好的城市闪耀如同有诸龙的婆伽婆提。
1.227.62
द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥ १.२२७.६२ ॥
城中以如双翼金翅鸟般的城门与楼阁为饰,并以如云堆、如曼陀罗山般的城楼守护。
1.227.63
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः ।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥ १.२२७.६३ ॥
那座城市被各种穿孔、封闭良好、配备武器的长矛所环绕,仿佛被双舌的毒蛇所包围。
1.227.64
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ।
थीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् ॥ १.२२७.६४ ॥
城中设有操练的平台,由战士守卫,闪耀着,以锋利的钩子、百杀器和机械网为饰。
1.227.65
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ।
सुविभक्तमहारथ्यं देवताबाधवर्जितम् ॥ १.२२७.६५ ॥
那座最好的城市以巨大的铁轮闪耀;其大街划分得井然有序,且不受诸神之害。
1.227.66
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ।
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत ॥ १.२२७.६६ ॥
因众多洁白而卓越的宅第而闪耀,那因陀罗普拉斯塔如同天界般光辉灿烂。
1.227.67
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम् ।
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम् ॥ १.२२७.६७ ॥
如天空中被闪电环绕的云群,那里,在那处宜人而吉祥的地方,矗立着俱卢后裔的居所。
1.227.68
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् ।
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ॥ १.२२७.६८ ॥
那座充满财富的城市光辉灿烂,宛如财神俱毗罗的居所。国王啊,那里来了通晓一切吠陀的最优秀的再生者。
1.227.69
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ।
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः ॥ १.२२७.६९ ॥
通晓各种语言的人也选择在那里居住,寻求财富的商人也从四面八方来到那里。
1.227.70
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा ।
उद्यानानि च रम्याणि नगरस्य समन्ततः ॥ १.२२७.७० ॥
那时,精通各种技艺的人也来到那里居住,城市四周到处是可爱的园林。
1.227.71
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ।
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ॥ १.२२७.७१ ॥
那些园林里种满了芒果树、酸梅树、尼波树、无忧树、金色含笑,以及普纳加树、龙花树、洛古树和菠萝蜜树。
1.227.72
शालतालतमालैश्च बकुलैश्च सकेतकैः ।
मनोहरैः सुपुष्पैश्च फलभारावनामितैः ॥ १.२२७.७२ ॥
那些园林里有娑罗树、棕榈树、多摩罗树、八宝树和露兜树,开满了迷人美丽的花,树枝因果实累累而低垂。
1.227.73
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः ।
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः ॥ १.२२७.७३ ॥
森林中长满了普罗奇那、阿摩勒伽、罗德罗、安科拉、盛开的阎浮树、帕塔拉、库布加和阿提穆克塔卡树。
1.227.74
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ।
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः ॥ १.२२७.७४ ॥
有娑罗双树、波利耶多树及其他多种树木,常年开花结果,充满了各种鸟群。
1.227.75
मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः ।
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः ॥ १.२२७.७५ ॥
回荡着醉舞孔雀和杜鹃的鸣叫,常常欢乐,有明镜般洁净的房屋和各式藤萝凉亭。
1.227.76
मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः ।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥ १.२२७.७६ ॥
有迷人的彩绘房屋,……阿遮迦提之坡,以及盛满上好清水的各式阶井。
1.227.77
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः ।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥ १.२२७.७७ ॥
有极为优美的湖泊,散发着莲花和青莲的芬芳,满是天鹅与迦兰达婆鸭,点缀着赤鸭。
1.227.78
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः ।
तडागानि च रम्याणि बृहन्ति सुबहूनि च ॥ १.२२७.७८ ॥
那里有被森林环绕的各式优美池塘,还有许多宏大而美丽的水池。
1.227.79
नदी च नन्दिनी नाम सा पुरीमुपगूहति ।
चातुर्वर्ण्यसमाकीर्णमन्यैः शिल्पिभिरावृतम् ॥ १.२२७.७९ ॥
名为难提尼的河流环绕着那座城市。城中住满了四种姓的人,周围又有其他工匠。
1.227.80
सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा ।
उपभोगसमृद्धैश्च सर्वद्रव्यसमावृतम् ॥ १.२२७.८० ॥
那座城市总有善人前来;由毗首羯摩建造,享乐丰饶,充满各种财物。
1.227.81
नित्यमार्यजनोपेतं नरनारीगणैर्युतम् ।
वाजिवारणसंपूर्णं गोभिरुष्ट्रैः खरैरजैः ॥ १.२२७.८१ ॥
那座城市常有高贵之人,男女成群,充满马与象,又有牛、骆驼、驴和山羊。
1.227.82
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत ।
पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा ॥ १.२२७.८२ ॥
因陀罗补罗如天界般光辉;那座具备一切美德的城市是毗首羯摩所建。
1.227.83
पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः ।
कृतमङ्गलसत्कारैर्ब्राह्मणैर्वेदपारगैः ॥ १.२२७.८३ ॥
贡蒂之子、般度族(波罗婆)之主坚战,受到精通吠陀的婆罗门以吉祥仪式隆重款待。
1.227.84
द्वैपायनं पुरस्कृत्य धौम्यस्याभिमते स्थितः ।
भ्रातृभिः सहितो राजा राजमार्गमतीत्य च ॥ १.२२७.८४ ॥
以双河生(毗耶娑)居前,国王与诸弟站在达乌米亚认可的地方,穿过王道而来。
1.227.85
औपवाह्यगतो राजा केशवेन सहाभिभूः ।
तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम् ॥ १.२२७.८५ ॥
国王乘坐王车,与无敌的克舍婆同行,向那座门楼华美、有三十二道门的城市前进。
1.227.86
वर्धमानपुरद्वारात्प्रविवेश महाद्युतिः ।
शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम् ॥ १.२२७.८६ ॥
光辉灿烂的国王从跋陀摩那补罗的城门进入城中。螺号与鼓声阵阵,清晰可闻。
1.227.87
जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः ।
संस्तूयमानो मुनिभिः सूतमागधबन्दिभिः ॥ १.२२७.८७ ॥
成千上万的婆罗门之声高呼"胜利"。圣仙、苏多、摩揭陀歌者与游吟者都在赞颂国王。
1.227.88
औपवाह्यगतो राजा राजमार्गमतीत्य च ।
कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम् ॥ १.२२७.८८ ॥
国王乘坐王车经过王道,接受吉祥的礼遇,走进了最好的宫殿。
1.227.89
प्रविश्य भवनं राजा नागरैरभिसंवृतः ।
प्रहृष्टमुदितैरासीत्सत्कारैरभिपूजितः ॥ १.२२७.८९ ॥
国王进入宫殿后,被市民环绕,并受到欢欣喜悦的民众的礼遇与尊敬。
1.227.90
पूजयामास विप्रेन्द्रान्केशेन महात्मना ।
ततस्तु राष्ट्रं नगरं नरनारीगणायुतम् ॥ १.२२७.९० ॥
随后,他与伟大的克舍婆一同礼敬最优秀的婆罗门。接着,充满男女群众的王国与城市(都向他致敬)。
1.227.91
गोधनैश्च समाकीर्णं सस्यैर्वृद्धिं तदागमत् ॥ १.२२७.९१ ॥
那国土因牛群众多、庄稼丰收而日益兴盛。
1.227.92
तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत् ।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥ १.२२७.९२ ॥
他们进入那个充满善人的大国时,大王啊,般度之子的喜悦日益增长。
1.227.93
सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च ।
तथा भीष्मेण राज्ञा च धर्मप्रणयिना सदा ॥ १.२२७.९३ ॥
与沙恭尼、迦尔纳、持国之子、慈悲、以及毗湿摩和热爱法的国王始终和睦。
1.227.94
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ।
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम् ॥ १.२२७.९४ ॥
住在空也伐普罗斯塔的般度之子,被那五位与因陀罗相等的大弓箭手所环绕。
1.227.95
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ।
ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च ॥ १.२२७.९५ ॥
那座卓越的城市光辉灿烂,犹如充满蛇众的菩伽婆提。随后,他礼敬毗首羯摩并送他离去。
1.227.96
द्वैपायनं च संपूज्य विसृज्य च नराधिपः ।
वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम् ॥ १.२२७.९६ ॥
国王充分礼敬了二岛仙(毗耶娑)并送他离去后,便对想要离去、已做好准备的韦尔希尼耶(克里希那)说道。
1.227.97
तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ ।
प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम् ॥ १.२२७.९७ ॥
嚴鍚之人,无罪者啊,由于你的恩典,我获得了这王国。英雄啊,正是由于你的恩典,这难以接近的国土已变得空虚。
1.227.98
तवैव तु प्रसादेन राज्यस्थाश्च भवामहे ।
गतिस्त्वमापत्कालेऽपि पाण्डवानां च माधव ॥ १.२२७.९८ ॥
唯有依靠你的恩典,我们才得以稳居王国。摩豆摩陀啊,即使在危难之时,你也是般度五子的依靠。
1.227.99
ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान्हि नः ।
यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ ॥ १.२२७.९९ ॥
既知应当做之事,请你亲自为我们安排;般度子孙所愿之事,你应当允准,无罪者啊。
1.227.100
त्वत्प्रभावान्महाराज्यं संप्राप्तं हि स्वधर्मतः ।
पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो ॥ १.२२७.१०० ॥
凭借你的威力,这伟大的王国依自身之法得以获得。主啊,你祖先的王国怎么会不属于你呢?
1.227.101
धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान् ।
यथेष्टं पालय जगच्छश्वद्धर्मधुरं वह ॥ १.२२७.१०१ ॥
行为恶劣的持国之子能对般度子孙做什么呢?请你随意护持世界,并永远承担法的重担。
1.227.102
पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव ।
अद्यैव नारदः श्रीमानागमिष्यति सत्वरः ॥ १.२२७.१०२ ॥
般度之孙啊,请你满怀喜悦,一次又一次地供养婆罗门。今日尊贵的那罗陀将很快到来。
1.227.103
आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै ।
एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः ॥ १.२२७.१०३ ॥
要记住他的话,遵从他的命令。说完这些,遮那陀那恭敬地向贡蒂行礼。
1.227.104
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते ।
जातुषं गृहमासाद्य मया प्राप्तं यदानघ ॥ १.२२७.१०४ ॥
他以温柔的声音说:"我将前往,向你致敬。无罪者啊,到达蜡房后,我所得到的……"
1.227.105
आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव ।
त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम् ॥ १.२२७.१०५ ॥
哦,阿希亚人中最杰出的,高贵者已完全认出了你。哦,哥文达,有你作我们的保护者,我们渡过了极大的苦难。
1.227.106
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः ।
सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम ॥ १.२२७.१०६ ॥
你确实是无依者,尤其是穷人的保护者。见到你,我的一切痛苦都平息了。
1.227.107
स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः ॥ १.२२७.१०७ ॥
哦,大智者,请记念他们;正是因为他,般度之子才得以存活。
1.227.108
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम् ।
गमनाय मतिं चक्रे वासुदेवः सहानुगः ॥ १.२२७.१०८ ॥
说了一句"我会照办",向姑母告辞并恭敬行礼后,婆苏提婆决定与随从一同启程。
1.227.109
तान्निवेश्य ततो वीरः सह रामेण कौरवान् ।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ १.२२७.१०९ ॥
于是英雄在与罗摩一同安置了俱卢族之后,大王,在般度五子的允许下,便前往德瓦拉瓦蒂。