Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.228

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.228.1

एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ १.२२८.१ ॥

このようにインドラプラスタで王国を得た後、苦行に富む者よ、人中の虎たるパーンダヴァたちはその後何をしたのか。

1.228.2

सर्व एव महात्मानः सर्वे मम पितामहाः ।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥ १.२२८.२ ॥

私のあの偉大な祖先たちは皆、そして正妻ドラウパディーは彼らにどう接したのか。

1.228.3

कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः ।
वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥ १.२२८.३ ॥

人中の雄牛であり大いなる幸運に恵まれた彼らは、ただ一人のクリシュナーと共に暮らしながら、互いに争うことはなかったのか。

1.228.4

श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम् ।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह ॥ १.२२८.४ ॥

クリシュナーと共にあった彼らが互いにどう振る舞ったのか、あったとおりに詳しく聞きたい。

1.228.5

धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत् ।
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः ॥ १.२२८.५ ॥

ドリタラーシュトラの許しを得て、人中の虎たるパーンダヴァたちはインドラプラスタに入り、クリシュナーと共に喜び楽しんだ。

1.228.6

प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः ।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥ १.२२८.६ ॥

王国を得た、偉大な輝きと誓いに忠実なユディシュティラは、兄弟たちと共に法に則って大地を治めた。

1.228.7

जितारयो महात्मानः सत्यधर्मपरायणाः ।
एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः ॥ १.२२८.७ ॥

敵を征服し、真実と法に専念する偉大な心のパーンドゥの子らは、こうしてこの都に至り、そこに住んだ。

1.228.8

कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः ।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥ १.२२८.८ ॥

都の諸事を処理しながら、バラタ族の英雄たちは王にふさわしい高価な座席を設けた。

1.228.9

तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः ॥ १.२२८.९ ॥

偉大な心のパーンダヴァたちがそこに座していると、法王に会いたいと思ったナーラダが来た。

1.228.10

पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च ।
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः ॥ १.२२८.१० ॥

星宿が訪れ、ガルダが行き、日月の光に照らされ、大仙たちが仕える道を通って。

1.228.11

नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम् ।
भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम् ॥ १.२२८.११ ॥

天空の神聖な領域を通って — 苦行者でない者には得がたい — 生き物に崇められ、国々の宮殿で飾られた大地を眺めながら。

1.228.12

अवेक्षमाणो द्युतिमानाजगाम महातपाः ।
सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः ॥ १.२२८.१२ ॥

下を見おろしながら、輝かしく大いなる苦行者であるそのバラモンが到着した。彼は全ヴェーダの終極に達し、全ヴェーダの支分に通じていた。

1.228.13

परेण तपसा युक्तो ब्राह्मेण तपसा वृतः ।
नये नीतौ च निस्तो विश्रुतश्च महामुनिः ॥ १.२२८.१३ ॥

至高の苦行を備え、婆羅門の苦行に包まれ、策略と統治に堅固で、名高い大聖者。

1.228.14

परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान् ।
भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्दिवजः ॥ १.२२८.१४ ॥

至高の上の至高に達し、諸法を完全に得た者。心清らかで、塵を離れ、寂静、柔和、直き、天より生まれた者。

1.228.15

धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः ।
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च ॥ १.२२८.१५ ॥

法によって神々・阿修羅・人間すべてに認められ、業の尽きた者、罪人、さまざまな生き物の中でも知られた者。

1.228.16

सर्वथा कृतमर्यादो वेदेषु विविधेषु च ।
शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित् ॥ १.२२८.१६ ॥

あらゆる点で祭式の規範を守り、諸ヴェーダに通じ、祭祀で幾百度もソーマを飲み、功徳を積み、火壇を築いた者。

1.228.17

ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः ।
ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः ॥ १.२२८.१७ ॥

リグ・サーマ・ヤジュルの三ヴェーダに通じ、正義の眼で見、法に精通し、直く、堅固な体を持ち、年長で、遠い道を多く歩み、罪なき者。

1.228.18

श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा ।
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे ॥ १.२२८.१८ ॥

滑らかな髻を備え、至高の輝きを具え、白く細やかで天上的な、美しく織られた衣をまとう。

1.228.19

महेन्द्रदत्ते महती बिभ्रत्परमवाससी ।
जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे ॥ १.२२८.१९ ॥

インドラから授かった、壮大で最上の二枚の衣をまとい、ジャンブーナダ金でできた神々しく新しいもの、蛙の口の模様をもつ。

1.228.20

अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे ।
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम् ॥ १.२२८.२० ॥

火と太陽に等しい神々しく吉祥な耳飾りをつけ、銀の傘を高く掲げ、驚くべき至高の輝きを放つ。

1.228.21

प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम् ।
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः ॥ १.२२८.२१ ॥

他者には得難い至高のブラフマンの輝きを得て、王宮において、まるでブリハスパティ自身がそこで沐浴したかのように。

1.228.22

संहितायां च सर्वेषां स्थितस्योपस्थितस्य च ।
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः ॥ १.२२८.२२ ॥

サンヒターの、すべての者の、定住者と参列者の、二足の者(人間)の義務と、順序の義務に通じた者。

1.228.23

गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम् ।
आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा ॥ १.२२८.२३ ॥

ガーター、サーマン、アヌサーマンに通じ、サーマンの中でも最も心地よいものに熟達し、自分とすべての解脱希求者のために有能で、常になすべきことを知る者。

1.228.24

यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः ।
विदितार्थः समश्चैव च्छेत्ता निगमसंशयान् ॥ १.२२८.२४ ॥

ヤジュルダルマによって様々に尊ばれ、賢者の中の最上、意味を知り、平等心を持ち、ヴェーダの経典の疑いを断つ者。

1.228.25

अर्थनिर्वचने नित्यं संशयच्छिदसंशयः ।
प्रकृत्या धर्मकुशलो दाता धर्मविशारदः ॥ १.२२८.२५ ॥

意味を説明するとき、彼は常に疑いを断ち切った。生まれつき疑いなく、ダルマに巧みで、施しをなし、ダルマに通じていた。

1.228.26

लोपेनागमधर्मेण संक्रमेण च वृत्तिषु ।
एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान् ॥ १.२२८.२६ ॥

省略、増音の規則、転換によって動詞形において、単語、多義語、単義語を別々に区別する。

1.228.27

पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता ।
प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च ॥ १.२२८.२७ ॥

別々の意味を持つ表現と用法を細かく吟味し、人々の間で、またあらゆる事柄において権威であった。

1.228.28

सर्ववर्णविकारेषु नित्यं कुशलपूजितः ।
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च ॥ १.२२८.२८ ॥

あらゆる音の変化において、また有声・無声の形、さまざまな動詞形において、常に熟練者に敬われた。

1.228.29

समस्थानेषु सर्वेषु समाम्नायेषु धातुषु ।
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन् ॥ १.२२८.२९ ॥

あらゆる等しい位置、完全な伝承、動詞語根において、挙げられた語を十分に説明し、すべての動詞形を指し示す。

1.228.30

अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन् ।
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् ॥ १.२२८.३० ॥

意図において真理に通じ、語とその部分を憶持し、時代の法によって定められたことと真の意味を考察する。

1.228.31

चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् ।
विभाषितं च समयं भाषितं हृदयंगमम् ॥ १.२२८.३१ ॥

世間に隠された、なそうとする企てを知る者、また時宜に応じて異なって語られた、心にかなう言葉を知る者。

1.228.32

आत्मने च परस्मै च स्वरसंस्कारयोगवित् ।
एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट् ॥ १.२२८.३२ ॥

自分と他者のために、声の調子と整えの結びつきを知り、これらの調子を知り理解する者が、自在なる説き手である。

1.228.33

विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा ।
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान् ॥ १.२२८.३३ ॥

語られた文の一と多を知り、最高の意味と様々な逸脱を理解する者。

1.228.34

अभेदतश्च बहुशो बहुशश्चापि भेदतः ।
वक्ता विविधवाक्यानां नानादेशसमीक्षिता ॥ १.२२८.३४ ॥

統一のうちに、また多くの仕方で、そして区別の中で、様々な文を語る者。多くの国を観察した者。

1.228.35

पञ्चागमांश्च विविधानादेशांश्च समीक्षिता ।
नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः ॥ १.२२८.३५ ॥

五つのアーガマと様々な教えを検討し、多くの意味に長け、そこでの転義接辞にも完全に通じた者。

1.228.36

परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः ।
प्रत्ययं च समाख्याता नियतं प्रतिधातुकम् ॥ १.२२८.३६ ॥

言葉を音、調子、意味によって飾り整える者、語根に属する定まった接尾辞を説き明かした者。

1.228.37

पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च ।
तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च ॥ १.२२८.३७ ॥

五つの文字群と母音の名で呼ばれるものども。来られた聖仙を見て、進み出て挨拶した。

1.228.38

आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः ।
कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः ॥ १.२२८.३८ ॥

ユディシュティラは彼に美しい座を与え、黒鹿の皮を敷いたその上に、偉大な聖仙は座した。

1.228.39

देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि ।
प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत्।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा ॥ १.२२८.३९ ॥

神仙が座すると、ユディシュティラ自ら規定どおりアルギヤを捧げ、賢明なユディシュティラは王国のことも彼に報告した。その敬意を受けて、聖仙はそのとき心喜んだ。

1.228.40

आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति ।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः ॥ १.२२८.४० ॥

祝福をもって彼を讃え、「お座りください」と言った。許しを得て、王ユディシュティラは座った。

1.228.41

प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता ॥ १.२२८.४१ ॥

到着した尊者を黒女に知らせるよう使いを送った。これを聞いて、ドラウパディーもまた身を清め、心を集中して支度した。

1.228.42

जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ॥ १.२२८.४२ ॥

ナーラダが般度の子らと座している所へ彼女は行った。ダルマを行ずる彼女は、神仙の両足に礼拝した。

1.228.43

कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा ।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ॥ १.२२८.४३ ॥

合掌し、よく衣をまとったドルパダの娘はそこに立っていた。そして彼女にも、法の心をもち真実を語る聖仙の中の最も優れた者(ナーラダ)が語った。

1.228.44

आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥ १.२२८.४४ ॥

王女に様々な祝福を述べた後、ナーラダは「行くがよい」と言った。尊き方は、その非難されるところのない女性にそのように語った。

1.228.45

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् ।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥ १.२२८.४५ ॥

クリシュナー(ドラウパディー)が去った後、尊き聖仙はユディシュティラを先頭とするパーンダヴァたち全員に、人目のないところで語った。

1.228.46

पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां ॥ १.२२८.४६ ॥

パーンチャーリーは、あなた方全員の唯一の正妻であり、栄光ある女性である。あなた方の間でこの件について分裂が生じないよう、規則を定めるべきである。

1.228.47

सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ ।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥ १.२२८.४७ ॥

昔、スンダとウパスンダという二人の兄弟が共に暮らしていた。二人とも他者には殺されえず、三界に名高かった。

1.228.48

एकराज्यावेकगृहावेकशय्यासनाशनौ ।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥ १.२२८.४८ ॥

一つの王国、一つの家、一つの寝床、一つの座と食を分かち合っていた二人は、ティロッタマーのために互いに打ち倒し合った。

1.228.49

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम् ।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥ १.२२८.४९ ॥

ゆえに、互いの愛情を生む友愛を守れ。あなたがたの間に分裂が生じないように。ユディシュティラよ、そうせよ。

1.228.50

सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥ १.२२८.५० ॥

大聖者よ、スンダとウパスンダという二人のアスラは誰の息子であったのか。彼らの間にどうして敵意が生じ、どのように互いを打ち合うに至ったのか。

1.228.51

अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा ।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥ १.२२८.५१ ॥

この天女ティロッタマーは神々の娘だが、いったい誰の娘なのか。彼女への欲望に狂って、あの二人は互いを打ち合ったのだ。

1.228.52

एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन ।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे ॥ १.२२८.५२ ॥

苦行の宝よ、これらすべてが起こった通りに、詳しく聞きたいと思う。ブラーフマナよ、私の好奇心は実に大きいのだ。