摩诃婆罗多 · 章 1.229
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.229.1
शणु मे विस्तरेणेममितिहासं पुरातनम् ।
भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर ॥ १.२२९.१ ॥
啊,普利塔之子坚战,请听我详细讲述这段古老的历史,讲述你与兄弟们所经历的事情。
1.229.2
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ १.२२९.२ ॥
往昔,在大阿修罗希兰耶迦希普的家族中,诞生了名为尼昆婆的、光辉而强大的提迭王。
1.229.3
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ॥ १.२२९.३ ॥
他生有两个具有大勇猛和可怕威力的儿子:太阳陀与优波太阳陀,二位提迭王,残酷而心肠狠毒。
1.229.4
तावेकनिश्चयौ दैत्यावेककार्यार्थसंमतौ ।
निरन्तरमवर्तेतां समदुःखसुखावुभौ ॥ १.२२९.४ ॥
这两位提迭王意志一致,对同一目标意见相同,始终形影不离,苦乐与共。
1.229.5
विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः ।
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ॥ १.२२९.५ ॥
没有对方,他们不吃饭,也不说话;他们彼此做让对方欢喜的事,彼此说让对方欢喜的话。
1.229.6
एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः ।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ॥ १.२२९.६ ॥
两人性情与行为相同,虽是二人,却仿佛成了一人;他们成长为大勇猛者,即便行事之际也抱持同一个决心。
1.229.7
त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् ।
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः ॥ १.२२९.७ ॥
为了征服三界,二人坚定同一志愿,受戒后前往温底耶山,修持严酷的苦行。
1.229.8
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥ १.२२९.८ ॥
二人长久修持苦行,饥渴交困,头戴乱发,身穿树皮衣。
1.229.9
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ।
आत्ममांसानि जुह्वान्तौ पादाङ्गुष्ठाग्रधिष्ठितौ।
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ १.२२९.९ ॥
他们全身布满污垢,只以空气为食。以自己的血肉作供物,踮着大脚趾尖站立,双臂高举,目不眨动,长期持守誓愿。
1.229.10
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत् ॥ १.२२९.१० ॥
二人苦行的威力使温底耶山长久受热,冒出浓烟,那情景竟如奇迹一般。
1.229.11
ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः ।
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ १.२२९.११ ॥
诸天见二人苦行之酷烈,心生恐惧;为了阻断他们的苦行,诸天便设下重重障碍。
1.229.12
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनःपुनः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १.२२९.१२ ॥
诸天一再以珠宝和美女诱惑二人,然而这两位誓愿伟大的人始终没有破坏他们的誓愿。
1.229.13
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा ॥ १.२२९.१३ ॥
于是诸神又为这两位大德者制造了幻象:他们的姐妹、母亲、妻子以及子女。
1.229.14
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा ।
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः ॥ १.२२९.१४ ॥
被手持长矛的罗刹推搡倒下,发丝散乱,首饰与衣裳零落。
1.229.15
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १.२२९.१५ ॥
于是众人呼唤二人,哭喊道:“救救我们!”然而这两位大誓者并未破坏自己的誓愿。
1.229.16
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः ।
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ १.२२९.१६ ॥
当二人都不曾动摇、不曾痛苦时,那些女子与一切幻象便消失了。
1.229.17
ततः पितामहः साक्षादभिगम्य महासुरौ ।
वरेण च्छ्दयामास क्वलोकहितः प्रभुः ॥ १.२२९.१७ ॥
于是造福世界的主神祖父亲自来到二位大阿修罗面前,以恩赐安抚了他们。
1.229.18
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ १.२२९.१८ ॥
此时,勇武坚定的兄弟孙达与优波孙达见到神圣的祖父,便合掌而立。
1.229.19
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।
आवयोस्तपसाऽनेन यदि प्रीतः पितामहः ॥ १.२२९.१९ ॥
于是二人一同对主神、天神说:若祖父因我们这苦行而欢喜,
1.229.20
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ १.२२९.२० ॥
精通幻术与兵器、力量强大、能随意变化形貌的我们二人,愿成为不死者,若主神对我们满意。
1.229.21
ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति ।
अन्यद्वृणीतं मृत्योश्च विधानममरैः सम् ॥ १.२२९.२१ ॥
除了不死,你们所说的一切都将实现。请选择另一种与诸神相等的恩赐,以代替死亡之定则。
1.229.22
प्रभविष्याव इति यन्महदभ्युद्यतं तपः ।
युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ १.२२९.२२ ॥
因你二人为使自己强大而发起的这场大苦行,所以不能赐予你们不死。
1.229.23
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।
हेतुनाऽनेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥ १.२२९.२३ ॥
你二人为征服三界而行此苦行。因此,诸位达提王啊,我不会满足你们的愿望。
1.229.24
सुन्दोपसुन्दावूचतुः ।
त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम्।
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥ १.२२९.२४ ॥
孙达与优波孙达说:愿我们不畏惧三界中任何动与不动的生灵,唯独彼此之间除外,祖父啊。
1.229.25
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् ।
मृत्योर्विधानमेतच्च यथावद्वा भविष्यति ॥ १.२२९.२५ ॥
你们所求和所说的一切,我都依你们的心愿赐予你们二人。死亡的安排也将照所说的那样实现。
1.229.26
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ १.२२९.२६ ॥
于是祖父将此恩赐给予他二人,使他们从苦行中回转,便前往梵界。
1.229.27
लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ ।
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ १.२२९.२७ ॥
这两位大阿修罗兄弟获得了恩赐,对一切世界都不可被杀,便回到了自己的宫殿。
1.229.28
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ ।
सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥ १.२२९.२८ ॥
看到这两位已获恩赐、心愿达成的高尚者,所有的朋友亲族都因他们而感到极大的喜悦。
1.229.29
ततस्तौ तु जटा भित्त्वा मौलिनौ संबभूवतुः ।
महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥ १.२२९.२९ ॥
于是二人挣脱了发辫,戴上了王冠,身佩贵重的饰物,穿着洁白无瑕的衣服。
1.229.30
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम् ।
नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः ॥ १.२२९.३० ॥
他们把不合时节的月光节变成了四季常在的节日;他们的所有朋友亲族也因此时常欢喜。
1.229.31
भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति ।
गीयेतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे ॥ १.२२९.३१ ॥
“吃吧,享受吧,常常布施吧,欢乐吧”,以及“唱吧,喝吧”——这样的声音在家家户户都能听到。
1.229.32
तत्रतत्र महानादैरुत्कृष्टतलनादितैः ।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥ १.२२९.३२ ॥
到处是巨大的喧声和高声的拍掌声,达提亚人的整座城市都变得欢喜而喜悦。
1.229.33
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।
समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ १.२२९.३३ ॥
对于那些能随意变化形态、沉迷于种种游戏的达提亚人来说,岁月仿佛只是一天。