摩诃婆罗多 · 章 1.230
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.230.1
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।
मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा ॥ १.२३०.१ ॥
节日刚刚结束,two 渴望三界的二者商议之后,便向军队下达了命令。
1.230.2
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः ।
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥ १.२३०.२ ॥
二人得到朋友、达伊提亚、长者和谋士的许可,夜间举行出行仪式,然后在摩伽星宿之下出发。
1.230.3
गदापिट्टशधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया ॥ १.२३०.३ ॥
二人与庞大的披甲达伊提亚军队一同出发,军中人持棍棒、战斧,手执三叉戟与铁锤。
1.230.4
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।
चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा ॥ १.२३०.४ ॥
在吟游诗人以吉祥颂歌和与胜利相关的赞美声中,二人怀着无上的喜悦前行。
1.230.5
तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ ।
देवानामेव भवनं जग्मतुर्युद्दुर्मदौ ॥ १.२३०.५ ॥
二位达伊提亚跃入天空,随意飞行,因沉醉于战斗,径直朝诸神的居所而去。
1.230.6
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥ १.२३०.६ ॥
诸神得知他们将至以及那位主所赐的恩典后,便离开天界,前往梵天之界。
1.230.7
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा ।
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ ॥ १.२३०.७ ॥
二人征服了因陀罗界之后,便杀害了夜叉与罗刹的众军,以及在空中飞行的生灵;二人都有猛烈的威力。
1.230.8
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ ।
समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः ॥ १.२३०.८ ॥
二位大车战士征服了居于地下的龙蛇(那伽),又征服了所有住在海边的蛮夷部族。
1.230.9
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ ।
सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः ॥ १.२३०.९ ॥
于是这两位以严酷统治著称者开始征服整个大地;他们召集士兵,说出了极为严厉的话语。
1.230.10
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।
तेजो बलं च देवानां वर्धन्ति श्रियं तथा ॥ १.२३०.१० ॥
王仙与再生者通过大祭祀及天神与祖先的供物,增长诸神的光辉、力量与威严。
1.230.11
तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम् ।
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥ १.२३०.११ ॥
对于这些如此行事的阿修罗之敌,我们大家应当齐心协力,全心全意将他们尽数诛灭。
1.230.12
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ ॥ १.२३०.१२ ॥
二人如此向众人下达命令之后,在大海东岸怀着残酷的决心,面向四方而去。
1.230.13
यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः ।
तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः ॥ १.२३०.१३ ॥
二人强行杀死了所有行祭者以及主持祭祀的再生者之后,那两位强者便离去了。
1.230.14
आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम् ।
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः ॥ १.२३०.१४ ॥
在心性清净的仙人的修行处,他们的士兵拿起祭火,毫无顾忌地把它们投入水中。
1.230.15
तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः ।
नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः ॥ १.२३०.१५ ॥
那些以苦行为财富的大德在愤怒中所发的咒诅,也不能加害于他们二人,因为已被所赐的恩惠所化解。
1.230.16
नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव ।
नियमान्संपरित्यज्य व्यद्रवन्त द्विजातयः ॥ १.२३०.१६ ॥
咒诅如同射向岩石的箭一样不起作用时,再生者们便抛弃了戒律,四散奔逃。
1.230.17
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥ १.२३०.१७ ॥
大地上那些凭苦行而成就、自制并专注于寂静的人,因惧怕那二人而逃散,如同蛇躲避毗那多之子迦鲁达一般。
1.230.18
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।
शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा ॥ १.२३०.१८ ॥
那时,修行处被践踏毁坏,净瓶与祭勺散落一地,整个世界变得空荡荡的,仿佛被时间所击倒。
1.230.19
ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ ।
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ १.२३०.१९ ॥
大王啊,在看不见的仙人面前,两位想要杀戮的大阿修罗下定决心,开始变化形体。
1.230.20
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।
संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् ॥ १.२३०.२० ॥
二者化作头颅裂开、癫狂发情的大象,连躲藏在城堡中的人也送往阎摩的住所。
1.230.21
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥ १.२३०.२१ ॥
二者先化为狮子,又化为老虎,又隐身不见,这两个残暴者以种种手段找到仙人并将其杀害。
1.230.22
निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥ १.२३०.२२ ॥
祭祀与诵习停止,君王与婆罗门灭亡,节庆与祭礼断绝——那时大地便成了这样。
1.230.23
हाहाभूता भयार्ता च निवृत्तविपणापणा ।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥ १.२३०.२३ ॥
陷入一片哀号,为恐惧所苦,市集与店铺关闭,祭神之事停止,没有了吉祥的婚礼。
1.230.24
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना ॥ १.२३०.२४ ॥
耕作与牧养停止,城市与修行处被毁,遍布骸骨与骷髅,大地变得可怖至极。
1.230.25
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥ १.२३०.२५ ॥
于是祖先的祭祀停止了,没有了“瓦沙特”之呼与吉祥,那令世界恐惧的景象变得难以目睹。
1.230.26
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥ १.२३०.२६ ॥
日月、行星、星辰、宿与天界诸神,见到孙达与优波孙达的所作,皆陷入忧愁。
1.230.27
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥ १.२३०.२७ ॥
二位达extya以残暴之行征服了四方,无有敌手,遂在俱卢之野建立了居所。