Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.232

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.232.1

जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥ १.२३२.१ ॥

两位达伊提耶征服大地后,无敌无忧;使三界安宁之后,二者功成圆满。

1.232.2

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥ १.२३२.२ ॥

取得诸天、乾闼婆、夜叉、龙、诸王与罗刹的一切珍宝,他们获得了无上的满足。

1.232.3

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ।
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥ १.२३२.३ ॥

当再无任何人能阻挡他们时,二人无所作为,如天神一般游乐。

1.232.4

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः ।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥ १.२३२.४ ॥

与女子、花环、香料、丰盛的饮食以及种种可口的饮品相伴,他们获得了无上的欢喜。

1.232.5

अन्तःपुरवनोद्याने पर्वतेषु वनेषु च ।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥ १.२३२.५ ॥

在后宫、林园与花园中,在山岳与森林里,在任何所愿之地,二人如天神般游乐。

1.232.6

ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले ।
पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः ॥ १.२३२.६ ॥

之后有一次,他们前往文底耶山的高原,在平坦的岩石之上、花开的娑罗树间游乐。

1.232.7

दिव्येषु सर्वकामेषु समानीतेषु तावुभौ ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः ॥ १.२३२.७ ॥

当所有神圣的欲望之物被取来后,二人欣喜地与女子们一同坐在上好的座位上。

1.232.8

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः ।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे ॥ १.२३२.८ ॥

于是众女以乐器和舞蹈侍奉二人,并以赞颂之歌欢喜地来到他们身边。

1.232.9

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा ॥ १.२३२.९ ॥

于是,蒂洛塔玛在林中采花,衣饰随意散乱,身上只穿一件红色的衣裳,

1.232.10

नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती ।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ १.२३२.१० ॥

她在河岸边采摘生长的迦尼迦罗花,缓缓走向那两位大阿修罗所在的地方。

1.232.11

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥ १.२३२.११ ॥

二人饮下了上好的酒,因醉意而眼角发红;一看见那纤腰的女子,他们便心神激荡。

1.232.12

तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता ।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥ १.२३२.१२ ॥

二人起身,离开座位,走到她站立的地方;被欲望冲昏头脑的二人,都向她恳求。

1.232.13

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना ।
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम् ॥ १.२३२.१३ ॥

孫陀以手握住那位眉目秀美者的右手,優波孫陀也握住了提洛多摩的左手。

1.232.14

वरप्रदानमत्तौ तावौरसेन बलेन च ।
धनरत्नमदाभ्यां च सुरापानमदेन च ॥ १.२३२.१४ ॥

二人因获赐恩惠而狂醉,又因天生的力量、财宝珠玉的傲慢以及饮酒的醉意而沉迷。

1.232.15

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।
मदकामसमाविष्टौ परस्परमथोचतुः ॥ १.२३२.१५ ॥

二人因种种醉意而狂乱,彼此皱眉相视,被傲慢与欲望所攫,于是互相说道。

1.232.16

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥ १.२३२.१६ ॥

孫陀说:“她是我的妻子;对你而言,她如同尊长之妻。”优波孫陀说:“她是我的妻子;对你而言,她如同儿媳。”

1.232.17

नैषा तव ममैषेति ततस्तौ मन्युराविशत् ।
तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ ॥ १.२३२.१७ ॥

“她不是你的,她是我的。”于是怒火攻心。二人为她的美貌所迷,失去了情谊与友爱,都陷入了狂乱。

1.232.18

तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा ।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ ॥ १.२३२.१८ ॥

为了她,二人各自持起可怕的铁锤。高举可怕的铁锤,被欲望迷惑的二人便向她扑去。

1.232.19

अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः ।
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ॥ १.२३२.१९ ॥

二人喊着"我先,我先",彼此击打;被棍棒击中,这两个可怖之人倒在了大地上。

1.232.20

रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ।
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा ॥ १.२३२.२० ॥

二人浑身浴血,如同两个从天上坠落的太阳;于是那些女子逃走了,那群阿修罗也同样逃走了。

1.232.21

पातालमगमत्सर्वो विषादभयकम्पितः ।
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः ॥ १.२३२.२१ ॥

众人因忧惧而颤抖,都逃往了地下世界。那时,祖父与诸神及大仙人一同来到了那里。

1.232.22

आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम् ।
वरेण च्छन्दयामास भगवान्प्रपितामहः ॥ १.२३२.२२ ॥

纯净之灵前来,敬重提罗托塔玛,尊贵的曾祖以一项恩赐使她欢喜。

1.232.23

वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः ।
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि ॥ १.२३२.२३ ॥

祖父欲赐恩赐,欢喜地对她说:"啊,夫人,你将游历太阳所行的诸世界。"

1.232.24

तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ।
एवं तस्यै वरं दत्वा सर्वलोकपितामहः ॥ १.२३२.२४ ॥

"凭你的光辉,你如此美丽,无人会伤害你。"如此赐予她恩赐后,诸世界的祖父……

1.232.25

इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ।
एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ ॥ १.२३२.२५ ॥

将三界托付给因陀罗后,主神前往梵天之界。如此,二者合而为一,在一切事务上意志一致。

1.232.26

तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः ।
तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः ॥ १.२३२.२६ ॥

为了底络多玛,他们愤怒地互相攻击。因此,诸位婆罗多中的最优秀者,我出于爱怜对你们说。

1.232.27

यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥ १.२३२.२७ ॥

为了德罗波蒂,你们之间不要产生分歧,这样去做吧。愿你们平安吉祥;若你们想要我所喜爱的,就这样做。

1.232.28

एवमुक्ता महात्मानो नारदेन महर्षिणा ।
समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥ १.२३२.२८ ॥

伟大的仙人那罗陀如此劝告之后,诸位大德,哦国王,彼此达成一致,并在神仙那罗陀——其力量无量——的面前立下了约定。

1.232.29

एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा ।
द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत्।
स नो द्वादश मासानि ब्रह्मचारी वने वसेत् ॥ १.२३२.२९ ॥

在每个人的家中,克里希纳须无瑕地居住一年。我们中间若有人与德罗波蒂同坐时看向另一人,他须作梵行者在森林中居住十二个月。

1.232.30

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥ १.२३२.३० ॥

待遵行正法的般度五子履行了那约定之后,大仙那罗陀也欢喜地前往他所愿的地方。

1.232.31

एवं तैः समयः पूर्वं कृतो नारदचोदितैः ।
न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत ॥ १.२३२.३१ ॥

因此,在那若陀的劝导下,他们先前订立了此约,他们彼此都没有违背,婆罗多的后裔啊。

1.232.32

अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः ।
एतद्विस्तरशः सर्वमाख्यातं ते नराधिप ॥ १.२३२.३२ ॥

般度的诸子都欣然接受了那约定,也彼此欢迎。人主啊,这一切已为您详细叙述。

1.232.33

काले च तस्मिन्संपन्ने यथावज्जनमेजय ॥ १.२३२.३३ ॥

到了那个时候,জনমেজয啊,一切都如理如法地发生了。