Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.234

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.234.1

तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥ १.२३४.१ ॥

当那位臂力强大、为俱卢族带来荣耀的人出发时,精通吠陀彼岸之学的大德婆罗门们跟随在他身后。

1.234.2

वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः ।
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥ १.२३४.२ ॥

还有精通吠陀及吠陀支分的学者,同样有内省冥思之人、乞食者、奉敬世尊的信徒、游吟诗人,以及诵说往世书的人。

1.234.3

कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥ १.२३४.३ ॥

王啊,还有其他讲故事的人、苦行者和林居者,以及用悦耳之声诵读神圣故事的再生者(婆罗门)。

1.234.4

एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः ।
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥ १.२३४.४ ॥

般度之子被这些人和其他众多随从环绕,伴着悦耳的谈话出发,如同因陀罗被风神们环绕一般。

1.234.5

रमणीयानि चित्राणि वनानि च सरांसि च ।
सरितः सागरांश्चैव देशानपि च भारत ॥ १.२३४.५ ॥

啊,婆罗多,他也看到了优美多样的森林、湖泊、河流、海洋和各地。

1.234.6

पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः ।
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः ॥ १.२३४.६ ॥

婆罗多族的雄牛也看到了神圣的渡口;那位主人抵达恒河门,在那里安营扎寨。

1.234.7

तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय ।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः ॥ १.२३४.७ ॥

Janamejaya啊,你听他在那里所行的奇妙之事吧,这位心地纯净的人是般度诸子中最杰出者。

1.234.8

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥ १.२३४.८ ॥

婆罗多啊,当贡蒂之子在那里安顿下来后,婆罗门们多次点燃了祭火。

1.234.9

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च ।
कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥ १.२३४.९ ॥

当这些祭火被点燃、燃烧并被供以祭品,鲜花供品已献上,并分布在两岸之间时。

1.234.10

कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथे स्थितैः ।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥ १.२३४.१० ॥

已沐浴完毕、博学、自制并安住于善道的大德们,使恒河门(Gaṅgādvāra),大王啊,光辉非凡。

1.234.11

तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः ।
अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥ १.२३४.११ ॥

就这样,在那拥挤的营地里,般度族中的雄牛、贡蒂之子下到恒河中沐浴。

1.234.12

तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥ १.२३४.१२ ॥

他在那里沐浴,向祖先们献上奠水,大王啊,他想要从水中起来,心中想要举行祭火之事。

1.234.13

अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।
अन्तर्जले महाराज उलूप्या कामयानया ॥ १.२३४.१३ ॥

大王啊,那臂力强大的人被那龙王之女乌卢比因爱欲所驱使拉入水底。

1.234.14

ददर्श पाण्डवस्तत्र पावकं सुसमाहितः ।
कौरव्यस्याथ नागस्य भवने परमार्चिते ॥ १.२३४.१४ ॥

般度之子专注地在那备受尊崇的憍罗婆龙王宫中看见了火。

1.234.15

तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः ।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥ १.२३४.१५ ॥

贡蒂之子财增在那里举行了火祭;他毫不犹豫地献上供品,火神因此欢喜。

1.234.16

अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।
प्रसहन्निव कौन्तेय इदं वचनमब्रवीत् ॥ १.२३४.१६ ॥

完成火祭后,贡蒂之子对龙王之女说出这些话,仿佛在强迫她。

1.234.17

किमिदं साहसं भीरु कृतवत्यसि भामिनि ।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा ॥ १.२३४.१७ ॥

胆怯的女子啊,你做了这样鲁莽的事?吉祥的人啊,这是什么地方?你是谁,是谁的女儿?

1.234.18

ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी ॥ १.२३४.१८ ॥

在爱罗婆多的族系中,诞生了一条名叫憍罗婆的龙。大王啊,我便是他的女儿,名叫乌卢比的龙女。

1.234.19

साऽहं त्वामभिषेकार्थमवतीर्णं समुद्गाम् ।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता ॥ १.२३४.१९ ॥

人中之虎啊,见你为沐浴下到海中,我便被爱神迷乱而昏厥。

1.234.20

तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन ।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ ॥ १.२३४.२० ॥

俱卢之喜,我为你而为爱神所销蚀;无罪者啊,今日请以自身相赠使我欢喜,我唯属于你。

1.234.21

ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम् ।
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः ॥ १.२३४.२१ ॥

善良的女子啊,这是我为期十二个月的梵行誓约,是法王所命;我并非自己做主。

1.234.22

तव चापि प्रियं कर्तुमिच्छामि जलचारिणि ।
अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित् ॥ १.२३४.२२ ॥

水中生者啊,我也愿意使你欢喜;我以前从未说过任何谎言。

1.234.23

कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत् ।
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे ॥ १.२३४.२३ ॥

如何才能我不说谎,也使你欢喜,而我的法也不受损害呢?蛇女啊,我会那样做的。

1.234.24

जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥ १.२३४.२४ ॥

般杜之子啊,我知道你如何遍行大地,也知道你的师长如何为你定下这梵行誓约。

1.234.25

परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति ।
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशमासिकम् ॥ १.२३४.२५ ॥

般度之子啊,当我们彼此都为德鲁波蒂之女而相处时,凡因迷惑而闯入我们之间者,应在林中居住十二个月。

1.234.26

वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ।
तदिदं दौपदीहेतोरन्योन्यस्य प्रवासनम् ॥ १.२३४.२६ ॥

你们之间曾约定,在林中应守梵行。为德鲁波蒂之故而彼此放逐,正是此约。

1.234.27

कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ।
परित्राणं च कर्तव्यमार्तानां पृथुलोचन ॥ १.२३४.२७ ॥

为了法而在那里如此行事,法在此并不受损。对于受苦者应当施以保护,广目者啊。

1.234.28

कृत्वा मम परित्राणं तव धर्मो न लुप्यते ।
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः ॥ १.२३४.२८ ॥

你保护我,你的法不会被破坏。即使此法有细微的违背,

1.234.29

स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन ।
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो ॥ १.२३४.२९ ॥

即使交出我的性命,那也将是你的法。阿周那,请接纳我这虔诚的女子。帕尔塔啊,这是善人的看法,主啊。

1.234.30

न करिष्यसि चेदेवं मृतां मामुपधारय ।
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् ॥ १.२३४.३० ॥

你若不这样做,就请视我为死者。大臂者啊,以赐我生命而行最高之法吧。

1.234.31

शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ।
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः ॥ १.२३४.३१ ॥

今日我来投奔你的庇护,人中至尊啊。昆提之子啊,你总是庇护困苦与无依之人。

1.234.32

साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता ।
याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम्।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥ १.२३४.३२ ॥

我悲痛地前来投奔你,痛哭不已。我恳求你,心中渴望;请成全我心所爱。请你以自身相赠,满足我的心愿。

1.234.33

एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥ १.२३४.३३ ॥

蛇王之女如此相求,昆提之子以法为由,便照她所说的一切做了。

1.234.34

स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।
पुत्रमुत्पादयामास स तस्यां सुमनोहरम् ॥ १.२३४.३४ ॥

这位威勇者在蛇界过了那一夜,与她生下一子,极为俊美可爱。

1.234.35

इरावन्तं महाभागं महाबलपराक्रमम् ।
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥ १.२३४.३५ ॥

太阳升起时,他从苦卢后裔的住处起身,前去见伊拉梵——他福运极大、力量与勇武非凡。

1.234.36

आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह ।
परित्यज्य गता साध्वी उलूपी निजमन्दिरं ॥ १.२३४.३६ ॥

他与她一同再次来到恒河门;随后贤德的乌卢比离他而去,回到自己的宫殿。

1.234.37

दत्त्वा वरमजेयत्वं जले सर्वत्र भारत ।
साध्या जलचराः सर्वे भविष्यन्ति न संशयः ॥ १.२३४.३७ ॥

婆罗多的后裔啊,她赐予他在水中处处不可战胜的恩惠,所有水生生物都将听从于他,此事毫无疑问。