摩诃婆罗多 · 章 1.236
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.236.1
ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभः ।
अभ्यगच्छत्सुपुण्यानि सोभितानि तपस्विभिः ॥ १.२३६.१ ॥
于是婆罗多族的雄牛前往南方海滨那些极其神圣、由苦行者装点的圣地渡口。
1.236.2
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः ।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः ॥ १.२३६.२ ॥
那里五位苦行者避开那些先前被苦行者弄得散乱的圣地渡口。
1.236.3
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।
कारन्धमं प्रसन्नं च महमेधफलं च तत् ॥ १.२३६.३ ॥
阿伽斯提耶圣渡、娑菩陀罗渡、极其清净的补罗摩渡、喜悦的迦兰达摩渡,以及那能带来大马祭之果的圣地。
1.236.4
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् ।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः ॥ १.२३६.४ ॥
婆罗堕阇的圣渡能大大平息罪业;这五处圣地被俱卢之最所见。
1.236.5
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥ १.२३६.५ ॥
般度之子见那些幽僻的圣地被心向法义的仙人们避开,
1.236.6
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः ।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥ १.२३६.६ ॥
于是俱卢族的欢喜者合掌问苦行者:"梵语者们为何避开这些圣渡?"
1.236.7
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥ १.२३६.७ ॥
这些圣地中住着五只鳄鱼,它们会抓走苦行者。因此,库鲁之喜,人们避开这些圣地。
1.236.8
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥ १.२३६.८ ॥
他听了他们的话,虽被苦行者阻拦,这位臂力强大的人中之雄仍前往观看那些圣地。
1.236.9
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ॥ १.२३६.९ ॥
随后,他抵达大仙人萨乌跋德拉的至上圣地,这位英雄、敌人的焚烧者,突然跳入水中沐浴。
1.236.10
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥ १.२३६.१० ॥
这时,一只生活在水中的大鳄鱼抓住了这位人中猛虎、昆蒂之子达那闍耶的脚。
1.236.11
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥ १.२३६.११ ॥
这位臂力强大的昆蒂之子,力量最强者中的翘楚,抓着那挣扎的水中生物,凭借力量站了起来。
1.236.12
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना ।
बभूव नारी कल्याणी सर्वाभरणभूषइता ॥ १.२३६.१२ ॥
然而,当名声显赫的阿周那将它拉出水面时,那鳄鱼竟真的变成了一位身披全套珠宝的吉祥女子。
1.236.13
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ॥ १.२३६.१३ ॥
大王啊,见到那位光彩夺目、形貌天神般、令人心醉的女子,见到这一奇妙的大事,贡蒂之子持宝者(阿周那)。
1.236.14
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी ॥ १.२३६.१४ ॥
他对那位女子甚为欢喜,说出了这样的话:“善良的女子啊,你是谁?你从何处来,居于水中的人?”
1.236.15
किमर्थं च महत्पापमिदं कृतवती पुरा ।
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी ॥ १.२३६.१५ ॥
“你以前为何犯下这样的大罪?”她回答道:“大臂者啊,我是在天界森林中游荡的阿普萨拉斯。”
1.236.16
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ॥ १.२३६.१६ ॥
“大力者啊,我名叫跋尔伽,常为财神(俱毗罗)所宠爱。我另有四位女伴,都是吉祥之人,能随意往来。”
1.236.17
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् ।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् ॥ १.२३६.१७ ॥
“我与她们一同前往诸护世者的居所。在那里,我们都看见了一位持严格誓戒的婆罗门。”
1.236.18
रूपवन्तमधीयानमेकमेकान्तचारिणम् ।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम् ॥ १.२३६.१८ ॥
“他容貌俊美,独自诵习,在僻静处游行。大王啊,正是凭着他的苦行,我们二人都被他的光辉所笼罩。”
1.236.19
आदित्य इव तं देशं इत्वं सर्व व्यकाशयत् ।
तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम् ॥ १.२३६.१९ ॥
他如太阳一般照亮了整个地区。看到他如此的苦行与如此奇妙而至高的形貌,
1.236.20
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ।
अहं च सौरभेयी च समीची बुद्बुदा लता ॥ १.२३६.२० ॥
我们想要扰乱他的苦行,降临到那个地方:我、索罗bhei、萨米奇、布布达和藤蔓拉塔。
1.236.21
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ।
गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं ॥ १.२३६.२१ ॥
婆罗多啊,我们一同走近那位婆罗门,歌唱、欢笑,诱惑那位再生者,
1.236.22
स च नास्मासु कृतवान्मनो वीर कथंचन ।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥ १.२३६.२२ ॥
英雄啊,他丝毫没有将心思放在我们身上;这位大光辉者在纯净的苦行中屹立,毫不动摇。
1.236.23
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः ॥ १.२३६.२३ ॥
那位婆罗门愤怒地诅咒了我们,刹帝利中的雄牛啊:“你们将在水中化为鳄鱼,漂泊百年。”