摩诃婆罗多 · 章 1.237
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.237.1
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम ।
अयाम शरणं विप्रं तं तपोधनमच्युतम् ॥ १.२३७.१ ॥
于是我们众人深感惶恐,婆罗多之最啊,便去投靠那位以苦行为财富、坚定不移的婆罗门。
1.237.2
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः ।
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥ १.२३७.२ ॥
我们因容貌、青春与爱神而骄傲,做了不当之事。再生者啊,请您宽恕我们。
1.237.3
एष एव वधोऽस्माकं स्वयं प्राप्तस्तपोधन ।
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥ १.२३७.३ ॥
啊,以苦行为财富的人啊,这灭亡是我们自己招来的,我们来此是为了引诱您这自制之人。
1.237.4
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः ।
तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि ॥ १.२३७.४ ॥
奉行正法者认为,女人被创造为不可杀害之人;所以请依正法惩罚我们,伤害我们并不适合您。
1.237.5
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते ।
सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥ १.२३७.५ ॥
啊,知法者,对一切众生怀有慈爱的人,才被称为婆罗门。愿智者这句话成为真实,吉祥的人啊。
1.237.6
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् ।
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥ १.२३७.६ ॥
贤者保护前来寻求庇护的人。我们已投靠您,因此您应当宽恕我们。
1.237.7
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत् ।
प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥ १.२३७.७ ॥
如此被言,那位德行高尚、行善的婆罗门施恩了,英雄啊,他的光辉与日月相等。
1.237.8
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम् ।
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम् ॥ १.२३७.८ ॥
百与十万,皆表示不竭之数。百只是一个度量,这并不表示不竭。
1.237.9
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले ।
उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः ॥ १.२३७.९ ॥
当你们化为鳄鱼在水中捉住人时,那位最杰出的人便将他们从水中拉上陆地。
1.237.10
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ ।
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥ १.२३७.१० ॥
那时你们都将重新获得你们自己的形貌。我从前从未说过谎话,即使是戏言也不曾。
1.237.11
तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह ।
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः।
पुण्यानि च भविष्यन्ति पावनानि मनीषिणां ॥ १.२३७.११ ॥
从那时起,所有这些圣浴之地在此处将以“女性圣地”之名处处闻名,并将成为智者的功德与净化之所。
1.237.12
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम् ।
अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः ॥ १.२३७.१२ ॥
于是我们向那位婆罗门致敬并绕行一周,离开了那个地方,深感悲伤,开始思量。
1.237.13
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् ।
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥ १.२३७.१३ ॥
我们众人何时能在短时间内遇到那个能让我们再次恢复原貌之人呢?
1.237.14
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत ।
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥ १.२३७.१४ ॥
婆罗多啊,我们正这样想着,转眼之间便看见了大福德的天仙那罗陀。
1.237.15
संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ।
अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः ॥ १.२३७.१५ ॥
普利塔之子啊,我们见到这位光辉无量的天仙,十分欢喜,恭敬地向他行礼,然后羞愧地低着脸站立。
1.237.16
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम् ।
श्रउत्वा तत्र यथावृत्तमिदं वचनमब्रवीत् ॥ १.२३७.१६ ॥
他问我们忧愁的根源,我们把经过讲给他听;他听后便说了这番话。
1.237.17
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै ।
पुण्यानि रमणीयानि तानि गच्छत मा चिरं ॥ १.२३७.१७ ॥
南方海岸上有五处圣洁而美丽的渡口;你们前往那里,不要迟延。
1.237.18
तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः ।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥ १.२३७.१८ ॥
在那里,不久,人中之虎、纯洁心灵的般度之子达难闍耶便会解救我们脱离此苦,这一点毫无疑问。
1.237.19
इत्युक्त्वा नारदः सर्वास्तत्रैवान्तरधीयत ।
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः।
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ ॥ १.२३७.१९ ॥
那罗陀说完这些话,便在那里隐没了。英雄啊,我们听了他的话,都从这里离去。今日此言应验了;无垢者啊,你已解救了我。
1.237.20
एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः ।
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥ १.२३७.२० ॥
这些是我的同伴;此外还有另外四位被困在水中。英雄啊,请行善事,把她们全部解救出来。
1.237.21
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशांपते ।
अवगाह्य च तत्तीर्थं गृहीतो ग्राहिभिस्तदा ॥ १.२३७.२१ ॥
于是,大王啊,般度族中最优秀的那位走向她们所有人,下到那圣渡口,立刻就被鳄鱼抓住了。
1.237.22
ग्राहीभिश्चोत्तताराशु तरयामास तत्क्षणात् ।
सा चाप्सरा बभूवाशु सर्वाभरणभूषिता ॥ १.२३७.२२ ॥
他从鳄鱼口中脱身,迅速浮出水面,并在那一刻把她渡了过去。她立刻变成了身饰一切珍宝的天女。
1.237.23
एवं क्रमेण ताः सर्वा मोक्षयामास वीर्यवान् ॥ १.२३७.२३ ॥
就这样,那位有力者依次将她们全部解救了。
1.237.24
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् ।
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा ॥ १.२३७.२४ ॥
她们从水中起身,重新恢复了自己的形貌,大王啊,那些天女又如先前一样显现出来了。
1.237.25
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः ।
चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ ॥ १.२३७.२५ ॥
洁净了圣渡口并向她们告辞后,这位主再次前往摩那卢罗,去再见奇德兰伽达。
1.237.26
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् ।
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत् ॥ १.२३७.२६ ॥
她生下一子,即国王巴布鲁瓦诃那。见到他后,大王啊,般度之子对citravāhana说道。
1.237.27
चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम् ।
अनेन च भविष्यामि ऋणान्मुक्तो नराधिप ॥ १.२३७.२७ ॥
你接受巴布鲁瓦诃那作为奇德兰伽达的聘礼吧;由此,人主啊,我便能免除债务。
1.237.28
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः ।
इहैव भव भद्रं ते वर्धेथा बभ्रुवाहनम् ॥ १.२३७.२८ ॥
般度之子又对奇德兰伽达说了这些话:就留在这里吧,愿你吉祥;好好培养巴布鲁瓦诃那。
1.237.29
इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि ।
कुन्ती युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ ॥ १.२३७.२९ ॥
你将来到我在因陀罗普拉斯塔的居所,在那里享受快乐:昆提、坚战、怖军,以及我的两个幼弟。
1.237.30
आगत्य तत्र पश्येथा अन्यानपि च बान्धवान् ।
बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते ॥ १.२३७.३० ॥
你到了那里,还将见到其他亲族;无瑕的人啊,与所有亲人团聚,你将欢喜。
1.237.31
धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः ।
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति ॥ १.२३७.३१ ॥
安住于法、坚守真实的贡蒂之子坚战,征服整个大地之后,将举行王祭(罗阇苏耶)。
1.237.32
तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः ।
बहूनि रत्नान्यादाय आगमिष्यति ते पिता ॥ १.२३७.३२ ॥
届时大地上称为国王的诸王都将前来,你的父亲也将带着许多珍宝而来。
1.237.33
एकसार्थं प्रयातासि चित्रवाहनसेवया ।
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः ॥ १.२३७.३३ ॥
你随同一支商队前往侍奉奇特瓦哈那;我将在王祭时见到你。好好照料儿子,不要悲伤。
1.237.34
बभ्रुवाहननाम्ना तु मम प्राणो बहिश्चरः ।
तस्माद्भरस्व पुत्रं वै पुरुषं वंशवर्धनम् ॥ १.२३७.३४ ॥
我的生命之息,名为婆鲁婆诃那,正在外游荡;因此要养育那个光大家族的儿子。
1.237.35
चित्रावाहनदायादं धर्मात्पौरवनन्दनम् ।
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा ॥ १.२३७.३५ ॥
奇特瓦哈那的继承人,婆罗婆族的喜悦,依法是般度五子所爱的儿子——因此要时时守护他。
1.237.36
विप्रयोगेण संतापं मा कृथास्त्वमनिन्दिते ।
चित्राङ्गदामेवमुक्त्वा सागरानूपमाश्रितः ॥ १.२३७.३६ ॥
无瑕者啊,不要因分离而痛苦。对奇兰伽达如此说后,他前往海滨。
1.237.37
स्थानं दूरं समाप्लुत्य दत्त्वा बहुधनं तदा ।
केरलान्समतिक्रम्य गोकर्णमभितोऽगमत् ॥ १.२३७.३७ ॥
离开那个地方远行后,他布施了大量财富,越过喀拉拉人之地,朝向戈迦尔纳而去。
1.237.38
आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम् ।
यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम् ॥ १.२३७.३८ ॥
这是帕舒帕蒂最初的圣地,仅仅见到它便能得到解脱;即使是有罪之人,在那里也能获得赐予无畏的境界。