Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.239

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.239.1

ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ ।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम ॥ १.२३९.१ ॥

此后数日,在那座罗瓦塔卡山上,毗瑞尼族与安陀迦族举行了盛大的节庆,诸王中最杰出者啊。

1.239.2

तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः ।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥ १.२३९.२ ॥

在那山上的节庆中,博阇、毗瑞尼与安陀迦的英雄们向婆罗门布施了成千上万的礼物。

1.239.3

प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः ।
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः ॥ १.२३९.३ ॥

在那座山的周围,这一带到处装饰着镶嵌宝石与绘画的殿堂,以及如意树,啊国王。

1.239.4

वादित्राणि च तत्रान्ये वादकाः समवादयन् ।
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः ॥ १.२३९.४ ॥

那里其他乐师一同奏响乐器,舞者起舞,歌者唱出值得歌唱的曲调。

1.239.5

अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम् ।
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः ॥ १.२३९.५ ॥

威武的毗瑞尼族的盛装少年,乘坐镶金绘饰的车辆,被四处驾着巡游。

1.239.6

पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥ १.२३९.६ ॥

城中居民也步行或乘各式车辆而来,携妻眷与随从,成百上千。

1.239.7

ततो हलधरः क्षीबो रेवतीसहितः प्रभुः ।
अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत ॥ १.२३९.७ ॥

于是持犁者大力罗摩,醉意微醺,与雷瓦蒂同行,由乾达婆随从,在此游走,婆罗多之子啊。

1.239.8

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् ।
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥ १.२३९.८ ॥

同样,毗黎尼族的威严之王乌格拉塞那,受乾达婆歌颂,身边有千名女子相伴。

1.239.9

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ ।
दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव ॥ १.२३९.९ ॥

鲁克弥尼之子与萨姆巴,醉意浓浓,战时勇猛,佩戴神圣花环与衣裳,如同不死者般嬉戏。

1.239.10

अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः ।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥ १.२३९.१० ॥

阿克鲁罗、萨拉纳、伽达、跋伯鲁、毗杜罗陀、尼沙陀、遮卢提沙那,以及普利图与毗普利图也在其中。

1.239.11

सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ ।
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः ॥ १.२३९.११ ॥

萨提亚卡与萨提亚吉、班伽迦罗与摩诃罗婆、哈尔迪基亚与乌达瓦也在其中;其余未在此提及者亦然。

1.239.12

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् ।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा ॥ १.२३९.१२ ॥

他们各自被女子与乾达婆环绕,便在莱瓦塔卡山上为那场庆典增添光彩。

1.239.13

वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः ।
दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत ॥ १.२३९.१३ ॥

婆苏提婆满怀喜悦地与众女子前往那里。他向再生者布施之后,看见一位游方苦行者。

1.239.14

चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते ।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥ १.२३९.१४ ॥

在那场奇妙而令人惊叹的盛会进行之时,婆苏提婆与普利塔之子一同漫步。

1.239.15

तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम् ।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥ १.२३९.१५ ॥

二人在那里漫步时,看见婆苏提婆的美丽女儿,盛装地站在女伴之中,即跋陀罗。

1.239.16

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥ १.२३९.१६ ॥

一见到她,阿周那心中便燃起了情欲。此时克里希那注意到心志专一的普利塔之子。

1.239.17

अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत ।
वनेचरस्य किमिदं कामेनालोड्यते मनः ॥ १.२३९.१७ ॥

人中虎王克里希那仿佛忍着笑说道:“婆罗多之子啊,这个林中人的心为何被欲望搅动了?”

1.239.18

ममैषा भगिनी पार्थ सारणस्य सहोदरी ।
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥ १.२३९.१८ ॥

“普利塔之子啊,这是我的妹妹,萨拉那(大力罗摩)的同母妹妹,名叫苏跋陀罗。愿你吉祥。她是我父亲所钟爱的女儿。若你的心意在此,我自己会去向父亲提起。”

1.239.19

दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेण चैषा संपन्ना कमिवैषा न मोहयेत् ॥ १.२३९.१९ ॥

她是婆修提婆之女,也是婆修提婆(黑天)之妹;容貌端丽,谁能不为之迷惑?

1.239.20

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥ १.२३९.२० ॥

若这位婆修之女成为我的正妃,尽管她是你的妹妹,我的一切福祉必定已然成就。

1.239.21

प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन ।
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत् ॥ १.२३९.२१ ॥

但要得到她,又有何方法?请告诉我,哦,闍那陀那;若是凡人力所能及,我将全部遵行。

1.239.22

स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ ।
स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥ १.२३९.२२ ॥

刹帝利的婚姻以自选夫婿(svayaṃvara)为之,哦,人中之雄;而此事,哦,普利塔之子,因她天性中不可预见的缘由而难以确定。

1.239.23

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।
विवाहहेतुः शूराणामिति धर्मविदो विदुः ॥ १.२३९.२३ ॥

对于刹帝利而言,以力强夺也受到赞许;对于英雄,它是成婚之由,精通法者如是说。

1.239.24

स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम ।
यतिरूपधरस्तं तु यथा कालविपाकता।
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥ १.२३९.२४ ॥

因此,阿周那啊,你化作苦行者之形,待时机成熟,便以力强夺我那吉祥的妹妹吧;在自选夫婿之礼中,谁能真正知道她的心意?

1.239.25

ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा ॥ १.२३९.२५ ॥

于是阿周那与克里希那商定了对策,随即派出快速的使者。

1.239.26

धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै ।
श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः ॥ १.२३९.२६ ॥

这一切都告知了前往因陀罗普拉斯塔的法王。大臂者听后,与母亲一同表示了同意。

1.239.27

भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते ।
इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः ॥ १.२३९.२७ ॥

毗摩先那听后,以为自己的目的已经达成。众人这样说了,智慧广大的克里希那也听到了。

1.239.28

अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम् ।
इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान् ॥ १.२३९.२८ ॥

随后,克里希那向帕尔塔告别,把计划藏在心中,与众人一同返回了德瓦拉卡。