Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.24.1

सौतिरुवाच ।
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे ॥ १.२४.१ ॥

苏蒂说:于是金翅鸟听闻并亲眼看见自己的身体后,开始收缩自己的身体。

1.24.2

न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् ।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे ॥ १.२४.२ ॥

金翅鸟说:众生并未因见到我的身体而恐惧;因我可怖的形貌而惊扰,所以我将收敛我的光辉。

1.24.3

सौतिरुवाच ।
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात् ॥ १.२४.३ ॥

苏蒂说:于是那只随意飞翔、随意施展神力的鸟,把阿鲁那驮在背上,从父亲的家中出发。

1.24.4

मातुरन्तिकमागच्छत्परं तीरं महोदधेः ।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः ॥ १.२४.४ ॥

他来到母亲面前,抵达大海的彼岸;在那里,阿鲁那被放在那位大光明者的前方。

1.24.5

सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा ।
रुरुरुवाच।
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा ॥ १.२४.५ ॥

当太阳以极为猛烈的光芒想要焚烧世界时,如如(Ruru)说:那时尊贵的太阳为何要焚烧世界?

1.24.6

किमस्तापहृतं देवैर्येनमं मन्युराविशत् ।
प्रमतिरुवाच।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन् ॥ १.२४.६ ॥

诸神盗走了什么甘露,使他(太阳)心中生起愤怒?普拉玛蒂说:当正在饮用甘露的罗睺被月亮和太阳指认时。

1.24.7

वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत् ॥ १.२४.७ ॥

无罪者啊,那时他与月亮和太阳结下了仇怨。被罗睺所困扰的太阳,心中升起了愤怒。

1.24.8

सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति ।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम् ॥ १.२४.८ ॥

为了诸神的利益,罗睺对我生出了愤怒。这罪孽带来巨大祸害,唯我一人将会承受。

1.24.9

सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते ।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः ॥ १.२४.९ ॥

在事务中人们可见助手,但在困厄时却不见。眼见我被吞噬,天上的居民却仍忍受着。

1.24.10

तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः ।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम् ॥ १.२४.१० ॥

因此,为了毁灭世界,我必定坚定不移,毫无疑问。如此决定之后,太阳便走向了西方的山。

1.24.11

तस्माल्लोकविनाशाय संतापयत भास्करः ।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः ॥ १.२४.११ ॥

因此,为了毁灭世界,让太阳炽热燃烧吧。于是大仙们来到诸神面前,这样说道。

1.24.12

आद्यार्धरात्रसमये सर्वलोकभयावहः ।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः ॥ १.२४.१२ ॥

在初夜半的时候,将会生起一场大火,给一切世界带来恐惧,毁灭三界。

1.24.13

ततो देवाः सर्षिगणा उपगम्य पितामहम् ।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम् ॥ १.२४.१३ ॥

于是诸天神与仙人众一起来到祖父面前说道:"今日此处由大火所生的这大恐惧是怎么回事?"

1.24.14

न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च ।
उदिते भगवन्भानौ कथनेतद्भविष्यति ॥ १.२४.१४ ॥

"太阳尚未出现,此毁灭之象却已显现。尊者啊,待太阳升起之时,这将如何发生呢?"

1.24.15

एष लोकविनाशाय रविरुद्यन्तुमुद्यतः ।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति ॥ १.२४.१५ ॥

"这太阳正准备升起以毁灭诸世界,一经显现,他便将诸世界化为一堆灰烬。"

1.24.16

तस्य प्रतिविधानं च विहितं पूर्वमेव हि ।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः ॥ १.२४.१६ ॥

"对此的对治早已确定:迦叶波的智慧之子,以阿鲁那之名闻名者。"

1.24.17

महाकायो महातेजाः स स्थास्यति पुरो रवेः ।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति ॥ १.२४.१७ ॥

"他身躯庞大、光明伟大,将站在太阳之前,担任御者,并夺去太阳的光辉。"

1.24.18

लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् ।
प्रमतिरुवाच।
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः ॥ १.२४.१८ ॥

"愿诸世界、诸仙人与天界居民由此获得吉祥。"普拉玛提说。随后,依祖父之命,阿鲁那完成了这一切。

1.24.19

उदितश्चैव सविता ह्यरुणेन समावृतः ।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत् ॥ १.२४.१९ ॥

萨维特里升起,被阿鲁那所笼罩。这一切都已对你讲述,即愤怒如何进入太阳。

1.24.20

अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः ।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम् ॥ १.२४.२० ॥

正如主阿鲁那为他御车一样。现在请听另一个问题,即先前所提及的那一问。