Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.242

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.242.1

कुकुरान्धकवृष्णीनामपयानं च पाण्डवः ।
विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत् ॥ १.२४२.१ ॥

ククラ、アンダカ、ヴリシュニの出立を決めたのち、パーンドゥの子パールタは、スバドラーにこう言った。

1.242.2

शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम् ।
विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम् ॥ १.२४२.२ ॥

聡明なる者よ、聞け。聖典に従い、聖者たちは利益のために、ヴァルナの善人たちの間でダルマに適った結婚を多様な形で定めた。

1.242.3

कन्यायास्तु पिता भ्राता माता मातुल एव वा ।
पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः ॥ १.२४२.३ ॥

娘を与える権限は、父、兄、母、母方の叔父、あるいは父の父、父の兄弟に属する。

1.242.4

महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव ।
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः ॥ १.२४२.४ ॥

聡明なる者よ、お前の父はパシュパティの大祭を見たいと思い、息子や孫、親族とともに内なる島へ行かれた。

1.242.5

मम चैव विशालाक्षि विदेशस्था हि बान्धवाः ।
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः ॥ १.२४२.५ ॥

広き目の女よ、私の親族もまた異国に住んでいる。ゆえに、スバドラーよ、ガーンダルヴァ婚は第五のものと説かれている。

1.242.6

समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः ।
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा ॥ १.२४२.६ ॥

娘との結びつきには四種の儀式が説かれている。マーダヴィーよ、善き人々がそれをどう行うか聞け。

1.242.7

वरमाहूय विधिना पित्रा दत्ता तथार्थिने ।
सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता ॥ १.२४२.७ ॥

父が儀礼に従って花婿を招き、彼女を与えたとき、彼女は妻と呼ばれる。他の人々もそう呼び、彼女は夫に従順で貞淑な妻である。

1.242.8

भृत्यानां भरणार्थाय आत्मनः पोषणाय च ।
दाने गृहीता या नारी सा भार्येति स्मृता बुधैः ॥ १.२४२.८ ॥

施しとして受け取られた女性は、従者と自分自身を養うために迎えられ、賢者たちは彼女を妻(バーリヤー)と呼ぶ。

1.242.9

धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् ।
न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः ॥ १.२४२.९ ॥

法に従って花婿を選び、自宅に迎え、正しく若い盛りまで与えられた妻たちは、父によって取り決められたものと記憶される。

1.242.10

गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात् ।
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती ॥ १.२४२.१० ॥

ガーンダルヴァ婚によって、愛欲から、子を得る目的で、自ら恩寵を受けた女性は、従順で子に恵まれる。

1.242.11

जनयेद्या तु भर्तारं जाया इत्येव नामतः ।
पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः ॥ १.२४२.११ ॥

夫に子を産ませる女性は、名をジャーヤーと呼ばれる。パトニー、バーリヤー、ダーラー、ジャーヤーの四種類である。

1.242.12

चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः ।
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते ॥ १.२४२.१२ ॥

火を証人とし、儀礼を伴い、法に従って行われる婚姻は四種のみである。ガーンダルヴァ婚は儀礼がなく、ただ愛欲から生じる。

1.242.13

सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ।
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया ॥ १.२४२.१३ ॥

望む女性が望む男性と、マントラなしに、密かに結ばれることは認められていると伝えられる。マーダヴィーよ、儀礼なしに私が述べたことも、あなたはなすべきである。

1.242.14

अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः ।
करणं च मुहूर्तं च लग्नसंपत्तथैव च ॥ १.२४२.१४ ॥

至点の道、月、季節、半月、太陰日、カラナ、吉時、そして同様に吉なる上昇宮も。

1.242.15

विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् ।
वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च ॥ १.२४२.१५ ॥

広き目の女よ、婚礼には北行(北至)が称賛され、月ではヴァイシャーカ、半月では白分が称えられる。

1.242.16

नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि ।
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा ॥ १.२४२.१६ ॥

月宿ではハスタ、太陰日でも第三日が勝れる。上昇宮ではマカラ(山羊)が最良で、カラナではバヴァも勝れる。

1.242.17

मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि ।
सर्वसंपदियं भद्रे अद्य रात्रौ भविष्यति ॥ १.२४२.१७ ॥

我らの吉なる儀式のために、結婚にふさわしいマイトラの時が来た。善き女よ、今夜このすべての繁栄が訪れるであろう。

1.242.18

भगवानस्तमभ्येति आदित्यस्तपतां वरः ।
रात्रौ विवाहकालोऽयं भविष्यति न संशयः ॥ १.२४२.१८ ॥

灼熱する者の中で最も尊いアーディティヤ神が沈みに向かっている。夜にはこれが婚礼の時となる。疑いはない。

1.242.19

नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत् ।
धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत् ॥ १.२४२.१९ ॥

全知にして世界の創造主であるナーラーヤナでさえ、義務の板挟みに陥った者を知ることはできないだろう。ならば何をすれば幸福になれるのか。

1.242.20

मनोभवेन कामेन मोहितं मां प्रलापिनम् ।
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि ॥ १.२४२.२० ॥

愛の神から生じた欲望に惑わされ、譫言を言う私に、女神マーダヴィーよ、なぜ答えてくれないのか。

1.242.21

अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् ।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ॥ १.२४२.२१ ॥

アルジュナの言葉を聞き、ジャナールダナ(クリシュナ)を思いながら、涙に曇った目で彼女は何も言わなかった。

1.242.22

रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः ।
चिन्तयामास पितरं प्रविश्य च लतागृहम् ॥ १.२४२.२२ ॥

勝者の中で最もすぐれたアルジュナは、情熱の狂気に譫言を言いながら、父を思い、蔓の東屋に入った。

1.242.23

चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः ।
सहितो नारदाद्यैश्च मुनिभिश्च महामनाः ॥ १.२४२.२३ ॥

クンティーの子が思い悩んでいると知り、シャチーの夫である大度のインドラは、ナーラダら聖者たちとともに現れた。

1.242.24

गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः ।
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम् ॥ १.२४२.२४ ॥

ガンダルヴァ、アプサラス、チャーラナ、グヒヤカたちとともに、またアルンダティーとヴァシシュタとともに、彼はクシャスターリーに到着した。

1.242.25

चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः ।
निद्रयापहृतज्ञानं रौहिणेयं विना तदा ॥ १.२४२.२५ ॥

スバドラーの思いを思案したジャナールダナは、その時、眠りに意識を奪われたラウヒネーヤ(バララーマ)を除いて。

1.242.26

सहाक्रूरेण शिनिना सत्यकेन गदेन च ।
वसुदेवेन देवक्या आहूकेन च धीमता ॥ १.२४२.२६ ॥

アクルーラ、シニ、サティヤカ、ガダ、ヴァスデーヴァ、デーヴァキーと賢いアフカとともに。

1.242.27

आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः ।
पूजयित्वा तु देवेशो नारदादीन्महायशाः ॥ १.२४२.२७ ॥

夜、親族に囲まれてドヴァーラカー市に到着し、神々の主は、大いなる名声のナーラダらを敬った。

1.242.28

कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः ।
वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान् ॥ १.२४२.२८ ॥

安否を尋ねた後、神々の主インドラに請われ、クリシュナは婚礼の儀式について「そうしよう」と言った。

1.242.29

आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः ।
अभिप्रणम्य शिरसा पाकशासनमब्रुवन्।
देवदेव नमस्तेस्तु लोकनाथ जगत्पते ॥ १.२४२.२९ ॥

アーフカ、ヴァスデーヴァ、アクルーラ、サーティヤキは頭を垂れ、パカを罰する者インドラに言った。「神々の神よ、あなたに礼拝あれ。世界の主、宇宙の主よ。」

1.242.30

वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो ।
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् ॥ १.२४२.३० ॥

主よ、私たちは親族と共にいることで幸いです。あなたの言葉によって恩寵を受けました、全てを征服する者よ。

1.242.31

एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः ।
महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा ॥ १.२४२.३१ ॥

このように語り、彼をなだめ、丁重に敬ってから、そのとき、マヘーンドラの命によって、すべての人々が聖仙たちとともに。

1.242.32

विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः ।
अरुन्धती शची देवी रुग्मिणी देवकी तथा ॥ १.२४२.३२ ॥

インドラの息子の結婚を聖典に従って執り行わせた。女神アルンダティー、シャチー、ルクミニー、デーヴァキーも。

1.242.33

दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः ।
अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन् ॥ १.२४२.३३ ॥

天界の女性たちとともに、スバドラーの吉祥の儀式を執り行い、同様にアルジュナのためにもすべての吉祥の儀式を行わせた。

1.242.34

महर्षिः काश्यपो होता सदस्या नारदादयः ।
पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने ॥ १.२४२.३४ ॥

偉大な聖仙カーシュヤパがホーター(祭官)、ナーラダら が参列者であり、皆がアルジュナに功徳ある祝福を唱えた。

1.242.35

अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम् ।
लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः ॥ १.२४२.३५ ॥

そのとき偉大なインドラがパーカシャーサニ(アルジュナ)の灌頂を行った。世界守護神らを伴い、すべての神々に讃えられながら。

1.242.36

किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः ।
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम् ॥ १.२४२.३६ ॥

冠、腕輪、首飾などと、手の飾りや耳環で、パールタ(アルジュナ)を飾り立てると、そのときパールタはまるで第二のヴァーサヴァ(インドラ)のようであった。

1.242.37

पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः ।
शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा ॥ १.२४२.३७ ॥

息子を抱きしめたとき、プランダラは喜びを得た。そのとき女神シャチーも、バドラーやアルンダティーらとともに同様であった。

1.242.38

कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः ।
सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः ॥ १.२४२.३८ ॥

ヤーダヴァの女たちは結婚の吉祥の儀式を執り行わせた。アプサラスたちとともに喜び、自らの飾りで身を飾って。

1.242.39

पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः ।
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः ॥ १.२४२.३९ ॥

そこの女たちはスバドラーをパウローミー(シャチー)のように見なした。そして、あらゆる徳を備えた結婚式が盛大に執り行われた。

1.242.40

तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम् ।
सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः ॥ १.२४२.४० ॥

彼女の手を取り、呪文とともに、ホーマ(護摩)を先立てて。勝利者(アルジュナ)はスバドラーとともに輝いた。シャチーの夫(インドラ)がシャチーとともに輝くように。

1.242.41

सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना ।
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा ॥ १.२४२.४१ ॥

その美しい容姿のスバドラーは、ジシュヌ(アルジュナ)に深く心を寄せた。吉祥なるスバドラーは、容姿も年齢もパールタ(アルジュナ)に等しかった。

1.242.42

सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः ।
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः ॥ १.२४२.४२ ॥

またパールタもスバドラーと姿かたちにおいて等しかった。こうして、インドラを先頭とする喜べる神々はそう言った。

1.242.43

एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः ।
आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम् ॥ १.२४२.४३ ॥

こうして神々はガンダルヴァやアプサラスの群れとともに事を整え、すべてのヤーダヴァに別れを告げて、来たときのままに去っていった。

1.242.44

यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा ।
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः ॥ १.२४२.४४ ॥

ヤーダヴァたちはパールタに別れを告げ、そのとき内なる島へ去った。そのとき、ヤドゥの喜びであるヴァーストデーヴァがパールタに語った。

1.242.45

द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ ।
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम् ॥ १.२४२.४५ ॥

バーラタの牡牛パールタよ、ここに二十二日間滞在せよ。そしてシャイブヤとスグリーヴァの繋がれた私の戦車に乗れ。

1.242.46

सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश ।
यादवैः सहितः पश्चादागमिष्यामि भारत।
यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे ॥ १.२४२.४६ ॥

パールタよ、スバドラーと共に喜んでカーンダヴァプラスタへ入れ。バーラタよ、私は後からヤーダヴァたちと共に来よう。汝は苦行者の姿で自制し、ルクミニーの館に住め。

1.242.47

एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः ।
कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा ॥ १.२४२.४७ ॥

こう言ってジャナールダナは内なる島へ去った。そのとき、結婚を成し遂げたパールタは目的を果たした。

1.242.48

तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः ।
तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत ॥ १.२४२.४८ ॥

彼女に対して偉大な魂のパールタの愛情が生じ、彼に対してスバドラーの愛情も互いに育っていった。

1.242.49

स तथा युयुजे वीरो भद्रया भरतर्षभः ।
अभिनिष्पन्नया रामः सीतयेव समन्वितः ॥ १.२४२.४९ ॥

このように英雄、バラタ族の牡牛は、完成したシーターと結ばれたラーマのように、バドラーと結ばれた。

1.242.50

अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम् ।
देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम् ॥ १.२४२.५० ॥

勝者アルジュナは、彼女の慎み、輝き、優雅な振る舞いを認めた。その貞淑な女性は美しさにおいて天上の最高の女性たちに等しかった。

1.242.51

स प्रकृत्या श्रिया दीप्त्या संदिदीपे तयाऽधिकम् ।
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः ॥ १.२४२.५१ ॥

生まれながらの資質、輝き、光彩によって、彼は彼女のゆえにいっそう輝いた。秋に千の光線を放って昇る太陽のように。

1.242.52

सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी ।
कन्यापुरगता भूत्वा तत्परा समपद्यत ॥ १.२४२.५२ ॥

その名高い女性は、人の中の虎に心を寄せ、乙女たちの奥の間へ行き、ひたすら彼に心を向けた。