Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.244

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.244.1

शासनात्पुरुषेन्द्रस्य बलेन महता बली ।
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः ॥ १.२४४.१ ॥

奉人主之命,率大军的强大的毗普利图什罗婆斯常驻于莱瓦塔卡山。

1.244.2

प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः ।
संबभूव तदा गोप्ता पुरस्य पुरवर्धनः ॥ १.२४४.२ ॥

在婆苏提婆远行之时,他如持犁者一般,成为城市的守护者与城市的兴盛者。

1.244.3

प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः ।
निशम्य पुरनिर्घोषं स्वमनीकमचोदयत् ॥ १.२४४.३ ॥

闻知般度五子离去,毗普利图什罗婆斯便出发;听到城中喧嚣,他便驱使自己的军队前进。

1.244.4

सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् ।
निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात् ॥ १.२४४.४ ॥

于是他疾驰上前,在路上看见那人中之牛从多瓦拉卡的城门走出,犹如太阳从天空升起。

1.244.5

सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम् ।
पार्थमानर्तयोधानां विस्मयः समपद्यत ॥ १.२४४.५ ॥

众阿那尔多战士望着那持弓的普利塔,犹如带闪电的云,心中生出惊叹。

1.244.6

उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत् ।
उवाच परमप्रीता सुभद्रा भद्रभाषिणी ॥ १.२४४.६ ॥

看见那战车、象兵、马队腾起的大军,甚为欢喜的、言辞吉祥的苏跋陀罗便说道:

1.244.7

संग्रहीतुमभिप्रायो दीर्घकालकृतो मम ।
युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ ॥ १.२४४.७ ॥

我长久以来一直有意在你于战场上作战时夺取你的战车,人中雄牛啊。

1.244.8

ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः ।
पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम् ॥ १.२४४.८ ॥

啊,普利他之子,我已受训成为你的御者,你这具有活力、光辉、光彩与力量的大智者。

1.244.9

एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः ।
चोदयाश्वानसंसक्तान्विश्तु विपृथोर्बलम् ॥ १.२४४.९ ॥

她如此说后,人中最好的那位欢喜地回答他的爱人:“毫无阻碍地驱策马匹,进入毗普利图的大军吧。”

1.244.10

बहुभिर्युध्यमानस्य तावकान्विजिघांसतः ।
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम ॥ १.२४४.१० ॥

吉祥的女子啊,看我的臂力吧——我与众多敌人作战,想要杀戮你的人,不断射出箭矢。

1.244.11

एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ ।
चुचोद साश्वान्संहृष्टा ते ततो विविशुर्बलम् ॥ १.२४४.११ ॥

普利他之子如此吩咐,婆罗多族的雄牛啊,婆陀罗欢喜地驱策马匹,于是他们进入了军队。

1.244.12

तदाहतमहावाद्यं समुदग्रध्वजायुतम् ।
अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत ॥ १.२४४.१२ ॥

大鼓齐鸣,毗普利图那欢喜的大军,满布数千高扬的旗帜,只紧随普利他之子而行。

1.244.13

रथैर्बहुविधाकारैः सदश्वैश्च महाजवैः ।
किरन्तः शरवर्षाणि परिवव्रुर्धनञ्जयम् ॥ १.२४४.१३ ॥

众人以形状各异的战车和速度极快的良马,倾泻箭雨,将达难闍耶团团围住。

1.244.14

तेषामस्त्राणि संवार्य दिव्यास्त्रेण महास्त्रवित् ।
आवृणोन्महदाकाशं शरैः परपुरञ्जयः ॥ १.२४४.१४ ॥

这位精通大兵器、征服敌城的勇士,以神兵化解了他们的兵器,并以箭矢遮蔽了广阔的天空。

1.244.15

तेषां बाणान्महाबाहुर्मुकुटान्यङ्गदानि च ।
चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च ॥ १.२४४.१५ ॥

这位大臂勇士以锐利的箭矢斩断了他们的箭、冠冕、臂钏、箭杆和弓。

1.244.16

युगानीषान्वरूथानि यन्त्राणि विविधानि च ।
अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः ॥ १.२४४.१६ ॥

Pārtha不愿杀死敌人,以锐利的箭矢斩断了他们的轭、辕杆、战车的遮蔽物以及各种器械。

1.244.17

विधनुष्कान्विकवचान्विरथांश्च महारथान् ।
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत् ॥ १.२४४.१७ ॥

Pārtha使大战车武士们失去弓、甲与战车,满心欢喜地对心爱之人说:“看吧”,并将此展示给她看。

1.244.18

सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत् ।
अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम् ॥ १.२४४.१८ ॥

苏跋陀罗见到这大奇迹,对Pārtha说:“我的心愿已经达成。愿你吉祥,Pārtha,随你心意前去吧。”

1.244.19

स सक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम् ।
त्वरमाणोऽभिसंक्रम्य स्थीयतामित्यभाषत ॥ १.२४४.१९ ॥

他看到与般度之子联合的军队,急忙上前说道:「站住!」

1.244.20

ततः सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः ।
सागरे मारुतोद्धूता वेलामिव महोर्मयः ॥ १.२४४.२० ॥

于是耶达瓦人没有违背统帅的话,正如海中被风掀起的巨浪不越过海岸。

1.244.21

ततो रथवरात्तूर्णमवरुह्य नरर्षभः ।
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे ॥ १.२४४.२१ ॥

于是人中雄牛(阿周那)迅速从上好的战车上下来,走近人中猛虎,欢喜地拥抱了他。

1.244.22

सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव ।
निवासमभिजानामि शङ्खचक्रगदाधरात् ॥ १.२४४.२२ ॥

他走近般度之子说道:「我知道,这里长久以来是你的居所,那持螺、轮、杵之人所在之处。」

1.244.23

न मेऽस्त्यविदितं किंचिद्यद्यदाचितं त्वया ।
सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः ॥ १.२४४.२३ ॥

你为了苏跋陀罗所求的一切,我都不曾不知;因那诱惑,遮那陀那对你十分满意。

1.244.24

प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय ।
बन्धुमानसि रामेण महेन्द्रावरजेन च ॥ १.२४४.२४ ॥

哇,财富征服者啊,你以苦行者之形来此居住,你是罗摩以及因陀罗的幼弟(黑天)的亲属。

1.244.25

मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः ।
अन्तरेण सुभद्रां च त्वां च तात धनञ्जय ॥ १.२४४.२५ ॥

摩图苏陀那始终只愿我作他的谋臣,除了苏跋陀罗和你之外,亲爱的达南遮耶。

1.244.26

इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् ।
इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः ॥ १.२४४.२६ ॥

指着这辆装备齐全的殊胜神车和这些随从,伽达的长兄(说道)。

1.244.27

अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः ।
दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह ॥ १.२४४.२७ ॥

英雄啊,当时给予毗瑟尼族欢乐的那位前往内岛;久被阻留的你与所爱之人一同到来。

1.244.28

पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः ।
आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि ॥ १.२४४.२८ ॥

当持沙尔加弓的达舍尔哈族之雄者到来时,愿众兄弟都如诸天望着持金刚者一般望他。

1.244.29

भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च ।
अरिष्टं याहि पन्थानं सुखी भव धनञ्जय ॥ १.२४४.२९ ॥

珠宝与财富也将随着跋陀罗而行。达南遮耶啊,走吉祥之路,愿你安乐。

1.244.30

नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते ॥ १.२४४.३० ॥

愿你这无忧之人,与已消除忧愁的朋友们相聚。

1.244.31

ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च ।
कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः ॥ १.२४४.३१ ॥

随后,阿周那向毗陀图告别并恭敬行礼,心中欢喜,听从黑天的意见,登上了黑天的战车。

1.244.32

पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम् ।
सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम् ॥ १.२४४.३२ ॥

此前,黑天就已为阿周那安排好一辆车,满载各种宝石,备齐一切享乐之物。

1.244.33

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ १.२४४.३३ ॥

乘坐以黄金装饰、依法准备的战车,由名为沙弥与须羯哩婆的马驾驭,饰以叮当铃网的花环。

1.244.34

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।
ज्वलनार्चिःप्रकाशेन द्विषतां हर्षनाशिना ॥ १.२४४.३४ ॥

战车备有一切兵器,声如雷鸣的乌云,光辉如火焰,能摧毁敌人的欢喜。

1.244.35

सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
युक्तः सेनानुयात्रेण रथणारोप्य माधवीम्।
रथेनाकाशगेनैव पययौ स्वपुरं प्रति ॥ १.२४४.३५ ॥

他身披甲胄,手持利剑,缚好皮革护臂与指套,军队随行,让摩陀毗(苏跋陀罗)登上战车,便乘这辆飞行于空中的战车向自己的城市进发。

1.244.36

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः ।
विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम् ॥ १.२४४.३६ ॥

众兵士与百姓看见苏跋陀罗被劫走,纷纷大声呼喊,从四面八方向杜瓦拉卡城奔去。

1.244.37

ते समासाद्य सहिताः सुधर्मामभितः सभाम् ।
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥ १.२४४.३७ ॥

他们一同来到苏达尔玛议事厅周围,把阿周那(Pārtha)的全部英勇事迹告诉了厅堂守卫。

1.244.38

तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः ।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥ १.२४४.३८ ॥

听了他们的话,厅堂守卫便敲响了召集战备的鼓,那鼓声宏大,以赡部那提金装饰。

1.244.39

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा ।
अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा।
अन्नपानमपास्याथ समापेतुः समन्ततः ॥ १.२४४.३९ ॥

被那声音所惊动,博闍、伐栗始尼与安陀迦人便从内岛一同骤然起身,放下饮食,从四面八方聚集而来。

1.244.40

तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च ।
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥ १.२४४.४० ॥

那里有赡部那提金制成的座椅,铺着华美的坐垫,镶嵌着宝石与珊瑚,光彩如燃烧的火焰。

1.244.41

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥ १.२४४.४१ ॥

人中虎豹般的伐栗始尼与安陀迦大车战士们,坐上了数百张宝座,犹如祭坛上的祭火。

1.244.42

तेषां समुपविष्टानां देवानामिव सन्नये ।
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥ १.२४४.४२ ॥

在众人如诸神议会般就座之时,厅堂守卫与属下一同向他们讲述了胜者(阿周那)的所作所为。

1.244.43

तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः ।
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥ १.२४४.४३ ॥

众维史尼英雄听后,醉眼通红,不能容忍普利塔之子,傲气十足地跳了起来。

1.244.44

योजयध्वं रथानाशु प्रासानाहरतेति च ।
धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ १.२४४.४४ ॥

说:“快备战车,取来长矛”,并取来珍贵的弓和大铠甲。

1.244.45

सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च ।
स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान् ॥ १.२४४.४५ ॥

有人向御者大喊:“备好战车!”有人自己套上了饰以黄金的良马。

1.244.46

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च ।
अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत् ॥ १.२४४.४६ ॥

战车、铠甲与旗帜被纷纷牵来时,英雄们的喧嚣中一片巨大的骚动。

1.244.47

वनमाली ततः क्षीबः कैलासशिखरोपमः ।
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥ १.२४४.४७ ॥

于是,身戴野花花环、醉意朦胧、如同凯拉萨峰、身着蓝衣、因醉意而膨胀的(巴拉罗摩)说出了这些话。

1.244.48

किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने ।
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः ॥ १.२४४.४८ ॥

“愚昧的人们!当Janārdana沉默时,你们这是在做什么?不知他的心意,愤怒地徒然咆哮!”

1.244.49

एष तावदभिप्रायमाख्यातु स्वं महामतिः ।
यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥ १.२४४.४९ ॥

请这位大智者先说出他自己的意见;凡是他所喜欢的,你们都要毫不懈怠地去做。

1.244.50

ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् ।
तूष्णींभूतास्ततः सर्वे साधुसाध्विति चाब्रुवन् ॥ १.२४४.५० ॥

于是众人听了持犁者(大力)那可以接受的话,都沉默下来,说道:“说得好,说得好。”

1.244.51

समं वचो निशम्यैव बलदेवस्य धीमतः ।
पुनरेवसभामध्ये सर्वे ते समुपाविशन् ॥ १.२४४.५१ ॥

众人一致听了智者大力(Balarāma)的话,又都回到大会堂的中央坐下。

1.244.52

ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः ।
त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत्।
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥ १.२४४.५२ ॥

于是能令敌人痛苦的罗摩(大力)对婆苏提婆(Vāsudeva)说道:“三界之主啊,克里希那,过去、现在、未来的创造者,遮那陀那啊,你为何低头坐着,只是旁观?”

1.244.53

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ १.२४४.५३ ॥

阿周那阿修多(Acyuta),因为你,我们都尊敬了普利塔之子(阿周那);然而那个心术不正、玷污家族的人,不配受此尊敬。

1.244.54

को हि तत्रैव भुक्तावान्नं भाजनं भेत्तुमर्हति ।
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥ १.२४४.५४ ॥

哪个人在那个器皿中进食之后,还会认为自己出身高贵而有资格打破它呢?

1.244.55

इच्छन्नेव हि संबन्धं कृतं पूर्वं च मानयन् ।
को हि नाम भवेनार्थी साहसेन समाचरेत् ॥ १.२४४.५५ ॥

谁希望结盟并尊重先前所立的盟约,作为有所求之人,会鲁莽行事呢?

1.244.56

सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम् ।
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥ १.२४४.५६ ॥

他侮辱了我们,又轻视了克舍瓦,今天竟强行劫走了苏跋德拉,自招死亡。

1.244.57

कथं हि शिरसो मध्ये कृतं तेन पदं मम ।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥ १.२४४.५७ ॥

他怎能把脚踩在我的头顶中央?哥文达啊,我怎能忍受?正如蛇不能忍受脚的触碰。

1.244.58

अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् ।
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥ १.२४४.५८ ॥

今日我独自将使大地没有俱卢族人;阿周那所受的这一冒犯,我不能忍受。

1.244.59

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् ।
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ १.२४४.५९ ॥

当他咆哮如云中鼓鸣之时,博乔、毗湿尼与安陀迦众人都随他而去。