摩诃婆罗多 · 章 1.246
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.246.1
क्रोशणात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम् ।
तत्रापि यात्वा बीभत्सुर्निविष्टो यदुकन्यया ॥ १.२४६.१ ॥
城外一俱卢舍处,有普利塔之子美丽的牧场。毗跋蹉亦前往那里,与尊族少女同住。
1.246.2
ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत् ।
गोपिकानां तु वेषेण गच्छ त्वं वृजिनं पुरम् ॥ १.२४६.२ ॥
于是普利塔致敬苏跋陀罗,说道:“你应以牧女之装前往那曲折之城。”
1.246.3
कामव्याहारिणी कृष्णा रोचतां ते वचो मम ।
दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मयागताम् ॥ १.२४६.३ ॥
“随意言谈的黑天女啊,愿你喜欢我这番话。她见你与我同来,或许会说出严厉的话。”
1.246.4
अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् ।
यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम् ॥ १.२४६.४ ॥
“你以他装前往,她见了或许会对你说好话。但她先说出的话,是无法收回的。”
1.246.5
तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज ।
तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत ॥ १.२४६.५ ॥
“因此,舍弃骄傲与傲慢,你自己去吧。”苏跋陀罗听到他这番话,便回答道。
1.246.6
एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे ।
सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः ॥ १.२४६.६ ॥
“正如你所说,普利塔啊,我就这样做。”苏跋陀罗的这番话让因陀罗之子非常欢喜。
1.246.7
गोपालान्स समानीय त्वरितो वाक्यमब्रवीत् ।
तरुम्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः ॥ १.२४६.७ ॥
他召集牧人们,急忙说道:“牧村中所有的女子,凡是有的,都……
1.246.8
आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः ।
इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् ॥ १.२४६.८ ॥
“愿与跋陀罗同行者前来,相聚前往优良的因陀罗普拉斯塔城,去见荣耀的黑公主。”
1.246.9
एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः ।
ततस्ताभिः परिवृतां व्रजस्त्रीभिः समन्ततः ॥ १.२४६.९ ॥
牧人们听闻此言,便带来了牧村的女子们。然后,被这些牧村女子从四面环绕的苏跋陀罗……
1.246.10
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम् ।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥ १.२४६.१० ॥
般度之子急忙派遣身着红丝绸的苏跋陀罗,而他自己化作牧女之身(同行)。
1.246.11
साऽधिकं तेन रूपेण शोभमाना यशस्विनी ।
गोपालिकामध्यगता प्रययौ वृजिनं पुरम् ॥ १.२४६.११ ॥
那位荣耀者以那副形貌更加光彩照人,夹在牧女之中,前往那难行的城市。
1.246.12
त्वरिता खाण्डवप्रस्थमाससाद विवेश च ।
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥ १.२४६.१२ ॥
她急速抵达犍陀婆普罗斯塔并入内;到达那座上好的宫殿后,这位英雄之妻、优秀的女子进去了。
1.246.13
ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम् ।
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि ॥ १.२४६.१३ ॥
眼睛宽大泛红的跋陀罗向她的姑母普利塔行礼;昆提亲吻了那位肢体美好者的头顶。
1.246.14
प्रीत्या परमया युक्ता आशीर्भिर्युञ्जताऽतुलाम् ।
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ॥ १.२४६.१४ ॥
怀着至上的爱意,赐予无比的祝福,面如满月的她迅速走近。
1.246.15
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत् ।
प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च ॥ १.२४६.१५ ॥
跋陀罗向德罗波蒂行礼,说道:“我是您的侍女。”那时,克利什那起身,扶起了摩陀婆的妹妹。
1.246.16
परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः ।
वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा ॥ १.२४६.१६ ॥
她拥抱着她,怀着爱意说道:“愿你的丈夫没有对手。善良的人啊,你要成为英雄之母,也要成为丈夫所爱之人。”
1.246.17
ओजसा निर्मिता बह्वीरुवाच परमाशिषः ।
तथैव मुदिता भद्रा तामुवाच तथास्त्विति ॥ १.२४६.१७ ॥
她以力量说出许多至上的祝福;同样,欢喜的跋陀罗对她说:“愿如此。”
1.246.18
ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम् ।
अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च ॥ १.२४६.१८ ॥
随后,婆利修尼族的女子拥抱了面容美好的苏跋陀罗,欢喜地让她坐在膝上,并赞美了婆苏提婆。
1.246.19
ततः किलकिलाशब्दः क्षणेन समपद्यत ।
हर्षादानर्तयोधानामासाद्य वृजिनं पुरम् ॥ १.२४६.१९ ॥
于是霎时间,阿难陀武士们欢呼的喧声响起,他们抵达了曲折的城市。
1.246.20
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः ।
पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः ॥ १.२४६.२० ॥
他们光彩如天神之子,持金色旗帜,从后跟随般若,犹如众神跟随因陀罗。
1.246.21
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः ।
ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम् ॥ १.२४६.२१ ॥
许多人看见达沙尔哈城居民的那些上好车辆,由牛、骆驼和良马驾驭。
1.246.22
ततः पुरवरे यूनां पुंसां वाच उदीरिताः ।
अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः ॥ १.२४६.२२ ॥
于是在这座美好的城中,四面八方都听见年轻人高声议论阿周那归来之事。
1.246.23
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम् ।
सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः। ॥ १.२४६.२३ ॥
他看见从远行归来的般若,如同看见自己的亲属,那位人中之杰被百位达沙尔哈人围绕着走近他。
1.246.24
पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः ।
प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः ॥ १.२४६.२४ ॥
受到美好城中居民无比的热情欢迎,到达内宫之门后,那位人中雄牛(阿周那)下车了。
1.246.25
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः ।
स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः ॥ १.२४६.२५ ॥
财富征服者走到陀摩面前向他行礼,也向母亲行礼。随后,财富征服者触碰了国王和怖军的双足。
1.246.26
यमाभ्यां वन्दितो हृष्टः सस्वजे तौ ननन्द च ।
ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह सङ्गतः ॥ १.२४६.२६ ॥
受到阎摩两子恭敬致礼,他欢喜地拥抱了他们并感到快乐。随后,他与兄弟们会合,与以婆罗门为首的所有人相见。
1.246.27
यथार्हं मानयामास पौरजानपदानपि ।
तत्रस्थान्यनुयातानि तीर्थान्यायतनानि च ॥ १.२४६.२७ ॥
他也按其应得而尊敬城镇居民和乡间百姓;对留在那里的人、随行而来的人,以及圣渡口和神庙,也都如此。
1.246.28
निवेदयामास तदा राज्ञे सर्वं स्वनुष्ठितम् ।
भ्रातृभ्यश्चैव सर्वेभ्यः कथयामास भारत ॥ १.२४६.२८ ॥
于是他向国王禀报了自己所完成的一切;婆罗多啊,他也把这一切告诉了所有的兄弟。
1.246.29
श्रुत्वा सर्वं महाप्राज्ञो धर्मराजो युधिष्ठिरः ।
पुरस्तादेव तेषां तु पूजयामास चार्जुनम् ॥ १.२४६.२९ ॥
听完这一切,大智慧的法王坚战就在他们面前尊敬了阿周那。
1.246.30
पाण्डवेन यथार्हं तु पूजार्हेण सुपूजितः ।
न्यविशच्चाभ्यनुज्ञातो राज्ञा तुष्टो यशस्विना ॥ १.२४६.३० ॥
被般度之子按其应得而恭敬,他受到尊敬,得到名声显赫的国王的允许,满心欢喜地进入了内室。
1.246.31
तामदीनां सुपूजार्हां सुभद्रां प्रीतिवर्धिनीम् ।
साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम् ॥ १.२४६.३१ ॥
般度之子视这位无忧、极受敬重、增益爱意的苏跋陀罗为吉祥天女本尊,她是黑天的胞妹。
1.246.32
गुरूणां श्वशुराणां च देवराणां तथैव च ।
सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ॥ १.२४६.३२ ॥
苏跋陀罗以自己的德行,深受长辈、公公与小叔们的珍爱。
1.246.33
ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।
कुन्ती च परमप्रीता कृष्णा च सततं तथा ॥ १.२४६.३३ ॥
于是心怀欢喜的大车勇士般度诸子,极为欢悦的昆提,以及黑公主,也始终如此。