Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.247

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.247.1

अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे ।
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः ॥ १.२४७.१ ॥

当伐由尼族的盛大节庆结束时,手持海螺、轮盘与铁杵的那位(克里希那)听说阿周那劫走了跋陀罗。

1.247.2

पुरस्तादेव पौराणां संशयः समजायत ।
जानता वासुदेवेन वासितो भरतर्षभः ॥ १.२४७.२ ॥

城中百姓此前便已生出疑虑;婆苏提婆知晓此事,便任由婆罗多族之雄(阿周那)停留在那一念之中。

1.247.3

लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा ।
सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः ॥ १.२४७.३ ॥

此事世人早已知晓,如往昔的毗噜图;他安抚了(大力罗摩)并得到许可,便与跋陀罗结合。

1.247.4

दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना ।
अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम् ॥ १.२४७.४ ॥

以最好的鸟类迦楼罗为旗帜的(克里希那),想把妹妹嫁给配得上的诸王之主般度子(阿周那),便将这位大眼睛的(跋陀罗)许配给了他。

1.247.5

सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम् ।
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम् ॥ १.२४७.५ ॥

他敬重般度族之最(阿周那)后将其送走;与跋陀罗同行的毗跋蛇(阿周那)被送往伐栗底城。

1.247.6

इति पौरजनाः सर्वे वदन्ति च समन्ततः ।
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् ॥ १.२४७.६ ॥

城中百姓四处议论纷纷;而莲花眼者(克里希那)听闻那人已抵达他那座殊胜之城后,

1.247.7

अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा ।
यियासुः खाण्डवप्रस्थममन्त्रयत केशवः ॥ १.२४७.७ ॥

克舍婆想前往康达瓦普拉斯塔,便对住在因陀罗普拉斯塔的般度诸子中最优秀的阿周那说道。

1.247.8

पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः ।
तथा विपृथुमक्रूरं संकर्षणविडूरथौ ॥ १.२४७.८ ॥

摩图苏陀那先礼敬国王阿呼迦,又同样礼敬毗普利图、阿克鲁罗、桑卡沙那和毗度罗陀。

1.247.9

मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः ।
संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः ॥ १.२४७.९ ॥

他与那些先前受尊敬的人商议;与桑卡沙那商议并获得许可后,这位宏大心胸者……

1.247.10

संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः ।
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् ॥ १.२४७.१० ॥

受到毗瑞尼王的喜悦与嘉许,经他对话并获准告辞后,阇那陀那整顿了军队。

1.247.11

ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम् ।
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत ॥ १.२४७.११ ॥

随后,抵达名声显赫的达沙尔哈们的战车旁,欢欣者的狮吼顷刻间响起。

1.247.12

योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा ।
गजांश्च परमप्रीतः समपद्यन्त वृष्णयः ॥ १.२४७.१२ ॥

套上良马、车轭、战车和象群,极为欢喜的毗瑞尼人便各自忙碌起来。

1.247.13

वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ।
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ॥ १.२४७.१३ ॥

被毗溪尼和安陀迦的大臣、英勇的大车战士、兄弟、王子以及数百名武士所环绕。

1.247.14

सैन्येन महता शौरिरभिगुप्तः समन्ततः ।
तत्र दानपतिः श्रीमाञ्जगाम स महायशाः ॥ १.२४७.१४ ॥

Śauri在大军四面护卫下前往那里——那位光辉的施舍之主、大名远扬者。

1.247.15

अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः ।
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ॥ १.२४७.१५ ॥

毗溪尼英雄的统帅、降伏敌人者阿克鲁罗;大光辉的阿那德利施提;以及大名远扬的乌达瓦。

1.247.16

साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः ।
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ॥ १.२४७.१६ ॥

亲承伽利普提(Bṛhaspati)门下的弟子,大智大慧、胸怀宽广者:萨蒂耶迦、萨蒂耶基,以及萨特瓦塔的克利塔瓦尔曼。

1.247.17

प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च ।
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ॥ १.२४७.१७ ॥

普拉迪优姆那与桑巴,尼尚古与尚古,勇猛的恰鲁德沙那,吉利与毗普利图。

1.247.18

सारणश्च महाबाहुर्गदश्च विदुषां वरः ।
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ॥ १.२४७.१८ ॥

大臂的萨拉那与最有学问的伽达;这些人以及众多毗溪尼、薄阁与安陀迦之人。

1.247.19

आजग्मः खाण्डवप्रस्थमादाय हरणं बहु ।
उपहारं समादाय पृथुवृष्णिपुरोगमाः ॥ १.२४७.१९ ॥

他们带着许多礼物来到堪陀婆普罗斯塔,由伟大的毗湿尼族人领头,携带供品。

1.247.20

प्रययुः सिंहनादेन सुभध्रामवलोककाः ।
ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः।
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन् ॥ १.२४७.२० ॥

他们怀着想见苏跋陀罗的心情,发出狮子般的吼声前行;不久,耶达瓦人与克里希那一同抵达城中,般度之子们获得了极大的喜悦。

1.247.21

ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम् ।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥ १.२४७.२१ ॥

于是坚战听闻摩陀婆(克里希那)已到,便立即派遣那对孪生兄弟前去迎接克里希那。

1.247.22

ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत् ।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥ १.२४७.२२ ॥

在他们二人的迎接下,那富庶的毗湿尼族大队进入了装饰着旗幡的堪陀婆普罗斯塔。

1.247.23

संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम् ।
चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम् ॥ १.२४७.२३ ॥

道路已扫净洒水,装饰着成堆的鲜花,充满清凉的檀香汁液和圣洁的芬芳。

1.247.24

दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना ।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥ १.२४७.२४ ॥

每个地方都焚烧着芬芳的沉香,充满欢乐而富足的人群,并由商人装点。

1.247.25

प्रतिपेदे महाबाहुः सह रामेण केशवः ।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः ॥ १.२४७.२५ ॥

大臂的刻舍婆与罗摩同行,与韦利尼、安陀迦和跋阇相会,这位人中之尊前行。

1.247.26

संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥ १.२४७.२६ ॥

受到市民和千百名婆罗门的敬礼,他进入了国王的宫殿,那宫殿如同因陀罗(补兰陀罗)的居所。

1.247.27

युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे ॥ १.२४७.२७ ॥

坚战依礼与罗摩相见,嗅过刻舍婆的头,以双臂拥抱了他。

1.247.28

तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन् ।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥ १.२४७.२८ ॥

欢喜的哥文达以谦恭回敬他,并依礼尊敬人中之虎婆罗摩。

1.247.29

तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः ।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम् ॥ १.२४७.२९ ॥

贡蒂之子坚战依礼以尊敬接待这些韦利尼与安陀迦中的上首,一如他们前来时的样子。

1.247.30

गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥ १.२४७.३० ॥

他以对待长辈之礼敬重一些人,以对待朋友之礼敬重另一些人;对一些人满怀深情地说话,也有人向他行礼致意。

1.247.31

ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह ।
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः ॥ १.२४७.३१ ॥

于是普利塔与般度之子同克利须那一起欢喜,走近莲眼者,身心俱喜。

1.247.32

हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ ।
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत ॥ १.२४७.३२ ॥

普利塔见桑卡尔沙那与阇那尔达那欢喜而来,便认为般度之子坚战有了亲族。

1.247.33

ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत् ।
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः ॥ १.२४७.३३ ॥

于是无量的桑卡尔沙那与阿克鲁罗毫不吝惜,为跋德罗婆提与苏跋陀罗献上堆积如山的财富。

1.247.34

प्रवालानि च हाराणि भूषणानि सहस्रशः ।
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान् ॥ १.२४७.३४ ॥

珊瑚与项链,成千上万的饰物,覆盖物与铺垫,以虎皮装饰的毯子。

1.247.35

विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत ।
शयनासनयानैश्च युधिष्ठिरनिवेशनम् ॥ १.२४७.३५ ॥

各色宝石堆积如山,床榻、座椅与车乘齐备,坚战的宫室光辉照耀。

1.247.36

ततः प्रीतिकरो यूनां विवाहपरमोत्सवः ।
भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत ॥ १.२४७.३६ ॥

此后,令年轻人欢喜的婚礼大典为跋德罗婆提与苏跋陀罗持续了七夜。

1.247.37

तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम् ।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥ १.२४७.३७ ॥

鬚鬚支(Hṛṣīkeśa)为迎亲队伍给了他们上等的财富;苏跋陀罗的劫夺应由宗亲施行——那位大名者(安排了此事)。

1.247.38

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः ॥ १.२४७.३८ ॥

车身饰以金框、缀有铃铛网的车辆,驾以四马,配有训练精良的御者。

1.247.39

सहस्रं प्रददौ कृष्मो गवामयुतमेव च ।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ॥ १.२४७.३९ ॥

克里希那赠予一千头,又赠一万头——来自摩偷罗国的挤奶母牛,具纯净光辉,由这位尊荣者所赠。

1.247.40

बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम् ॥ १.२४७.४० ॥

纯种母马,光辉与月光相等——阇那陀那满怀爱意地赠予一千匹,以金饰装饰。

1.247.41

तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।
शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च ॥ १.२४७.४१ ॥

同样,有数百匹驯服的母骡,疾如风,鬃毛黑如眼膏;白色的则每五匹一组,共五组。

1.247.42

स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम् ।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ १.२४७.४२ ॥

一千名女子,被安排于沐浴与饮宴的庆典,年轻、肤色白皙、衣着华美、光彩照人。

1.247.43

सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम् ।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥ १.२४७.४३ ॥

莲花眼者赠予佩戴百条金项链、无体毛、盛装打扮、善于侍奉的女子。

1.247.44

पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः ।
ददौ शतसहस्राख्यं कन्याधनमनुत्तमम् ॥ १.२४७.४४ ॥

Janārdana 还赠予了 pṛṣṭhya 与 Bāhlika 品种的马匹——一份名为“十万”的无与伦比的嫁妆。

1.247.45

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥ १.२४७.४५ ॥

Dāśārha Janārdana 赠予十担需由人力抬运的上等黄金,光如火焰,有成器者亦有未成器者。

1.247.46

गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ १.२४७.४६ ॥

又赠予发情的象群,三路淌出发情之液,形如山峰,在战场上从不退却。

1.247.47

क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम् ।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥ १.२४७.४७ ॥

好勇者赠予千头大象,装备着响亮的铃铛,美丽,系着金花环,配有象夫。

1.247.48

रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ।
प्रीयमाणो हलधरः संबन्धं प्रति मानयन् ॥ १.२४७.४८ ॥

持犁的 Balarāma 心生喜悦,敬重这门姻亲,将执手礼的赠礼交给 Pārtha(阿周那)。

1.247.49

स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।
महागजमहाग्राहः पताकाशैवलाकुलः ॥ १.२४७.४९ ॥

那是一股巨大财富与珍宝的洪流,布匹与毛毯如泡沫,大象如巨鳄,旗幡如水藻,密布其间。

1.247.50

पाण्डुसागरमाविद्धः प्रविवेश महाधनः ।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥ १.२४७.५० ॥

那巨大的财富被投入般度之海,流入其中,充盈了他们,却令敌人悲痛。

1.247.51

प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः ।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥ १.२४७.५१ ॥

法王坚战接受了这一切,并尊敬那些毗湿尼与安陀迦的大车战士。

1.247.52

ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥ १.२४७.५२ ॥

这些大德之人,即库鲁、毗湿尼与安陀迦中的俊杰,聚会一处,像善人在天界一样尽情欢乐。

1.247.53

तत्रतत्र महानादैरुत्कृष्टतलनादितैः ।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥ १.२४७.५३ ॥

四处回荡着高声喧笑与击掌之声,库鲁与毗湿尼人依各自的身份与喜好尽情欢乐。

1.247.54

एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥ १.२४७.५४ ॥

如此,那些英勇无双之人度过许多日子,受到库鲁人的尊敬,又重新向杜瓦拉瓦蒂而去。

1.247.55

रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः ।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ १.२४७.५५ ॥

以罗摩为首,毗首尼与安陀迦的大车将们出发了,带着库鲁最优者所赠的光彩夺目的珍宝。

1.247.56

रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा ।
न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः ॥ १.२४७.५६ ॥

罗摩敬重苏跋陀罗,拥抱妹妹,然后对德罗波蒂说:“请把此事视为托付。”穿好衣服后,这位大力者便离去了。

1.247.57

पितृष्वसायाश्चरणावभिवाद्य ययौ तदा ।
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा ॥ १.२४७.५७ ॥

他向姑母的双足行礼后便离去了;此时,满心欢喜的普利塔同样地敬重了他。

1.247.58

स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः ।
ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः ॥ १.२४७.५८ ॥

那位毗首尼英雄,受到般度之子和城民的极大敬重,与毗首尼族人一同前往德瓦拉卡,罗摩与他们同行。

1.247.59

वासुदेवस्तु पार्थेन तत्रैव सह भारत ।
चतुस्त्रिंशदहोरात्रं रममाणो महाबलः।
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ॥ १.२४७.५९ ॥

然而瓦苏提婆与阿周那就在那里,婆罗多啊,欢愉地度过了三十四个昼夜;这位大力者与那位大德者一同住在美丽的城市石克拉普拉斯塔。

1.247.60

व्यचरद्यमुनातीरे मृगयां स महायशाः ।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना ॥ १.२४७.६० ॥

这位大名之人在亚穆纳河岸狩猎;射中鹿和野猪,与戴冠者(阿周那)一同欢愉。

1.247.61

ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत् ॥ १.२४७.६१ ॥

于是克舍婆的爱妹苏跋陀罗,生下了名声显赫的娑跋陀罗之子,犹如补罗米生下胜者(Jayanta)。

1.247.62

दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम् ।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥ १.२४७.६२ ॥

苏跋陀罗生下了英雄阿毗曼尤:臂长、胸阔、目如牛眼,能降伏敌人,是人中之牛。

1.247.63

अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।
अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम् ॥ १.२४७.६३ ॥

人们称这位降伏敌人、人中之牛、阿周那之子为阿毗曼尤,因为他被称为“无畏”与“勇烈”。

1.247.64

स सात्वत्यामतिरथः संबभूव धनञ्जयात् ।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः ॥ १.२४७.६४ ॥

这位大车士由娑跋提(苏跋陀罗)与持财(阿周那)所生,犹如祭祀中钻木取火,火从沙弥树的胎中生出。

1.247.65

यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत ॥ १.२४७.६५ ॥

婆罗多啊,在他诞生之时,大光明的贡蒂之子坚战将一万头牛与金币施予二生者(婆罗门)。

1.247.66

दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् ।
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥ १.२४७.६६ ॥

自幼他便为婆苏提婆(黑天)所爱;犹如月亮为祖先与一切众生所爱,他也为众人所爱。

1.247.67

जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ १.२४७.६७ ॥

自出生起,黑天便为他举行吉祥的仪式;这孩子也像白半月的月亮一样成长。

1.247.68

चतुष्पादं दशविधं धनुर्वेदमरिन्दमः ।
अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम् ॥ १.२४७.६८ ॥

降伏敌人、通晓吠陀的他,从阿周那处学会了完整的射术,它有四部分、十种,既有神圣的也有人间的。

1.247.69

विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥ १.२४७.६९ ॥

这位大力者在兵器的知识与娴熟技艺上,以及在一切练习中,都细致地操练了其中的特殊要点。

1.247.70

आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना ।
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥ १.२४७.७० ॥

无论在学习还是运用上,他都仿佛与自己一样;阿周那看着苏跋陀罗之子,心中欢喜。

1.247.71

सर्वसंहननोपेतं सर्वलक्षणलक्षितम् ।
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥ १.२४७.७१ ॥

具备一切坚实的体格,带有一切吉祥的标记,难以抵挡,肩如公牛,犹如张开巨口的蛇。

1.247.72

सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् ।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥ १.२४७.७२ ॥

有狮子般的骄傲,是大弓手,有发狂大象般的勇武,声音如雷云与战鼓,面容如满月。

1.247.73

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥ १.२४७.७३ ॥

阿周那看见那个儿子,在勇武、力量、容貌和身形上都与克里希那相同,仿佛因陀罗一般。

1.247.74

पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा ।
लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव ॥ १.२४७.७४ ॥

吉相的般遮罗公主从五位丈夫那里得到了五个英勇而卓越的儿子,如同五座山岳。

1.247.75

युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् ।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥ १.२४७.७५ ॥

从坚战生出普利提文底耶,从怖军生出苏多娑摩,从阿周那生出舍鲁多羯摩,从无种生出的儿子是舍塔尼迦。

1.247.76

सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥ १.२४७.७६ ॥

从偕天生出舍鲁多塞那。般遮罗公主生下这五位大车战士,正如阿底提生下诸阿提耶。

1.247.77

शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम् ।
परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम् ॥ १.२४७.७७ ॥

依据经典,婆罗门对坚战说:“在击打他人的兵器知识上,此子即为普利提文底耶。”

1.247.78

सुतेसोमसहस्रे तु सोमार्कसमतेजसम् ।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥ १.२४७.७८ ॥

苏多娑摩,大弓箭手,光辉与月神和太阳相等,于千次苏摩祭中从怖军生出。

1.247.79

श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत् ॥ १.२४७.७९ ॥

冠者(阿周那)听闻并完成了伟大的功业后返回,于是说道“就这样吧”,一子诞生,名为室如迦尔曼。

1.247.80

शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः ।
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥ १.२४७.८० ॥

那古拉为伟大的王仙、考罗婆族的舍陀尼迦生了一子,与其同名,能增添荣耀。

1.247.81

ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥ १.२४७.८१ ॥

其后,黑天女(德罗波蒂)在火神所主的星宿下,从偕天处生一子,人们称之为室如塞那。

1.247.82

एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः ।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः ॥ १.२४७.८२ ॥

王中之王啊,这些互相希望对方安好的、名声显赫的德罗波蒂之子,彼此相隔一年,相继降生。

1.247.83

जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥ १.२४७.८३ ॥

婆罗多族中最优秀的人啊,达乌弥亚依规如法地为他们依次举行了诞生礼、剃发礼与入门礼。

1.247.84

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥ १.२४७.८४ ॥

他们学习吠陀之后,恪守誓愿,从阿周那那里接受了所有神圣与凡人的箭矢兵器。

1.247.85

दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः ।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥ १.२४७.८५ ॥

般杜之子们与众多天生神胎般、胸膛宽阔的大战车武士同在,他们获得了喜悦。啊,王中之虎!