摩诃婆罗多 · 章 1.249
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.249.1
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः ॥ १.२४९.१ ॥
他对阿周那和萨特瓦塔的婆苏提婆说话,这两位世界英雄正站在俱卢之林附近。
1.249.2
ब्राह्मणो बहुभोक्ताऽस्मि बुञ्जेऽपरिमितं सदा ।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम् ॥ १.२४९.२ ॥
"我是婆罗门,总是食量惊人。伐尔希涅耶与般度子,我乞求施舍;请你们让我一次得到满足。"
1.249.3
एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥ १.२४९.३ ॥
他这样说后,克里希那和般度之子对他说:"您用什么食物才能满足?我们会为那种食物而尽力。"
1.249.4
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः ।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥ १.२४९.४ ॥
他这样说后,那位世尊对正在交谈的两位英雄说:"请准备食物吧。"
1.249.5
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् ।
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम् ॥ १.२४९.५ ॥
"我并不想要食物,请认出我是火神。你们二人请给我适合我的食物。"
1.249.6
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥ १.२४९.६ ॥
"因陀罗始终守护这片俱卢之林,因它受到这位大德的护持,我无法焚烧它。"
1.249.7
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा ।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥ १.२४९.७ ॥
他的朋友蛇王德叉迦常住此处,为了他,执金刚者与其众随从守护着这场林火。
1.249.8
तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः ।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥ १.२४९.८ ॥
那里因他的缘故,许多生灵得到保护;我虽想焚烧,却因因陀罗的光辉而无法烧毁。
1.249.9
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥ १.२४९.९ ॥
他见我烈焰熊熊,便以云中之水降雨;因此我虽渴望焚烧这片所愿之林,却无法做到。
1.249.10
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः ।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥ १.२४९.१० ॥
有你们二位精通武器者相助,我将焚烧这片康达瓦森林;这便是我所选择的食物。
1.249.11
युवां ह्युदकधारास्ता भूतानि च समन्ततः ।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः ॥ १.२४९.११ ॥
你们二人确是精通神兵的至上者;你们必能将那些水流与四面八方的生灵全数阻挡。
1.249.12
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति ।
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम् ॥ १.२४९.१२ ॥
尊贵的阿耆尼为何想要焚烧这片由大因陀罗守护、充满各种生灵的康达瓦森林?
1.249.13
न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रतिभाति मे ।
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः ॥ १.२४९.१३ ॥
婆罗门啊,火神大怒焚烧竭诃婆林的缘由,在我看来并非小事。
1.249.14
एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः ।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने ॥ १.२४९.१४ ॥
婆罗门啊,贤者啊,我愿详细而如实地听闻,往昔竭诃婆林是如何被焚烧的。
1.249.15
शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम् ।
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते ॥ १.२४९.१५ ॥
大王啊,请听我如实说来,此事一切皆如其实;大地之主啊,火神焚烧竭诃婆林的缘由。
1.249.16
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम् ।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् ॥ १.२४९.१६ ॥
好吧,我将为你讲述这则古老的传说,它为仙人所称颂,人中之杰啊——这便是竭诃婆林毁灭的故事。
1.249.17
पौराणः श्रूयते राजन्राजा हरिहयोपमः ।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः ॥ १.२४९.१७ ॥
大王啊,古老的传说中有这样一位国王,如同因陀罗,以白净王之名著称,具有力量与勇武。
1.249.18
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन ।
जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम् ॥ १.२४९.१८ ॥
那位国王,行祭祀,为施主之长,且有智慧,无人能及;当时他受持了为期十二年的祭祀誓戒。
1.249.19
तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः ।
वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः ॥ १.२४९.१९ ॥
在他的祭祀大会上,总有成千上万的大仙和精通吠陀及其辅助学问的婆罗门聚集。
1.249.20
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः ॥ १.२४९.२० ॥
他以大祭祀和丰厚布施的祭仪行祭。
1.249.21
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप ।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च ॥ १.२४९.२१ ॥
国王啊,他的心日复一日,只专注于祭祀大会、祭仪的开端和各种布施,别无他念。
1.249.22
ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः ।
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः ॥ १.२४९.२२ ॥
这位智慧的国王便如此与祭司们一同行祭。那时,他的祭司们被烟熏得双眼昏花,
1.249.23
कालेन महता खिन्नास्तत्यजुस्ते नराधिपम् ।
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः ॥ १.२४९.२३ ॥
他们因漫长的时间而疲惫,便离开了那位人主。于是国王设法安抚那些祭司。
1.249.24
चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम् ।
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः ॥ १.२४९.२४ ॥
他们因失明而无法继续祭祀。于是在他们同意之下,那位人主通过那些婆罗门……
1.249.25
सत्रं समापयामास ऋत्विग्भिरपरैः सह ।
तस्यैवंवर्तमानस्य कदाचित्कालपर्यये ॥ १.२४९.२५ ॥
他与其他祭司一同完成了祭祀法会。如此进行着,过了一段时间,某一时刻……
1.249.26
सत्रमहार्तुकामस्य संवत्सरशतं किल ।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः ॥ १.२४९.२६ ॥
对于那位想要举行祭祀法会的大德之人,确实已过去了一百年;然而祭司们不肯承担主持此事。
1.249.27
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः ।
प्रणिपातेन सान्त्वेन दानेन च महायशाः ॥ १.२४९.२७ ॥
那位大名鼎鼎的国王与朋友亲族一起作了巨大努力:以叩拜、温言和布施。
1.249.28
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः ।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः ॥ १.२४९.२८ ॥
他不知疲倦地一再恳请祭司们;然而那些光辉无量的祭司并未成全他的心愿。
1.249.29
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः ।
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः ॥ १.२४९.२९ ॥
那位王仙满怀愤怒地对住在静修处的人们说:'诸位婆罗门,若我已堕落,又未恪守侍奉,'
1.249.30
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः ।
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम् ॥ १.२४९.३० ॥
'那么诸位婆罗门应当迅速舍弃我,因我已被鄙弃。所以今日你们不该破坏我对祭祀的信心。'
1.249.31
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः ।
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ ॥ १.२४९.३१ ॥
诸位最优秀的再生者啊,无故抛弃我是不应该的。诸位婆罗门啊,我已投靠你们,请施恩于我吧。
1.249.32
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया ।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः ॥ १.२४९.३२ ॥
我以安抚之言、布施等方式使你们喜悦之后,作为真正有所求的人,诸位最优秀的再生者啊,我将说出我们所要做之事。
1.249.33
अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात् ।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः ॥ १.२४९.३३ ॥
或者,若你们因嫌怨而抛弃我,诸位最优秀的再生者啊,我将前往其他祭司那里,请他们主持祭祀。
1.249.34
एतावदुक्त्वा वचनं विरराम स पार्थिवः ।
यदा न शेकू राजानं याजनार्थं परन्तप ॥ १.२४९.३४ ॥
国王说完这些话便沉默了。啊,敌人的征服者,那时他们无法为国王主持祭祀。
1.249.35
ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् ।
तव कर्माम्यजस्रं वै वर्तन्ते पार्थिवोत्तम ॥ १.२४९.३५ ॥
于是那些祭司愤怒地对那位最优秀的国王说:"啊,最优秀的国王,你的祭祀之事一直在进行。"
1.249.36
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः ।
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि ॥ १.२४९.३६ ॥
因此,我们不停地执行仪式,已经疲惫不堪。你不应抛弃我们这些因这劳苦而疲倦的人。
1.249.37
बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ ।
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति ॥ १.२४९.३७ ॥
无罪者啊,你陷入心智的迷惑,因急躁而误入歧途,去往楼陀罗(Rudra)面前吧;他必会让你举行祭祀。
1.249.38
साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः ।
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः ॥ १.२४९.३८ ॥
国王室维多(Śvetaki)听到这些责难的话语,大为愤怒,前往凯拉萨山,开始了严酷的苦行。
1.249.39
आराधयन्महादेवं नियतः संशितव्रतः ।
उपवासपरो राजन्दीर्घकालमतिष्ठत ॥ १.२४९.३९ ॥
他以自制之心守持严格的誓愿,敬拜大天神(摩诃提婆),专心于斋戒,大王啊,他长久地停留在那里。
1.249.40
कदाचिद्द्वादशे काले कदाचिदपि षोडशे ।
आहारमकरोद्राजा मूलानि च फलानि च ॥ १.२४९.४० ॥
有时在第十二个时段,有时在第十六个时段,国王进食:根与果实。
1.249.41
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः ।
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः ॥ १.२४९.४१ ॥
他双臂高举,目不转睛,如木桩般静止不动,国王室维多六个月中完全专注安定。
1.249.42
तं तथा नृपशार्दूलं तप्यमानं महत्तपः ।
शङ्करः परमप्रीत्या दर्शयामास भारत ॥ १.२४९.४२ ॥
婆罗多之子啊,湿婆以最大的慈爱,向那位在大苦行中燃烧的王中猛虎显现。
1.249.43
उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा ।
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप ॥ १.२४९.४३ ॥
世尊以温柔而深沉的声音对他说:“人中之虎,敌人的烧灼者,我因你的苦行而欢喜。”
1.249.44
वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव ।
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः ॥ १.२४९.४४ ॥
“国王啊,你想要的恩赐,尽管选择吧,愿你吉祥。”听到无量光辉的楼陀罗的这些话之后……
1.249.45
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत ।
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः ॥ १.२४९.४५ ॥
向大灵者顶礼之后,王仙回答说:“若世间万界所敬礼的世尊对我欢喜……
1.249.46
स्वयं मां देवदेवेश याजयस्व सुरेश्वर ।
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् ॥ १.२४९.४६ ॥
“天神之神,诸天之主,请你亲自为我主持祭祀。”听到国王所说的这些话之后……
1.249.47
उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः ।
नास्माकमेतद्विषये वर्तते याजनं प्रति ॥ १.२४९.४७ ॥
欢喜的世尊先微笑着说了这些话:“为人主持祭祀,不是我们的职责范围。”
1.249.48
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना ।
याजयिष्यामि राजंस्त्वां समयेन परन्तप ॥ १.२४९.४८ ॥
国王啊,你为求恩赐而行了极大的苦行。敌人的烧灼者啊,到了适当的时候,我将为你主持祭祀。
1.249.49
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः ।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम् ॥ १.२४९.४९ ॥
诸王之主啊,若你十二年间守梵行、心志专一,不断以酥油之流供养火神……
1.249.50
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप ।
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः ॥ १.२४९.५० ॥
君王啊,你所求之物,都将从我这里获得。”楼陀罗如此说后,人主白德……
1.249.51
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना ।
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः ॥ १.२४९.५१ ॥
他一切都照持三叉戟者所说的去做。第十二年圆满时,大自在天又来了。
1.249.52
दृष्टैव च स राजानं शङ्करो लोकभावनः ।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥ १.२४९.५२ ॥
世界的护持者商羯罗一见国王,甚为欢喜,便对最优秀的君王白德说道。
1.249.53
तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा ।
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप ॥ १.२४९.५३ ॥
最优秀的君王啊,今日你在此所行之事,使我欢喜。敌人的折磨者啊,为婆罗门主持祭祀,乃是依律所定。
1.249.54
अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप ।
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः ॥ १.२४९.५४ ॥
因此,敌人的折磨者啊,今日我自己不为你主持祭祀。我在大地上的化身,乃是一位大福德的最优秀再生者。
1.249.55
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति ।
मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते ॥ १.२४९.५५ ॥
名为杜尔婆萨的大光明仙人将为你主持祭祀。依我之命,为你备齐祭祀的物品。
1.249.56
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् ।
स्वपुरं पुनरागम्य संभारान्पुनरार्जयत् ॥ १.२४९.५६ ॥
听了楼陀罗所说的这些话,他回到自己的城中,再次筹集了祭祀的物品。
1.249.57
ततः संभृतसंभारो भूयो रुद्रमुपागमत् ।
उवाच च महिपालः प्राञ्जलिः प्रणतः स्थितः।
संभृता मम संभाराः सर्वोपकरणानि च ॥ १.२४९.५७ ॥
于是,国王收集齐了祭祀的物品,再次来到楼陀罗面前。他合掌恭敬地站立,躬身说道:“我的祭祀物品和一切器具都已备齐了。”
1.249.58
त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति ।
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः ॥ १.२४९.५८ ॥
“大天啊,依您的恩典,愿我明日举行受戒。”那位大德国王说完这些话后……
1.249.59
दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् ।
एष राजा महाभागः श्वेतकिर्द्विजसत्तम ॥ १.२४९.५९ ॥
楼陀罗召来杜尔婆萨,说道:“再生婆罗门中最优秀者啊,这位福德广大的国王名叫首婆泥。”
1.249.60
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् ।
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह ॥ १.२४९.६० ॥
“婆罗门之主啊,依我之命,为这位大地之主主持祭祀吧。”仙人答道:“好的。”便回复了楼陀罗。
1.249.61
ततः सत्रं समभवत्तस्य राज्ञो महात्मनः ।
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् ॥ १.२४९.६१ ॥
于是这位大德国王的祭祀大会依规定、按时节、如仪轨完成,并布施了丰厚的酬金。
1.249.62
तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः ।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः ॥ १.२४९.६२ ॥
这位大德国王的祭会完毕后,祭司们在仙人杜尔婆娑的允许下离去。
1.249.63
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः ।
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा ॥ १.२४९.६३ ॥
在场的受戒者与威力强大的会众全都离去;王啊,那位大福的国王也于是进入了自己的城市。
1.249.64
पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः ।
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः ॥ १.२४९.६४ ॥
受到精通吠陀的大福婆罗门礼敬,受到吟游歌者赞颂,受到市民欢迎,他入城了。
1.249.65
एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः ।
कालेन महता चापि ययौ स्वर्गमभिष्टुतः ॥ १.२४९.६५ ॥
如此行事的王仙施维塔基,诸王中最优秀者,经过很长时间后,受到赞颂,升入天界。
1.249.66
ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः ।
तस्य सत्रे पपौ वह्निर्हविद्वार्दशवत्सरान् ॥ १.२४९.६६ ॥
与所有祭司和会众一同,火神阿耆尼在他的祭会中饮用祭品达十年之久。
1.249.67
सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि ।
हविषा च ततो वह्निः परां तृप्तिमगच्छत ॥ १.२४९.६७ ॥
在那仪式中,以不断的酥油之流,并且心志专一,火神因供物而得到了至上的满足。
1.249.68
न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित् ।
पाण्डुवर्णो विवर्णश्च न यतावत्प्रकाशते ॥ १.२४९.६८ ॥
他不再愿意接受任何他人的供物;面色苍白、失去光彩,不再像从前那样光明。
1.249.69
ततो भघवतो वह्नेर्विकारः समजायत ।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् ॥ १.२४९.६९ ॥
于是,那尊贵的火神发生了变化;失去光辉,倦怠侵入了他。
1.249.70
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः ।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् ॥ १.२४९.७० ॥
火神觉察自己失去了光辉,便前往梵天那受世界敬拜的圣地。
1.249.71
तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् ।
भगवन्परमा प्रीतिः कृता श्वेतकिना मम ॥ १.२४९.७१ ॥
他在那里对端坐的梵天说了这些话:"尊贵的主啊,白形者曾给我至上的喜悦。"
1.249.72
अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम् ।
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते ॥ १.२४९.७२ ॥
我心中生起强烈的厌恶,无法摆脱。世界之主啊,我已失去了光辉与力量。
1.249.73
इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् ।
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत् ॥ १.२४९.७३ ॥
"愿蒙您的恩惠,恢复我稳定的本性。"火神听到此言,一切世界的创造者世尊,
1.249.74
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ।
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः ॥ १.२४९.७४ ॥
他含笑对火神说道:"你十二年来享用了婆苏以流水般倾注的供物。"
1.249.75
उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् ।
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन ॥ १.२४९.७५ ॥
大福者啊,正因享用了它,疲惫便侵入了你。哈维耶瓦哈那啊,因为失去了光辉,这才突然降临到你身上。
1.249.76
मागमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि ।
अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते ॥ १.२४९.७६ ॥
火啊,不要悲痛;你将恢复你的本性。我为你找到一个办法,便会消除你的厌倦。
1.249.77
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् ।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् ॥ १.२४९.७७ ॥
往昔奉诸神之命,你将诸神之敌的居所、极其可怕的康达婆森林焚为灰烬。
1.249.78
तत्र सर्वाणि सत्वानि निवसन्ति विभावसो ।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि ॥ १.२४९.७८ ॥
那里住着一切众生。毗婆娑啊,你若以它们的脂肪得到满足,便会恢复你的本性。
1.249.79
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात् ।
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् ॥ १.२४९.७९ ॥
去吧,迅速焚烧它,然后你将脱离罪过。听了这出自至尊者之口的话语,
1.249.80
उत्तमं जवमास्थाय प्रदुद्राव हुताशनः ।
आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः।
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः ॥ १.२४९.८० ॥
火神以最大速度冲了过去。到达坎达瓦森林的大火之中,承担起至高的力量,火焰骤然燃起,愤怒地被风驱使。
1.249.81
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः ।
परमं यत्नेमातिष्ठन्पावकस्य प्रशान्तये ॥ १.२४९.८१ ॥
看到燃烧的坎达瓦森林,住在那里的人们竭尽全力平息大火。
1.249.82
करैस्तु करिणः शीघ्रं जलमादाय सत्वराः ।
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः ॥ १.२४९.८२ ॥
象群迅速用鼻子汲水,愤怒地成百上千次向火上喷洒。
1.249.83
बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम् ।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः ॥ १.२४९.८३ ॥
于是多头的蛇群迅速地,怒火攻心,用头在火边倾泻水流。
1.249.84
तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः ।
विलयं पावकं शीघ्रमनयन्भरतर्षभ ॥ १.२४९.८४ ॥
同样,其他生灵也用各种武器与努力迅速地使火熄灭,婆罗多的雄牛啊。
1.249.85
अनेन तु प्रकारेण भूयोभूयश्च प्रज्वलन् ।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः ॥ १.२४९.८५ ॥
如此反复燃烧,火神哈维亚瓦哈那在坎达瓦森林中被七次扑灭。