摩诃婆罗多 · 章 1.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.25.1
ततः कामगमः पक्षी महावीर्यो महाबलः ।
मातुरन्तिकमागच्छत्परं पारं महोदधेः ॥ १.२५.१ ॥
于是,那只能随意飞往任何地方、勇武有力的神鸟,来到了大海彼岸母亲的身边。
1.25.2
यत्र सा विनता तस्मिन्पणितेन पराजिता ।
अतीव दुःखसंतप्ता दासीभावमुपागता ॥ १.२५.२ ॥
在那里,维纳塔在那场赌约中失败,深受痛苦煎熬,已沦为奴婢。
1.25.3
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ ।
काले चाहूय वचनं कद्रूरिदमभाषत ॥ १.२५.३ ॥
此后有一次,在适当的时候,迦都卢唤来在儿子面前恭敬行礼的毗娜塔,说了这番话。
1.25.4
नागानामालयं भद्रे सुरम्यं चारुदर्शनम् ।
समुद्रकुक्षावेकान्ते तत्र मां विनते नय ॥ १.२५.४ ॥
善良的维纳塔啊,那龙族的居所在大海深处的幽静之地,极其美丽、令人赏心悦目;请带我去那里。
1.25.5
ततः सुपर्णमाता तामवहत्सर्पमातरम् ।
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥ १.२५.५ ॥
于是,金翅鸟之母毗娜塔背负了蛇母迦都卢;金翅鸟也遵从母亲的吩咐,背负起众蛇。
1.25.6
स सूर्यमभितो याति वैनतेयो विहंगमः ।
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन् ॥ १.२५.६ ॥
那鸟子毗娜特耶环绕太阳飞行,而蛇群被日光灼烧,昏厥倒地。
1.25.7
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ।
नमस्ते सर्वदेवेश नमस्ते बलसूदन ॥ १.२५.७ ॥
卡德鲁见儿子们陷于此境,便赞颂帝释天:敬礼你,诸神之主;敬礼你,摧伏力量者。
1.25.8
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ।
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव ॥ १.२५.८ ॥
敬礼你,诛杀那母支者,千眼之主,舍质之夫。为被太阳炙烤的诸蛇,请你化作水上的筏。
1.25.9
त्वमेव परमं त्राणमस्माकममरोत्तम ।
ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर ॥ १.२५.९ ॥
唯你是我们最高的庇护,诸不死者中的至尊。你是能降下充沛雨水的主宰,破城者啊。
1.25.10
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे ।
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम् ॥ १.२५.१० ॥
你是云,你是风,你是火,在天空中你是闪电。你是驱散云团的主;人们称你为大云。
1.25.11
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ॥ १.२५.११ ॥
你是无可比拟的可怖金刚杵,你是轰鸣的雷云。你是诸世界的创造者,也是其毁灭者;你是不可战胜的。
1.25.12
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ।
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ॥ १.२५.१२ ॥
你是一切众生的光明,你是太阳阿迪提亚,也是毗婆娑。你是伟大而奇妙的存在;你是君王,你是诸神中的至尊。
1.25.13
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ।
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः ॥ १.२५.१३ ॥
你是毗湿奴,你是千眼者,你是神,你是最高的归宿。啊,神啊,你是一切,也是不死的甘露;你是月神苏摩,最受崇敬。
1.25.14
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः ।
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ १.२५.१४ ॥
你是须臾与太阴日;你是刹那,又是瞬间。你是白半月,你是黑半月;分、秒与极微之时也是你。年、季、月、夜与日,都是你。
1.25.15
त्वमुत्तमा सगिरिवना वसुंधरा ।
सभास्करं वितिमिरमम्बरं तथा।
मदोदधिः सतिमितिमिङ्गिलस्तथा ।
महोर्मिमान्बहुमकरो झषाकुलः ॥ १.२५.१५ ॥
你是殊胜的大地,连同山岳与森林;你是无暗的天空,连同太阳。同样,你是迷醉之海,有提密、提明伽罗鱼,有大波浪,多摩伽罗,充满鱼类。
1.25.16
महायशास्त्वमिति सदाऽभिपूज्यसे ।
मनीषिभिर्मुदितमना महर्षिभिः।
अभिष्टुतः पिबसि च सोममध्वरे ।
कषट्कृतान्यपि च हवींषि भूतये ॥ १.२५.१६ ॥
啊,大名之主,你始终这样被敬拜。被心怀欢喜的智者与大仙所赞颂,你在祭祀中饮用苏摩,也接受以“瓦沙特”呼声供奉的祭品,以利益众生。
1.25.17
त्वं विप्रैः सततमिहेज्यसे फलार्थं ।
वेदाङ्गेष्वतुलबलौघ गीयसे च।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा ।
वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः ॥ १.२५.१७ ॥
你在此经常被婆罗门为求果报而敬拜;啊,无比力量之聚,你在吠陀支分中被歌颂;为了你,专注祭祀的殊胜再生者以全部努力研习吠陀支分。