Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.251

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.251.1

एवमुक्तः स भगवान्धूमकेतुर्हुताशनः ।
चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥ १.२५१.१ ॥

被如此告知后,尊贵的烟幢火神思念世界守护者伐楼那,想要见他。

1.251.2

आदित्यमुदके देवं निवसन्तं जलेश्वरम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ॥ १.२५१.२ ॥

住在水中、以太阳为形的水主之神知其所思,便向火神显现。

1.251.3

तमब्रवीद्भमकेतुः प्रतिगृह्य जलेश्वरम् ।
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥ १.२५१.३ ॥

烟幢火神迎接水主,对这位世界守护者中的第四位、诸神之神、永恒者说道。

1.251.4

सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥ १.२५१.४ ॥

请迅速交出苏摩王赐予你的那张弓与两个箭囊,以及那辆赤褐色的战车。

1.251.5

कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति ।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम् ॥ १.२५१.५ ॥

般度之子将以甘狄拔弓完成大业,瓦苏提婆将以轮完成大业;今日请将它们交给我。

1.251.6

ददानीत्येव वरुणः पावकं प्रत्यभाषत ।
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ॥ १.२५१.६ ॥

伐楼那回答火神说:“我会给予。”那是奇妙的、具有大威力的,能增益名声与荣耀。

1.251.7

सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम् ॥ १.२५१.७ ॥

它不可被任何武器所击败,能摧毁一切武器,是一切兵器的大主宰,并能击溃敌军。

1.251.8

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥ १.२५१.८ ॥

它虽是一件,却相当于十万件;能增长王国;奇妙绝伦,饰有高低各色的纹彩,光滑无瑕。

1.251.9

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी ॥ १.२५१.९ ॥

他赠送了那件弓中珍宝——诸天神、达那婆与乾达婆供奉了永恒岁月的宝弓,还有两副永不空竭的大箭囊。

1.251.10

रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् ।
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥ १.२५१.१० ॥

他又赠送了一辆套着神马的战车,旗帜上有猴中最优者;车上配有银色的马匹和佩戴金环的乾达婆马。

1.251.11

पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ।
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः ॥ १.२५१.११ ॥

它如白云般洁白,速度与心念和风同等,备齐一切器具,即使诸天神与达那婆也无法战胜。

1.251.12

भावुमन्तं महाघोषं सर्वरत्नमनोरमम् ।
ससर्ज यं सुतपसा भौमनो भुवनप्रभुः ॥ १.२५१.१२ ॥

光辉灿烂,声音宏大,以各种宝石装饰而令人愉悦,是世界之主以严酷苦行所造。

1.251.13

प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ।
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः ॥ १.२५१.१३ ॥

其形不可名状,如同太阳;主神月神登上它,征服了檀那婆。

1.251.14

नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया ।
आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ ॥ १.२५१.१४ ॥

如新云般,光辉灿烂,两者如因陀罗之武器,依托于那最好的战车之上。

1.251.15

तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ।
तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः ॥ १.२५१.१५ ॥

金制、极其美丽、无与伦比的旗杆;其上有神圣猴子,以狮子与虎为标志。

1.251.16

हनूमान्नाम तेजस्वी कामरूपी महाबलः ।
दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत।
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ॥ १.२५१.१६ ॥

名为哈努曼的光辉者,能随意变幻形体,大力无比,坐于其顶,仿佛欲焚烧一切,光彩耀目。旗上还有种种巨大的生灵。

1.251.17

नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ।
स तं नानापताकाभिः शोभितं रथसत्तमम् ॥ १.२५१.१७ ॥

其声可使敌军丧失意识,他以那装饰着许多旗帜的最好战车……

1.251.18

प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ।
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः ॥ १.२५१.१८ ॥

绕行诸神,右旋致敬,又向他们行礼;披甲、着铠、持剑,系好牛皮臂甲与指套,他做好了准备。

1.251.19

आरुरोह तदा पार्थो विमानं सुकृती यथा ।
तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा ॥ १.२५१.१९ ॥

于是般度之子阿周那登上天车,如同行善之人一般。那把由梵天在往昔所造的神圣而殊胜的弓,

1.251.20

गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ।
हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान् ॥ १.२५१.२० ॥

阿周那拿起甘狄拔弓,心中欢喜。随后,他将火神置于前方,那位勇武之人也同样欢喜。

1.251.21

जग्राह बलमास्थाय ज्यया च युयुजे धनुः ।
मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह ॥ १.२५१.२१ ॥

他凭借力量握起弓,以弦将它上好;当那强勇的般度之子正在系上弓弦时,

1.251.22

येऽशृष्वन्कूजितं यत्र तेषां वै व्यथितं मनः ।
लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी ॥ १.२५१.२२ ॥

在那里听到弦声的人,心中确实感到忧惧。他获得了战车、弓,以及同样的两个取之不竭的大箭袋,

1.251.23

बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ।
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ॥ १.२५१.२३ ॥

贡蒂之子在助人的事上准备就绪并欢喜。随后,火神将名为金刚脐的圆盘赠给了克里希那。

1.251.24

आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ।
अब्रवीत्पावकश्चैवमेतेन मधुसूदन ॥ १.२५१.२४ ॥

他获得了心爱的火神之箭后便已准备就绪。火神于是说道:"摩度苏德ana啊,以此,

1.251.25

अमानुषानपि रणे जेष्यसि त्वमसंशयम् ।
अनेन तु मनुष्याणां देवानामपि चाहवे ॥ १.२५१.२५ ॥

你在战斗中借此必定能战胜非人,也能借此战胜人类与天神。

1.251.26

रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा ।
भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे ॥ १.२५१.२६ ॥

你也将超过罗刹、毗舍遮、达摩与龙蛇;毫无疑问,你在歼灭中将是第一。

1.251.27

क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥ १.२५१.२७ ॥

摩陀婆啊,你在战场上屡次投向敌人的此物,将在战斗中无阻地杀死他们之后,再回到你的手中。

1.251.28

वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् ।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः ॥ १.२५१.२८ ॥

婆楼那也赠予他一柄名为“凯摩达基”的铁棍,其声如雷鸣,可怕,能摧毁达摩,那位主宰如是做。

1.251.29

ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ ।
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि ॥ १.२५१.२९ ॥

于是欢喜的阿周那与阿输陀对火神说——二人都精通武器,装备齐全,皆为战车武士,并持旗幡。

1.251.30

कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः ।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता ॥ १.२५१.३० ॥

尊者啊,我们二人即使与一切天神和阿修罗交战也已准备好;何况只是为龙蛇而欲战的那位持金刚杵者一人呢?

1.251.31

चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान् ।
चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान्।
त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः ॥ १.२५१.३१ ॥

持轮者、感官之主,于战场上行动的勇者;被掷出的轮盘将一切化为灰烬。三界之中,没有遍布者所不能做到的事。

1.251.32

गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥ १.२५१.३२ ॥

我手持甘狄拔神弓与两个取之不尽的大箭囊,也能在战场上征服诸界,啊,帕瓦卡。

1.251.33

सर्वतः परिवार्यैवं दावमेतं महाप्रभो ।
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥ १.२५१.३३ ॥

大力之主啊,将此林火从四面包围,随您心意,此刻便充分燃烧吧;您有能力完成天界的助力之事。

1.251.34

यदि खाण्डवमेष्यति प्रमादा-
त्सगणो वा परिरक्षितुं महेन्द्रः।
शरताडितगात्रकुण्डलानां ।
कदनं द्रक्ष्यति देववाहिनीनाम् ॥ १.२५१.३४ ॥

若因疏忽,大因陀罗率其众前来守护大林,他将目睹天界大军被箭射中、肢体与耳环俱碎的屠戮。

1.251.35

एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च ।
तैजसं रपमास्थाय दावं दग्धुं प्रचक्रमे ॥ १.२५१.३५ ॥

大夏尔哈与阿周那如此相告,那位尊者便化作炽烈的形体,开始焚烧森林。

1.251.36

सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा ।
ददाह खाण्डवं दावं युगान्तमिव दर्शयन् ॥ १.२५१.३६ ॥

于是七焰之火从四面围绕,焚烧了大林,仿佛显示着劫末之景。

1.251.37

प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ ।
मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत् ॥ १.२५१.३७ ॥

包围并进入那片森林后,婆罗多的雄牛啊,他以如雷云般的轰鸣使一切众生战栗。

1.251.38

दह्यतस्तस्य च बभौ रूपं दावस्य भारत ।
मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंशुभिः ॥ १.२५१.३८ ॥

婆罗多啊,那燃烧的林火之形象,如同被日光洒满的山王须弥山一般闪耀。