摩诃婆罗多 · 章 1.253
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.253.1
तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत् ।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥ १.२५३.१ ॥
于是般度之子阻挡了他倾泻的水,以箭雨展示至高的神兵,比毗跋蹉(阿周那)如此行事。
1.253.2
खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः ।
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥ १.२५३.२ ॥
无量心之般度之子以众多箭矢遮蔽了整个俱迦婆林,如同薄雾遮蔽月亮。
1.253.3
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ।
संछाद्यमाने खे बाणैरस्यता सव्यसाचिना ॥ १.२५३.३ ॥
当善用双手的弓箭手萨维亚萨钦以箭矢遮蔽天空时,那里的任何生灵都无法逃出。
1.253.4
तक्षकस्तु न तत्रासीन्नागराजो महाबलः ।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः ॥ १.२५३.४ ॥
然而强大的那伽王德叉迦不在那里;那片森林燃烧时,他已前往俱卢之野。
1.253.5
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली ।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः ॥ १.२५३.५ ॥
那里有德叉迦的强子阿濕縛犀那;他为了从火中脱身而奋力挣扎。
1.253.6
न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः ।
मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥ १.२५३.६ ॥
被阿周那的箭矢所阻,他无法逃出;于是他的母亲,蛇女,将他吞下,使他脱身。
1.253.7
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।
निगीर्य सोर्ध्वमक्रामत्सुतं नागी मुमुक्षया ॥ १.२५३.७ ॥
他的头先被吞下,现在尾巴正被吞下。蛇母出于想救出儿子的愿望,吞下他后向上走出。
1.253.8
तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः ।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः ॥ १.२५३.८ ॥
般度之子以一支锋利、刃宽的箭,在她前行时斩下了她的头;舍遮之主看到了这一切。
1.253.9
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥ १.२५३.९ ॥
执金刚者(因陀罗)欲救出般度之子,便以风雨之暴当即使其迷惑;于是阿奢婆塞那得以脱身。
1.253.10
तां च मायां तदा दृष्टा घोरां नागेन वञ्चितः ।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत् ॥ १.२५३.१० ॥
般度之子为蛇所骗,见那可怕的幻术,便将飞行于空中的众生斩成两段、三段。
1.253.11
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् ।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ॥ १.२५३.११ ॥
怒极的比波糖(阿周那)诅咒那行走弯曲的蛇:"你将失去依托,即使是火和婆薮提婆(黑天)也不能使你安定。"
1.253.12
ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः ।
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन् ॥ १.२५३.१२ ॥
于是胜利者(阿周那)以迅疾的箭遮满天空,与千眼者(因陀罗)交战,怒火中烧,念念不忘那场欺骗。
1.253.13
देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम् ।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः ॥ १.२५३.१३ ॥
天王因在战场上见阿周那愤怒,也放出他猛烈的神箭,遮蔽了整个天空。
1.253.14
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् ।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान् ॥ १.२५३.१४ ॥
于是大声咆哮的风搅动了所有大海,立于空中,生出充满水流的云层。
1.253.15
ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् ।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् ॥ १.२५३.१५ ॥
于是阿周那为了抵御它,也放出了至上的可怖神箭,降下雷霆,伴随闪电与雷鸣之声。
1.253.16
वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः ।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ॥ १.२५३.१६ ॥
于是精通应对之法的阿周那以咒语加持风神箭,因此因陀罗的雷霆与云层的威力与力量被摧毁。
1.253.17
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ।
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः ॥ १.२५३.१७ ॥
那些水流干涸,闪电消失,霎时间天空尘埃与昏暗尽去,完全平静。
1.253.18
सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम् ।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ॥ १.२५३.१८ ॥
吹送宜人的清凉微风,使日轮恢复常态的火神,化现诸般形态,因无可抵御而欢喜,也显现了。
1.253.19
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः ।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत् ॥ १.२५३.१९ ॥
被从众生身体中流出的脂膏之流所浇灌,那烈焰熊熊的火焰猛然燃起,以轰鸣充满了世界。
1.253.20
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः ।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः ॥ १.२५३.२० ॥
见那森林与林火被两位黑天所护,大王啊,以苏波尔那为首的傲慢鸟群便飞上了天空。
1.253.21
गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा ।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ ॥ १.२५३.२१ ॥
迦鲁达想以如金刚般的翅膀、喙与爪攻击,便从天空向黑天与般度子猛扑而下。
1.253.22
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः ।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः ॥ १.२५३.२२ ॥
同样,在般度子身边,一群群蛇吐出可怕的毒液,面孔燃烧着,纷纷扑落。
1.253.23
तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः ।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम् ॥ १.२५३.२३ ॥
普利塔之子以沾满愤怒之火的箭将它们斩断;它们也为了毁灭自己的身体而投入了那燃烧的烈火。
1.253.24
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः ।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः ॥ १.२५३.२४ ॥
于是诸天神与乾闼婆、夜叉、罗刹、龙蛇,渴望战斗,发出无与伦比的吼声,纷纷升空。
1.253.25
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः ।
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥ १.२५३.२५ ॥
举起双臂,手持铁片、钵车克、石块与步舜提,怒火使其力量昏乱,他们想杀死黑天与普利塔之子。
1.253.26
तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम् ।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥ १.२५३.२६ ॥
当他们高声呼喊、倾泻武器如雨时,毗菩特素(阿周那)以利箭击碎了他们的头颅。
1.253.27
कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः ।
दैत्यदानवसङ्घानां चकार कदनं महत् ॥ १.२५३.२७ ॥
光辉盛大的黑天,灭敌者,以轮盘在提迭与檀那婆的大军中造成了巨大的杀戮。
1.253.28
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा ।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः ॥ १.२५३.२८ ॥
随后其余的人被箭射穿,又被轮盘之力驱动,停止下来,如同大海抵达岸边;他们的力量无边无际。
1.253.29
ततः शक्रोऽतिसक्रुद्धस्त्रिदशानां महेश्वरः ।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत् ॥ १.२५३.२९ ॥
于是诸天的大主宰因陀罗大怒,骑上白象,向二人猛冲过去。
1.253.30
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत् ।
हतावेताविति प्राह सुरानसुरसूदनः ॥ १.२५३.३० ॥
他迅速拿起雷电,投出金刚神器;阿修罗的杀灭者对诸神说:“这二人已经被杀了。”
1.253.31
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा ॥ १.२५३.३१ ॥
诸神看到众神之王举起的大雷电,便各自拿起了自己所有的武器。
1.253.32
कालदण्डं यमो राजन् गदां चैव धनेश्वरः ।
पाशांश्च तत्र वरुणो विचित्रां च तथाऽशनिम् ॥ १.२५३.३२ ॥
大王啊!阎摩取了时间之杖,财神(俱毗罗)取了铁锤,伐罗那在那里取了绳索和一道斑斓的雷电。
1.253.33
स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः ।
ओषधीर्दीप्यमानाश्च जगृहातेऽस्विनावपि ॥ १.२५३.३३ ॥
斯kanda 执起长矛,像须弥山一样岿然不动;两位阿输昆也取了闪耀的草药。
1.253.34
जगृहे च धनुर्धाता मुसलं तु जयस्तथा ।
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः ॥ १.२५३.३४ ॥
持者取了弓,胜者取了杵,愤怒而大力的特瓦希攫起了一座山。
1.253.35
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि ॥ १.२५३.३५ ॥
阿姆沙取了长矛;死神取了斧;阿利耶曼举起可怕的铁杵也四处行动。
1.253.36
मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान् ।
पूषा भगश्च संक्रुद्धः सविता च विशांपते ॥ १.२५३.३६ ॥
密多罗手持边缘如刀的飞轮而立;人主啊,补善、薄伽以及极度愤怒的萨维特里也都站立起来。
1.253.37
आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः ।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ॥ १.२५३.३७ ॥
克里希那与帕尔塔手持弓剑向前冲去;楼陀罗、婆苏以及大力的摩录多也一同前进。
1.253.38
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ॥ १.२५३.३८ ॥
诸维什瓦提婆与萨底耶以自身光辉闪耀而来;他们与其他众多天神,共同对抗那二位人中至尊。
1.253.39
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे ॥ १.२५३.३९ ॥
他们想杀死克里希那与帕尔塔,手持各式武器向他们逼近;在那场大战中,出现了奇异的征兆。
1.253.40
युगान्तसमरूपाणि भूतसंमोहनानि च ।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ ॥ १.२५३.४० ॥
这些征兆形如劫末,令众生迷惑;那两位不朽者(克里希那与阿周那)见因陀罗与诸神极度愤怒,
1.253.41
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ ॥ १.२५३.४१ ॥
那二人在战场上无所畏惧、不可战胜,张弓搭箭而立;当诸神逼近时,这两位善战之人,
1.253.42
व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा ।
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः ॥ १.२५३.४२ ॥
那二人愤怒之下,以如金刚般的箭矢射击诸神;诸神的决心一再被挫,屡次被击败。
1.253.43
भयाद्रणं परित्यज्य शख्रमेवाभिशिश्रियुः ।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च ॥ १.२५३.४३ ॥
他们因恐惧而放弃战斗,只拿起兵器,见天神被摩陀婆与阿周那所阻。
1.253.44
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः ।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ॥ १.२५३.४४ ॥
那里,立于空中的诸仙人感到惊异;帝释天也在战中屡次察觉到二人的威力。
1.253.45
बभूव परमप्रीतो भूयश्चैतावयोधयत् ।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ॥ १.२५३.४५ ॥
他十分欢喜,又与这二人交战;于是帝释天(巴卡沙萨那)降下了极大的石雨。
1.253.46
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ।
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः ॥ १.२५३.४६ ॥
那时,他又想试探萨维亚萨钦(阿周那)的威力,阿周那大怒,以箭抵挡那阵箭雨。
1.253.47
विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः ।
भूयः संवर्धयामास तद्वर्षं पाकशासनः ॥ १.२५३.४७ ॥
见那阵雨变得无效,百祭(帝释天)巴卡沙萨那又将它加强。
1.253.48
सोश्मवर्षं महावेगैरिषुभिः पाकशासनिः ।
विलयं गमयामास हर्षयन्पितरं तथा ॥ १.२५३.४८ ॥
这位帕卡沙萨那之子(阿周那)以极速的箭矢将那阵石雨化为乌有,从而令父亲欢喜。
1.253.49
तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत् ।
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥ १.२५३.४९ ॥
于是因陀罗欲杀般度之子,双手拔起曼陀罗山一座巨大的山峰,连同树木,将其投掷而出。
1.253.50
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः ।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥ १.२५३.५० ॥
于是阿周那以迅疾、尖端燃烧、笔直飞行的箭,将山峰击碎为千片。
1.253.51
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः ॥ १.२५३.५१ ॥
那座山在崩碎之时的形状,此时看上去如同日月蚀中天空破裂一般。
1.253.52
तेनाभिपतता दावं शैलेन महता भृशम् ।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः ॥ १.२५३.५२ ॥
那座巨山猛烈地落在林火之上,居于康达瓦的众生便在那里被杀死。