Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.255

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.255.1

किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे ॥ १.२५५.१ ॥

当森林如此燃烧时,火为何没有烧死沙尔伽迦?婆罗门啊,请为我解说。

1.255.2

अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च ।
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम् ॥ १.२५५.२ ॥

婆罗门啊,阿瓦塞那与檀那婆摩耶不被焚烧的原因已经讲述,而沙尔伽迦的原因却未讲述。

1.255.3

तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम् ।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥ १.२५५.३ ॥

婆罗门啊,请讲述这奇迹:沙尔伽迦在大火中安然无恙、未被毁灭,是如何发生的?

1.255.4

यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम ॥ १.२५५.४ ॥

降伏敌人者啊,我将把事情的原委如实告诉你:当森林如此燃烧时,火为何没有烧死沙尔伽迦。

1.255.5

धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥ १.२५५.५ ॥

有一位大仙人,是知法者中的第一人,持守坚定誓愿、苦修、博学,名为曼达帕拉。

1.255.6

स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम् ।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥ १.२५५.६ ॥

国王啊,他遵循上行精液的仙人之道,专心诵习吠陀,喜好法,是克制感官的苦行者。

1.255.7

स गत्वा तपसः पारं देहमुत्सृज्य भारत ।
जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥ १.२५५.७ ॥

婆罗多之裔啊,他完成苦行,舍弃身体,前往祖灵之界,却在那里未得其果报。

1.255.8

स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥ १.२५५.८ ॥

他看到那些以苦行赢得却无果报的世界,便询问站在法王身边的天界居民。

1.255.9

किमर्थमावृता लोका ममैते तपसाऽर्जिताः ।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम् ॥ १.२५५.९ ॥

我以苦行所得的这些世界,为何被阻碍?我在那里有何未做之事,以至于有此行为的果报?

1.255.10

तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।
फलमेतस्य तपसः कथयध्वं दिवौकसः ॥ १.२५५.१० ॥

为何此处被阻,我将在那里去做那件事。天界的诸位啊,请告诉我这苦行的果报。

1.255.11

ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु ।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥ १.२५५.११ ॥

婆罗门啊,人生来负债。请听他们如何得以解脱:以祭祀、梵行与子嗣——此中无疑。

1.255.12

तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः ।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा ॥ १.२५५.१२ ॥

以祭祀、苦行与子嗣,此一切皆可偿清。你虽有苦行,也行祭祀,却无子嗣。

1.255.13

त इमे प्रसवस्यार्थे तव लोकाः समावृताः ।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान् ॥ १.२५५.१३ ॥

这些世界都为你的生育而封闭。你应当生育子嗣,然后便能享用丰盛的诸世界。

1.255.14

पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः ।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम ॥ १.२५५.१४ ॥

经典说,儿子能从名为“普特”的地狱中拯救父亲。因此,婆罗门中最杰出者啊,应努力延续子嗣。

1.255.15

तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम् ।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥ १.२५५.१५ ॥

曼陀波罗听了诸天人的这番话,思量道:“多子嗣将很快在何处得到呢?”

1.255.16

स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान् ।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥ १.२५५.१६ ॥

他如此思量,走向那些多产幼雏的鸟类。化为雄性沙尔伽鸟,他去到雌性沙尔伽鸟贾里塔身边。

1.255.17

तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः ।
तानपास्य स तत्रैव जगाम लपितां प्रति ॥ १.२५५.१७ ॥

他与她生下四子,皆是诵说吠陀的人。他就在那里丢下他们,前往拉皮塔那里去了。

1.255.18

बालान्स तानण्डगतान्सह मात्रा मुनिर्वने ।
तस्मिन्गते महाभागे लपितां प्रति भारत ॥ १.२५५.१८ ॥

那位仙人把在卵中的那些幼子连同他们的母亲留在林中,前往拉皮塔那里,哦,婆罗多。

1.255.19

अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् ।
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने ॥ १.२५५.१९ ॥

满怀对子女的爱,遮利多深思那些尚在卵中的仙人——他在森林中遗弃了他们,而这些人本不应被遗弃。

1.255.20

न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान् ।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा ॥ १.२५५.२० ॥

遮利因丧子之痛而悲伤,没有在坎达瓦森林中抛弃儿子们;她被爱所困,以自己的谋生之道抚养这些新生儿。

1.255.21

ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥ १.२५५.२१ ॥

那时,仙人曼达帕拉看见火神阿耆尼前来焚烧坎达瓦森林;他正与妻子拉皮塔一同在那片森林中漫游。

1.255.22

तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् ।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम् ॥ १.२५५.२२ ॥

这位婆罗门仙人得知阿耆尼的决意,也知道自己年幼的儿子们,于是大加赞颂火神迦塔维达斯。

1.255.23

पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम् ।
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट् ॥ १.२५५.२३ ॥

他惊恐地回应儿子们,对这位大能的世界守护者说:"阿耆尼啊,你是一切世界的口;你是承载祭品的。"

1.255.24

त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ॥ १.२५५.२४ ॥

"啊,净化者,你隐藏在一切众生之中游行。智慧的诗人称你为一,又称你为三重。"

1.255.25

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः ॥ १.२५५.२५ ॥

他们将你塑造为八种形态,使你成为承载祭祀者。至高的仙人说,这个世界是由你所创造。

1.255.26

त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ॥ १.२५५.२६ ॥

啊,胡陀娑那,没有你,整个世界将立刻毁灭。婆罗门向你致敬后,便获得由自身祭祀所赢得的归宿。

1.255.27

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ।
त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः ॥ १.२५५.२७ ॥

他们与妻子、儿子一同前往永恒之处。啊,阿耆尼,人们称你为附着于天空、伴随闪电的云。

1.255.28

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥ १.२५५.२८ ॥

从你而出的火焰焚烧一切众生。啊,迦陀吠陀,啊,大光明者,这个世界正是由你所创造。

1.255.29

तवैव कर्मविहितं भूतं सर्वं चराचरम् ।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ॥ १.२५५.२९ ॥

一切动与不动的众生,皆由你的作为所安排。往昔诸水是由你所设立,而整个世界都在你之中。

1.255.30

त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः ॥ १.२५५.३० ॥

供奉诸神之祭与祭祀祖先之供物,都正确地安立于你之中。啊,天神,你是燃烧者,你是创造者,你是歌神布里哈斯帕蒂。

1.255.31

त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ।
एवं स्तुतस्तदा तेन मन्दपालेन पावकः ॥ १.२५५.३१ ॥

你是双阿湿婆、双生阎摩、密多罗;你是苏摩,也是风。当时曼达帕罗如此赞颂,净化者(阿耆尼)……

1.255.32

तुतोष तस्य नृपते मुनेरमिततेजसः ।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥ १.२५५.३२ ॥

国王啊,他对这位光辉无量的仙人感到满意。心中欢喜,他对他说:“你所希望的,我当为你做什么?”

1.255.33

तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् ।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥ १.२५५.३३ ॥

曼达帕罗合掌对那位运载祭品者(阿耆尼)说:“焚烧康达瓦森林时,请放过我的儿子们。”

1.255.34

तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः ।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया ॥ १.२५५.३४ ॥

他答应说“就这样吧”,但那时吉祥的哈维亚瓦哈那出于想要观看的愿望,并未在康达瓦燃烧起来。