摩诃婆罗多 · 章 1.257
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.257.1
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः ॥ १.२५७.१ ॥
从洞中出来的老鼠被鹰抓走了。它用爪子抓住这小东西飞走了;此处你们并无恐惧。
1.257.2
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः ॥ १.२५७.२ ॥
我们并不知道那只老鼠是被鹰以任何方式抓走的。此处还有其他惊惧的生灵;我们也怕它们。
1.257.3
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः ॥ १.२५७.३ ॥
或许火会到来,又见风折返。居于洞中的生灵可能为我们带来死亡;就在洞中,此事毫无疑问。
1.257.4
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान् ॥ १.२५७.४ ॥
母亲啊,可疑之死胜过确定之死。你应依法在天空翱翔,将得到优秀的儿子。
1.257.5
अहं वेगेन तं यान्तमद्राक्षं पततां वरम् ।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम् ॥ १.२५७.५ ॥
孩子们,我看见那最好的、大力的鹰飞快地离去,它已从洞中叼走了老鼠。
1.257.6
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात् ॥ १.२५७.६ ॥
我急速地从后面追赶那飞翔的鹰,为它祈祷祝福,它正从洞中夺去老鼠。
1.257.7
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥ १.२५७.७ ॥
鹰王啊,你带走了我们的仇敌而飞奔而去,请升上天空,成为无敌的金色之身。
1.257.8
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा ।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम् ॥ १.२५७.८ ॥
当那只有翼的鹰吃掉那只老鼠之后,我得到它的允许,又回到了家中。
1.257.9
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना ॥ १.२५७.९ ॥
孩子们,无所畏惧地进入洞穴吧,你们没有危险。就在我眼看着的时候,那位大德的鹰把老鼠抓走了。
1.257.10
न विद्महे हृतं मातः श्येनैनाखुं कथंचन ।
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः ॥ १.२५७.१० ॥
母亲啊,我们无论如何都不知道鹰已经把老鼠抓走了。不知道这一点,我们不能进入地洞。
1.257.11
अहं तमभिजानामि हृतं श्येनेन मूषिकम् ।
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम ॥ १.२५७.११ ॥
我很清楚,那只鹰已经把那只老鼠抓走了。孩子们,这里你们没有危险,请听我的话。
1.257.12
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥ १.२५७.१२ ॥
你不可能用虚假的客套把我们从恐惧中解救出来。当知识混乱时,那并非智慧所为。
1.257.13
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव ॥ १.२५७.१३ ॥
我们未曾对你有过任何恩惠,你也不认识我们是谁。你身处困境,为何仍要养育我们?贤淑的女子啊,我们对你来说是谁?
1.257.14
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे ।
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान् ॥ १.२५७.१४ ॥
你年轻美丽,有能力寻找丈夫。去追随你的丈夫吧,你将得到优秀的儿子。
1.257.15
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान् ।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥ १.२५७.१५ ॥
我们将进入火中,获得美好的世界。否则,愿火不要烧我们;你再回到我们这里来。
1.257.16
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनामयम् ॥ १.२५७.१६ ॥
听罢此言,雌鸟沙冈迦便在坎达瓦森林中舍弃了她的儿子们,急速地奔往一个安全、不受火灾侵害之地。
1.257.17
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः ।
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः ॥ १.२५७.१७ ॥
于是,火焰锐利的祭品运载者火神迅速来到了曼达帕拉之子沙冈迦鸟所在之处。
1.257.18
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः ।
व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।
जरितारिस्ततो वाक्यं श्रावयामास पावकम् ॥ १.२५७.१८ ॥
于是,雀鸟们见那熊熊燃烧的火焰,心中痛苦,从近处发出悲切的呼声。随后,耆跋里塔里对火神说出了这番话。