Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.258

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.258.1

पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः ।
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् ॥ १.२५८.१ ॥

智慧之人在困难来临之前保持警觉,困难降临时便永不陷入痛苦。

1.258.2

यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते ।
सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत् ॥ १.२५८.२ ॥

糊涂之人在困难降临时仍不察觉,困难之时心生痛苦,便不能获得大的福祉。

1.258.3

धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः ॥ १.२५८.३ ॥

你坚定而有智慧,而这是关乎我们性命的危难。一个有智慧又勇敢的人,确实能抵得上许多人,这毫无疑问。

1.258.4

ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।
ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति ॥ १.२५८.४ ॥

长者确实如同父亲,长者能把人从困境中解救出来。若长者不明白,年幼者又能做什么呢?

1.258.5

हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम् ।
सप्तजिह्वाननः क्रूरो लिहानो विसर्पति ॥ १.२५८.५ ॥

金种之火迅速燃烧,并非朝着我们的毁灭而来;那七舌的残酷之面一边舔舐一边蔓延。

1.258.6

एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः ।
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव ॥ १.२५८.६ ॥

彼此如此交谈之后,曼达帕拉之子们怀着虔敬,恭敬地赞颂火神。大王,请听。

1.258.7

आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम् ।
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः ॥ १.२५८.७ ॥

你是风的灵魂,燃烧者啊,你也是草木的身体。水是你的源头,精液也是你的源头;你正是水的源头。

1.258.8

ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा ।
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा ॥ १.२५८.८ ॥

你的火焰向上向下、向后向两侧蔓延,大威力者啊,如同太阳的光芒。

1.258.9

माता प्रणष्टा पितरं न विद्मः ।
पक्षा जाता नै नो धूमकेतो।
न नस्त्राता विद्यते वै त्वदन्य-
स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने ॥ १.२५८.९ ॥

我们的母亲已经死去,我们也不知道父亲是谁。烟幡之主啊,我们并非生有翅膀。除你之外,我们没有别的保护者;因此,阿耆尼啊,请保护我们这些孩子。

1.258.10

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः ॥ १.२५८.१० ॥

阿耆尼啊,以你吉祥的形相和你的七个火焰,请完全保护我们这些受苦、寻求庇护的人。

1.258.11

त्वमेवैकस्तपसे जप्तवेदो ।
नान्यस्तप्ता विद्यते गोषु देव।
ऋषीनस्मान्बालकान्पालयस्व ।
परेणास्मान्प्रेहि वै हव्यवाह ॥ १.२५८.११ ॥

知一切者啊,唯有你堪为苦行之火;即便在牛群中,也找不到另一位纯净者,神啊。请保护我们、这些仙人和孩子;承载祭品者啊,请远离我们。

1.258.12

सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १.२५८.१२ ॥

阿耆尼啊,一切唯有你;这整个世界都在你之中。你承载众生,也护持着这世界。

1.258.13

त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च ॥ १.२५८.१३ ॥

你是阿耆尼,承载祭品者;你正是至高的祭品。智者以多种方式认识你,也以一种方式认识你。

1.258.14

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह ।
काले प्राप्ते पचसि पुनः समिद्धः।
त्वं सर्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ १.२५८.१४ ॥

承载祭品者啊,你创造了这三界;时机到来时,你再次燃起并烹煮。你是整个世界的源头,阿耆尼啊,你又是它的根基。

1.258.15

त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते ।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥ १.२५८.१५ ॥

世界之主啊,你是众生所食的食物,内在而住;永恒增长的你烹煮,一切都依你而立。

1.258.16

सूर्यो भूत्वा रश्मिभिर्जातवेदो ।
भूमेरम्भो भूमिजातान्रसांश्च।
विश्वानादाय पुनरुत्सृज्य काले ।
दृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ १.२५८.१६ ॥

耶陀迦陀啊,你化为太阳,以光线取走大地之水与地中生出的一切精华;随后在适时将其释放,以雨水在此滋养,光明者啊。

1.258.17

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥ १.२५८.१७ ॥

光明者啊,从你这里又生出这些绿叶的草木与藤蔓,还有莲花池与吉祥的大海。

1.258.18

इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय ॥ १.२५८.१८ ॥

锐光者啊,这确是伐楼那的居所与归宿;请作我们吉祥的护佑者,今日莫要毁灭我们。

1.258.19

पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन ।
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव ॥ १.२५८.१९ ॥

啊,黄眼者、红颈者、黑路者、食供物者!远远离去,放过我们,如同离开大海的居所。

1.258.20

एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना ।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥ १.२५८.२० ॥

婆罗门论者德罗纳如此说道,遍知生者(阇多韦陀)心中欢喜,因对曼达帕拉的誓言而对德罗纳说。

1.258.21

ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं ।
ईप्सितं ते करिष्यामि न च ते ॥ १.२५८.२१ ॥

德罗纳啊,你确是仙人;依你所说的这句梵语,我必为你成就所愿;并且你的……

1.258.22

मन्दपालेन वै यूयं मम पूर्वं निवेदिताः ।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥ १.२५८.२२ ॥

曼达帕拉此前已将你们告知于我;焚烧林火时,你们应当放过我的幼子。

1.258.23

तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम् ।
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते।
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम ॥ १.२५८.२३ ॥

他的那番话和你在此所说的,对我而言都十分重要;告诉我,我该为你做什么?婆罗门啊,善人中最优秀者,我因你的赞颂而深感欢喜;愿你吉祥。

1.258.24

इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः ।
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान् ॥ १.२५८.२४ ॥

啊,尸舍雅,这些猫(蛇)时常扰乱我们;啊,食供物者,连同它们的亲族一并焚烧吧。

1.258.25

तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् ।
ददाह खाण्डवं दावं समिद्धो जनमेजय ॥ १.२५८.२५ ॥

火神便如此行事:允许了沙尔伽迦,燃烧起来,焚烧了犍陀婆森林,啊,驽迦摩阁耶。