摩诃婆罗多 · 章 1.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.26.1
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः ।
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत् ॥ १.२६.१ ॥
当时,被迦都卢赞颂的、以哈里为坐骑的世尊,用青黑色的云团遮盖了整个天空。
1.26.2
मेघानाज्ञापयामास वर्षध्वममृतं शुभम् ।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः ॥ १.२६.२ ॥
他命令云层:“降下吉祥的甘露吧。”那些被闪电照亮的云便倾泻出大量的水。
1.26.3
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः ॥ १.२६.३ ॥
仿佛彼此争竞,在天空中极力轰鸣不绝,天空被那些极其奇异的云层所笼罩。
1.26.4
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ।
संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः ॥ १.२६.४ ॥
不断倾泻无与伦比的雨水,伴随着巨大的轰鸣,天空仿佛以无数的水流与波浪而翩翩起舞。
1.26.5
मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः ।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा ॥ १.२६.५ ॥
那些被闪电和狂风震动、伴随着雷鸣的云,那时日夜不停地倾下倾盆大雨。
1.26.6
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत ।
नागानामुत्तमो हर्षस्तथा वर्षति वासवे ॥ १.२६.६ ॥
月亮和太阳的光芒消失,天空便成了那样;在因陀罗(婆娑婆)降雨之际,诸蛇(那伽)生起了至高的喜悦。
1.26.7
आपूर्यत मही चापि सलिलेन समन्ततः ।
रसातलमनुप्राप्तं शीतलं विमलं जलम्। ॥ १.२६.७ ॥
大地也从四面八方被水充满,清凉澄澈的水直达罗萨塔拉(地下界)。
1.26.8
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः ।
रामणीयकमागच्छन्मात्रा सह भुजंगमाः ॥ १.२६.८ ॥
那时大地被无数水浪覆盖,诸蛇与它们的母亲一同美丽地来到那里。