摩诃婆罗多 · 章 1.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.27.1
संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा ।
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै ॥ १.२७.१ ॥
于是,被水流浸润、极为欢喜的诸蛇由金翅鸟载着,迅速前往那座岛屿。
1.27.2
तं द्वीपं मकरावासं विहितं विश्वकर्मणा ।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः ॥ १.२७.२ ॥
先前已到达那里的他们,在这座由毗首羯摩所造、为摩伽罗之居的岛上,看见了那可怖的咸水之海。
1.27.3
सुपर्णसहिताः सर्पाः काननं च मनोरमम् ।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिजादितम् ॥ १.२७.३ ॥
随同金翅鸟而来的诸蛇,看见了被海水环绕、回荡着鸟群鸣声的美丽森林。
1.27.4
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् ।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥ १.२७.४ ॥
它被布满奇异果实与花朵的树林所覆盖,也被可爱的宫室和莲池所环绕。
1.27.5
प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम् ।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥ १.२७.५ ॥
它被清澈湖水的神圣湖泊所装饰,并被携带神香的圣风轻轻吹拂。
1.27.6
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः ॥ १.२७.६ ॥
它还被来自摩罗耶山的檀香树所点缀,那些树仿佛要升上天空,在风中摇动,洒下花雨。
1.27.7
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः ।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः ॥ १.२७.७ ॥
风吹散的花朵和其他树木也一同飘落,仿佛向站立在那里的蛇众洒下花与水的雨。
1.27.8
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम् ।
मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम् ॥ १.२७.८ ॥
神圣的,生于心中的喜悦,为乾闼婆与阿普萨拉斯所钟爱,回荡着醉蜂的嗡鸣,形态悦目可观。
1.27.9
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः ।
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥ १.२७.९ ॥
令人愉悦、吉祥而神圣,令所有人心醉,因众多鸟鸣而优美,使迦德卢之子们欢喜。
1.27.10
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा ।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम् ॥ १.२७.१० ॥
蛇众到达那片森林后便在那里嬉戏,并对大力的鸟王苏波尔那说道。
1.27.11
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम् ।
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर ॥ १.२७.११ ॥
请把我们带到另一座清澈水域的美丽岛屿上去吧;你这飞行于天空之人,行走时已见过许多美好的国土。
1.27.12
स विचिन्त्याब्रवीत्पक्षी मातरं विनतो तदा ।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥ १.२७.१२ ॥
那鸟沉思后对母亲毗娜达说道:“母亲啊,我为何要照蛇众的话去做呢?”
1.27.13
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम ।
पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥ १.२७.१३ ॥
鸟中之王啊,因我对头的恶计,我沦为了奴婢。蛇众以虚假的赌注设下诡计,才做成了此事。
1.27.14
तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः ।
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥ १.२७.१४ ॥
母亲说明原因后,那在天空中飞翔的鸟因这份悲痛而哀伤,便对蛇众说了这番话。
1.27.15
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् ।
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः ॥ १.२७.१५ ॥
我该带来什么、知道什么,或在此建立什么功绩,才能使那鸟脱离你们的奴役?舔舌的蛇众啊,请说实话。
1.27.16
श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा ।
ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥ १.२७.१६ ॥
蛇众听闻此言,齐声说:'以你的力量取来甘露;那时,飞行于天空者啊,那鸟便可脱离奴役。'