Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.28.1

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥ १.२८.१ ॥

蛇如此相告后,金翅鸟便对母亲说:“我要去取甘露;我想知道该吃什么食物。”

1.28.2

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् ।
भवनानि निषादानां तत्र सन्ति द्विजोत्तम ॥ १.२८.२ ॥

在大海腹中一处僻静之地,有尼沙陀人的优美住所;婆罗门中最优秀者啊,那里有尼沙陀人的房屋。

1.28.3

पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम् ।
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय ॥ १.२८.३ ॥

有成千上万的尼沙陀人,他们是罪人,世界已失,冷酷无情,心地邪恶;吃掉他们之后,把甘露带回来。

1.28.4

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन ।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥ १.२८.४ ॥

你绝不可以任何方式起心杀害婆罗门;婆罗门为一切众生所不可杀,他如同火焰。

1.28.5

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः ॥ १.२८.५ ॥

火、太阳、毒药和武器——婆罗门发怒时便如同它们;婆罗门被宣称为一切众生的导师。

1.28.6

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः ।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा ॥ १.२८.६ ॥

凭借这些及类似的本性,婆罗门受到善人的尊重;孩子,即使你完全愤怒,也绝不可杀他。

1.28.7

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन ।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ ॥ १.२८.७ ॥

决不可以任何方式伤害婆罗门。无垢者啊,火与太阳也不会这样焚毁。

1.28.8

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः ।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ॥ १.२८.८ ॥

正如持守坚定誓言的婆罗门在极度愤怒时所为,你应当通过这些各种各样的标志认出那位最优秀的再生者。

1.28.9

भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः ।
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः ॥ १.२८.९ ॥

婆罗门是众生中的先生者,种姓中的最优者,是父亲和导师——母亲啊,婆罗门的形貌如何,品行如何,威力如何?

1.28.10

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः ।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः ॥ १.२८.१० ॥

那像火一样光明的人是什么样子?那温和面容的人又是什么模样?我怎样凭吉祥的标志认出婆罗门?

1.28.11

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ।
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा ॥ १.२८.११ ॥

因此,母亲啊,你应当告诉我,说明我问的缘由:那在你喉中像被吞下的鱼钩一样卡住的人是谁。

1.28.12

दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम् ।
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा ॥ १.२८.१२ ॥

应当知道那能把儿子像炭火一样烧灼的人,是婆罗门中的雄牛。即使愤怒,你也永远不可杀害婆罗门。

1.28.13

प्रोवाच चैन विनता पुत्रहार्दादिदं वचः ।
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम् ॥ १.२८.१३ ॥

维那塔出于对儿子的爱,对他说了这些话:那在腹中不能消化的,你要知道他是最杰出的再生者。

1.28.14

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः ।
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा ॥ १.२८.१४ ॥

维那塔虽知其无比的力量,却专心于祝福,出于对儿子的爱,再次说了这些话。

1.28.15

प्रीता परमदुःखार्ता नागैर्विप्रकृता सती ।
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः ॥ १.२८.१५ ॥

贤德的维那塔被蛇所欺辱,深受悲痛之苦,却心怀欢喜地说:愿风守护你的翅膀,愿月与日从后方护佑你。

1.28.16

शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम् ।
विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह।
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा ॥ १.२८.१६ ॥

愿火神守护你的头颅,诸婆苏从四面护卫你的身体,遍在的毗湿奴守护你的全身。孩子,我也会永远为你的平安与吉祥而虔心祈愿。

1.28.17

इहासीना भविष्यामि स्वस्तिकारे रता सदा ।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये ॥ १.२८.१७ ॥

我将坐在此处,永远致力于吉祥之事。孩子,走一条无害的道路去完成你的使命吧。

1.28.18

ततः स मातुर्वचनं निशम्य ।
वितत्य पक्षौ नभ उत्पपात।
ततो निषादान्बलवानुपागतो ।
बुभुक्षितः काल इवान्तकोऽपरः ॥ १.२८.१८ ॥

于是他听了母亲的话,展开双翼飞上天空。随后这位强大而饥饿的鸟,如另一位死神、时间本身,降临到尼沙陀人之中。

1.28.19

स तान्निषादानुपसंहरंस्तदा ।
रजः समुद्धूय नभःस्पृशं महत्।
समुद्रकुक्षौ च विशोषयन्पयः ।
समीपजान्भूधरजान्विचालयन् ॥ १.२८.१९ ॥

于是他聚集那些尼沙达,扬起触及天空的巨大尘土,使海洋腹中的水干涸,震动了附近以及山中所生之物。

1.28.20

ततः स चक्रे महदाननं तदा ।
निषादमार्गं प्रतिरुध्य पक्षिराट्।
ततो निषादास्त्वरिताः प्रवव्रजु-
र्यतो मुखं तस्य भुजंगभोजिनः ॥ १.२८.२० ॥

于是他张开一个巨大的口,阻断了尼沙达的道路。尼沙达们便急忙奔向食蛇者之口所在之处。

1.28.21

तदाननं विवृतमतिप्रमाणव-
त्समभ्ययुर्गगनमिवार्दिताः खगाः।
सहस्रशः पवनजोविमोहिता ।
यथा।ञनिलप्रचलितपादपे वने ॥ १.२८.२१ ॥

那巨大的口一张开,他们便成千上万地被迷惑而奔向它,如同在风吹树摇的林中受惊的鸟飞向天空。

1.28.22

ततः खगो वदनममित्रतापनः ।
समाहरत्परिचपलो मत्बलाः।
निषूदयन्बहुविधमत्स्यजीविनो ।
बभुक्षितो गगनचरेश्वरस्तदा ॥ १.२८.२२ ॥

于是那只鸟,天空游者之王,敌人的折磨者,极其迅捷而强大,饥饿难耐,收拢其口,消灭了许多以捕鱼为生的尼沙达。