Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.29.1

तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥ १.२९.१ ॥

抵达他咽喉的那位婆罗门,与妻子一同,如燃烧的炭火般光耀,对那在空中飞行者说道。

1.29.2

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ १.२९.२ ॥

二生者中最优秀的人啊,快从这敞开的口中出来吧。即使婆罗门总是沉迷于罪恶之事,我也不会杀害他。

1.29.3

ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत ।
निषादी मम भार्येयं निर्गच्छतु मया सह ॥ १.२९.३ ॥

当他这样对迦楼罗说话时,婆罗门回答道:“这位尼沙陀女子是我的妻子,让她也与我一同出来吧。”

1.29.4

एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।
तूर्णं संभावयात्मानमजीर्णं मम तेजसा ॥ १.२९.४ ॥

你也把这位尼沙陀女子带上,迅速飞出去吧。请把自己当作不能被我的威力消化之物。

1.29.5

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा ।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥ १.२९.५ ॥

于是,那位婆罗门与尼沙陀女子一同出来,祝福了迦楼罗,然后前往他想去的地方。

1.29.6

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।
वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥ १.२९.६ ॥

那位婆罗门与妻子出去之后,鸟王以意念般的速度展开双翼,腾空飞入天空。

1.29.7

ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः ।
यथान्यायममेयात्मा तं चोवाच महानृषिः ॥ १.२९.७ ॥

于是他看见了自己的父亲;父亲询问时,他依礼将一切如实告知。那位灵魂无量的大仙对他说道。

1.29.8

कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत ।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु
क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि ॥ १.२९.८ ॥

孩子,你们在饮食上是否总是安好?你在人间能否得到充足的食物?你这样飞快要去哪里?你应当告诉我。

1.29.9

माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् ।
न हि मे कुशलं तात भोजने बहुले सदा ॥ १.२९.९ ॥

我的母亲一向安好,兄长亦然,我也是如此。但是父亲啊,即使食物充足,我却从不曾安好。

1.29.10

अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम् ।
महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥ १.२९.१० ॥

诸蛇派我去取至上的苏摩。为了解脱奴役,我今日必定将它取来。

1.29.11

मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह ।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥ १.२९.११ ॥

母亲在此命令我吞食尼沙陀人。然而即便吞食了成千上万人,我仍未得满足。

1.29.12

तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे ।
यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो ॥ १.२९.१२ ॥

因此,尊贵者啊,请为我指示另一种食物,吃了它我便能取来甘露,主啊。

1.29.13

क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् ।
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम् ॥ १.२९.१३ ॥

请告诉我可以解除饥渴的食物。此湖极为圣洁,即使在天界也负有盛名。

1.29.14

यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः ।
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः ॥ १.२९.१४ ॥

象常常低着头拖拽龟的长兄之处——那二者前世的仇怨,我将毫无遗漏地讲述。

1.29.15

तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ ।
शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् ॥ १.२९.१५ ॥

那二者的大小之理,你且从我这里明白。孩子,愿你平安,请听这能增长出离心的故事。

1.29.16

पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज ।
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ॥ १.२९.१६ ॥

古老的卵生者啊,请听那因分割父亲财产而起的故事。有一位名叫毗婆娑的大仙,极易发怒。

1.29.17

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ।
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ॥ १.२९.१७ ॥

他的弟弟名叫苏普罗提卡,是大苦行者。那位大仙不愿与兄长共同持有财物。

1.29.18

विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः ।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ॥ १.२९.१८ ॥

苏普罗提卡总是谈论分财之事。于是兄长毗婆娑对苏普罗提卡说道。

1.29.19

विभागे बहवो दोषा भविष्यन्ति महातपः ।
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।
ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥ १.२९.१९ ॥

大苦行者啊,分割之中将会产生许多过失。由于迷惑,人们总是想要分割;随后,分离并被财富迷惑的人们便不再相互尊重。

1.29.20

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः ।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥ १.२९.२० ॥

于是,那些自私、愚昧、因自己的财富而分离的人,被伪装成朋友的敌人所察知,便挑拨离间他们。

1.29.21

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥ १.२९.२१ ॥

其他人知道分离的人之后,便乘虚而入;于是分离者的无比毁灭很快便会到来。

1.29.22

तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः ।
एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् ॥ १.२९.२२ ॥

因此善人不赞美兄弟的分割。虽被如此劝告,须跋提迦仍不停地宣称自己的那一份。

1.29.23

एवं निर्बध्यमानस्तु शशापैनं विभावसुः ।
गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम् ॥ १.२९.२३ ॥

被如此逼迫,毗婆娑便诅咒了他——这是针对那些不受长者教导约束、彼此猜忌的人而说的。

1.29.24

नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि ।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ १.२९.२४ ॥

你想通过分割获取财富,因此无法被约束。所以,须跋提迦啊,你将获得象的身份。

1.29.25

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥ १.२९.२५ ॥

被诅咒后,苏普拉提卡对毗跋娑说:“你也将成为在水中游动的乌龟。”

1.29.26

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥ १.२९.२६ ॥

如此,因彼此诅咒,苏普拉提卡与毗跋娑为了财富而心智迷惑,竟陷入象与龟的境地。

1.29.27

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि ।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥ १.२९.२७ ॥

因愤怒与过失的牵连,他们堕入畜生之胎,却仍沉溺于彼此的仇恨,因自己的力量而骄傲自负。

1.29.28

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।
तयोरन्यतरः श्रीमान्समुपैति महागजः ॥ १.२९.२८ ॥

在这湖中,那两个巨大身躯者,追随旧日的仇怨;其中一位,光辉的大象,走近了。

1.29.29

यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः ।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः ॥ १.२९.२९ ॥

他一声嘶鸣,连卧于水中的龟也惊起;那巨大身躯者搅动整个湖水。

1.29.30

तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम् ।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥ १.२९.३० ॥

见到他,这头勇猛的大象卷起鼻子,以獠牙、鼻尖、尾巴和脚的冲力扑入水中。

1.29.31

विक्षोभयंस्ततो नागः सरो बहुझषाकुलम् ।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥ १.२९.३१ ॥

于是大象搅动了充满众多鱼类的湖水而来;勇猛的乌龟也昂起头,出来迎战。

1.29.32

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ १.२९.३२ ॥

大象高六由旬,长度是其两倍;乌龟高三由旬,周长十由旬。

1.29.33

तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ ।
उपयुज्याशु कर्मेदं साधये हितमात्मनः ॥ १.२९.३३ ॥

这两者都因战斗而狂躁,彼此寻求对方的死亡。愿我迅速完成此事,以成就自己的利益。

1.29.34

महाभ्रघनसंकाशं तं भुक्त्वामृतमानय ।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम् ॥ १.२९.३४ ॥

吞食那形如巨大乌云、又似大山、形貌可怖的大象之后,把甘露带来。

1.29.35

इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा ।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् ॥ १.२९.३५ ॥

对迦鲁达说完这些,他便举行了吉祥的仪式。愿你与诸神作战时,在那场战斗中吉祥如意。

1.29.36

पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम् ।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा ॥ १.२९.३६ ॥

满盈的瓶子、婆罗门、牛,以及其他一切殊胜、吉祥、有福之物,这些也都将属于你,啊,卵生者。

1.29.37

युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल ।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च ॥ १.२९.३७ ॥

大力者啊!与诸神交战之人,梨俱诗、夜柔诗、娑摩歌、净物与祭品(将成为他的助力)。

1.29.38

रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् ।
वर्धयिष्यन्ति समरे भविष्यति खगोत्तम।
इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात् ॥ १.२९.३८ ॥

一切秘义与一切吠陀,将在战斗中增益你的力量,禽中最胜者啊。父亲如此吩咐后,迦卢达便前往附近那片湖泊。

1.29.39

अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् ।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ॥ १.२९.३९ ॥

他看见那湖水清澈,满是各种鸟类。想起父亲的那些话,这位速度骇人、翱翔天空者(便前进了)。

1.29.40

नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ।
सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः ॥ १.२९.४० ॥

他以一爪抓起一头象,以另一爪抓起一只龟。那鸟随即抖动身躯,高高飞升于天空。

1.29.41

सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत् ।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ॥ १.२९.४१ ॥

他在圣地抵达阿兰巴树,来到神树之旁。它们惊恐,被他翅膀的风所击,一齐颤抖起来。

1.29.42

न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान् ॥ १.२९.४२ ॥

它们想着“他应该不会折断我们吧”,那些神圣的金枝树便浑身颤抖。看见那些能赐予心愿之果的树木,他……

1.29.43

अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ।
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः।
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥ १.२९.४३ ॥

大鸟飞向其他树木,那些形态与枝干无与伦比,结着金银果实、枝条如吠琉璃,被大海之水环绕、光辉灿烂的巨树。

1.29.44

तेषां मध्ये महानासीत्पादपः सुमनोहरः ।
सहस्रयोजनोत्सेधो बहुशाखासमन्वितः ॥ १.२९.४४ ॥

其中有一棵大树,极为美妙,高一千由旬,枝条繁多。

1.29.45

खगानामालयो दिव्यो नाम्ना रौहिणपादपः ।
यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः ॥ १.२९.४५ ॥

鸟类的神圣居所,名为罗希纳的树;人在其荫下寻求庇护,立刻便得安宁。

1.29.46

तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः ।
अतिप्रवृद्धः समुहानापतन्तं मनोजवम् ॥ १.२९.४६ ॥

那里的罗希纳树,极为茂盛,对那飞扑而下、快如思念的鸟中之王说道。

1.29.47

यैषा मम महाशाखा शतयोजनमायता ।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥ १.२९.४७ ॥

我这根大枝延伸百由旬;你站上这根枝条,便可以吃掉象和龟两者。

1.29.48

ततो द्रुमं पतगसहस्रसेवितं ।
महीधरप्रतिमवपुः प्रकम्पयन्।
खगोत्तमो द्रुतमभिपत्य वेगवा-
न्बभञ्ज तामविरलपत्रसंचयाम् ॥ १.२९.४८ ॥

于是,那鸟中之王身如山岳,迅疾俯冲,扑向那被成千上万鸟类所依栖的大树,摇撼着它,将它折断——那树枝叶繁密。