摩诃婆罗多 · 章 1.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.32.1
ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः ।
गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति ॥ १.३२.१ ॥
于是,从那座最好的山上,大力的鸟王迦卢达迅速来到诸神面前。
1.32.2
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः ।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत ॥ १.३२.२ ॥
诸神见他力量如此之大,便颤抖起来;接着他们便用所有兵器互相攻击。
1.32.3
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता ॥ १.३२.३ ॥
那里有无量灵魂、光辉如闪电与烈火的大勇士婆摩(那罗迦),他是苏摩(甘露)的守护者。
1.32.4
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥ १.३२.४ ॥
他被那位鸟王以翅膀、嘴和爪所伤,短暂地进行了一场无与伦比的战斗后,在战场上被杀。
1.32.5
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः ।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥ १.३२.५ ॥
那飞行于天空者,以双翼之风扬起巨大尘土,使诸世界失去光明,并以尘土洒向诸神。
1.32.6
तेनावकीर्णा रजसा देवा मोहमुपागमन् ।
न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः ॥ १.३२.६ ॥
诸神被那尘土覆盖,陷入迷乱;守护甘露者被尘土遮蔽,也无法如此看清。
1.32.7
एवं संलोडयामास गरुडस्त्रिदिवालयम् ।
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह ॥ १.३२.७ ॥
如此,迦卢达震撼了三界之居所;他以双翼和利喙的打击撕裂了诸神。
1.32.8
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् ।
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत ॥ १.३२.८ ॥
于是千眼之神急忙催促风:“摩录多啊,把这尘雨吹散;此事正是你的职责。”
1.32.9
अथ वायुरपोवाह तद्रजस्तरसा बली ।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥ १.३२.९ ॥
于是强大的风猛烈地吹散了那尘土;黑暗散去后,诸神便攻击那鸟(迦卢达)。
1.32.10
ननादोच्चैः स बलवान्महामेघ इवाम्बरे ।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥ १.३२.१० ॥
那强大者在天空中如大云般高声咆哮;虽被诸神之众击打,仍使一切众生惊惧。
1.32.11
उत्पपात महावीर्यः पक्षिराट् परवीरहा ।
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ॥ १.३२.११ ॥
这位威力非凡、杀敌英雄的鸟王腾空而起;飞升之后,它停在天空中,高于诸神之上。
1.32.12
वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ।
पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः ॥ १.३२.१२ ॥
全副武装的诸神与因陀罗一同,向他倾泻各种兵器:铁棒、带刺的木桩、长矛和铁锤。
1.32.13
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ।
नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः ॥ १.३२.१३ ॥
他四面受到燃烧的利箭、如太阳般的飞轮以及各种兵器的投掷的攻击。
1.32.14
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत ।
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्।
पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान् ॥ १.३२.१४ ॥
鸟王进行着激烈的战斗,却毫不动摇。如同在天空中燃烧一般,威猛的婆罗诃摩之子(迦楼罗)用翅膀和胸膛将诸神四面驱散。
1.32.15
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः ।
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥ १.३२.१५ ॥
于是,被驱散的诸神受到迦楼罗的折磨,逃散而去。被他的爪子与嘴喙所伤,他们流出了大量鲜血。
1.32.16
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः ॥ १.३२.१६ ॥
萨陀耶神与乾闼婆一道向东方去;婆苏神向南方去;被鸟王所袭的楼陀罗诸神一同离去。
1.32.17
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम् ।
मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः ॥ १.३२.१७ ॥
阿提亚神向西方去,那萨提亚(双马神)向北方去。这些大力的神祇不断地望着正在战斗的迦楼罗。
1.32.18
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट् ।
क्रथनेन च शूरेण तपनेन च खेचरः ॥ १.३२.१८ ॥
鸟王,这位在天空中飞翔者,与英雄阿什瓦坎达、勒努卡、勇士克拉萨那和达波那一同作战。
1.32.19
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट् ।
प्ररुजेन च संग्रामं चकार पुलिनेन च ॥ १.३२.१९ ॥
与乌卢迦、娑婆娑那以及尼迷莎交战,鸟王又与普拉如遮和普利那交战。
1.32.20
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।
युगान्तकाले संक्रुद्धः पिनाकीव परंतप ॥ १.३२.२० ॥
毗那塔之子以翅端、利爪与喙尖刺穿了他们,如劫末震怒的持弓者湿婆。哦,敌人的焚烧者!
1.32.21
महाबला महोत्साहास्तेन ते बहुधा क्षताः ।
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥ १.३२.२१ ॥
那些大力而勇猛的战士被他多处所伤,如浓密的乌云般闪耀,倾泻着血流。
1.32.22
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥ १.३२.२२ ॥
使他们全部失去生命后,群鸟之王为了甘露前进,四面看见了火。
1.32.23
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥ १.३२.२३ ॥
大火焰的火,以其光焰遮蔽四方天空,燃烧如被猛烈风吹动的锐光太阳。
1.32.24
सुशीघ्रमागम्य पुनर्जवेन ॥ १.३२.२४ ॥
再次极速靠近,以迅捷的速度。
1.32.25
ज्वलन्तमग्निं तममित्रतापनः ।
समास्तरत्पत्ररथो नदीभिः।
ततः प्रचक्रे वपुरन्यदल्पं ।
प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ १.३२.२५ ॥
摧敌者以河流将那烈焰完全覆盖。随后,他想要进入火中,便将火平息,并化作另一个较小的身形。