Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.33.1

जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः ।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥ १.३३.१ ॥

他化为金色,以光芒之群而闪耀,那鸟如水流奔向大海一般,以力量闯入其中。

1.33.2

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥ १.३३.२ ॥

在甘露旁边,他看见一个边缘如剃刀般锋利的轮子,不停地旋转,刃锋尖利,由铁制成。

1.33.3

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥ १.३३.३ ॥

那台机器如火与太阳般闪耀,可怖,能斩杀窃取苏摩者,形貌极为恐怖,是诸神精心打造的。

1.33.4

तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः ।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह ॥ १.३३.४ ॥

他看见其中的空隙,这飞行于天空的鸟便转身,霎时收缩身体,从轮辐之间穿了过去。

1.33.5

अधश्चक्रस्य चैवात्र दीप्तानलसमद्व्युती ।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ ॥ १.३३.५ ॥

就在轮子下方,有两个,如燃烧之火般光辉,舌如闪电,大有威力,口中与眼中都燃烧着火焰。

1.33.6

चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ ।
अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ ॥ १.३३.६ ॥

他看见两条最优秀的蛇,目光带毒,极为可怖,常常愤怒而迅捷,守护着甘露。

1.33.7

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥ १.३३.७ ॥

他们的眼睛始终怒火燃烧,目光始终不眨。他们中任何一个看向谁,那人立刻就会化为灰烬。

1.33.8

तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः ।
कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ ॥ १.३३.८ ॥

看见这两条蛇,毗那塔之子突然感到沮丧。这两位大力、饮甘露的蛇,如何才能战胜?

1.33.9

इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः ।
तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत्।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत् ॥ १.३३.९ ॥

金翅鸟思虑之后,驱逐敌人的他迅速而突然地用尘土蒙住了他们的眼睛。他以对方看不见的形体,从四面八方击打他们。

1.33.10

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः ।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ १.३३.१० ॥

他踏在二蛇的身上,那在空中翱翔的毗那塔之子,从中间强行夺走甘露,随即朝它冲去。

1.33.11

समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥ १.३३.११ ॥

在那里拔起甘露后,强大的毗那塔之子,英勇地毁坏了那机关,仅凭速度便向上飞腾。

1.33.12

अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः ।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः ॥ १.३३.१२ ॥

仿佛要饮甘露,那鸟抓住它迅速离去;不知疲倦地返回时,他遮蔽了太阳的光辉。

1.33.13

विष्णुना च तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥ १.३३.१३ ॥

于是在天空中,毗湿奴遇见了毗娜塔之子(迦鲁达),那婆罗门因其无贪之行而感到满意。

1.33.14

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥ १.३३.१४ ॥

那位不朽之神对翱翔天空者说:“我是赐予恩典者。”他请求道:“愿我居于您之上,在天空中翱翔。”

1.33.15

उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम् ॥ १.३३.१५ ॥

他又对那罗延说了这些话:“愿我即使没有甘露,也能不老不死。”

1.33.16

एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ।
प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत् ॥ १.३३.१६ ॥

毗湿奴对毗娜塔之子说:“就这样吧。”迦鲁达接受了这两个恩典,对毗湿奴说道。

1.33.17

भवतेपि वरं दद्यां वृणोतु भगवानपि ।
तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम् ॥ १.३३.१७ ॥

“我也会赐你一个恩典;尊者也可以选择。”毗湿奴选择那位大力者作为他的坐骑。

1.33.18

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः ॥ १.३३.१८ ॥

尊者将他制成旗帜,说:“你将立于我之上。”那鸟对那罗延神说:“就这样吧。”

1.33.19

वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः ।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥ १.३३.१९ ॥

他迅捷地飞行,与风竞速,速度极快。当这群鸟中的翘楚飞行时,因陀罗以金刚杵击中了他。

1.33.20

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम् ।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः ॥ १.३३.२० ॥

愤怒地夺取甘露的,鸟中最好的迦卢达,以呼喊向那因陀罗说话;迦卢达,飞翔者中的翘楚。

1.33.21

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम् ॥ १.३३.२१ ॥

他微笑着,以温和的话语,被金刚杵击中后说道:“我将尊重仙人的尊严,也尊重那出自骨骼的金刚杵。”

1.33.22

वज्रस्य च करिष्यामि तवैव च शतक्रतो ।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ॥ १.३३.२२ ॥

“我也将尊重金刚杵,也尊重你,哦百祭之主!我放下这一根羽毛,你将找不到它的尽头。”

1.33.23

न च वज्रनिपातेन रुजा मेऽस्तीह काचन ।
एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट् ॥ १.३३.२३ ॥

“金刚杵的打击于我没有任何痛苦。”说完这话,那鸟王便放开了他的儿子(羽毛)。

1.33.24

तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् ।
हृष्टानि सर्धभूतानि नाम चक्रुर्गरुत्मतः ॥ १.३३.२४ ॥

众生看到那根最上等的羽毛被放下,都欢喜不已,并为迦卢特玛特(的羽毛)取了名字。

1.33.25

सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ।
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरंदरः।
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत ॥ १.३३.२५ ॥

见此美妙的羽毛,心想:“此乃金翅鸟(Suparṇa)吧。”千眼的补罗陀罗(因陀罗)见此大奇,以为“这是一只大鸟”,便对他说道。

1.33.26

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् ।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥ १.३३.२६ ॥

我想知道你至高无上、无与伦比的力量;诸鸟之王啊,我愿与你结下无尽的友谊。