Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.36.1

आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः ।
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम् ॥ १.३६.१ ॥

孩子啊,那些强大而难以接近的蛇被提到了。他们得知那诅咒之后,作了什么回应?

1.36.2

तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः ।
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः ॥ १.३६.२ ॥

他们之中,名声显赫的世尊舍沙离开了母亲迦德卢,只以风为食,坚守誓戒,开始了严酷的苦行。

1.36.3

गन्धमादनमासाद्य बदर्यां च तपोरतः ।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥ १.३६.३ ॥

他来到香醉山,在巴达利、戈迦尔纳、普什卡罗林,以及雪山之麓,沉醉于苦行。

1.36.4

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।
एकान्तशीलो नियतः सततं विजितेन्द्रियः ॥ १.३६.४ ॥

在那些圣洁的渡口与圣所,他始终喜爱独处,克制自律,已降服诸根。

1.36.5

तप्यमानं तपो घोरं तं ददर्श पितामहः ।
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम् ॥ १.३६.५ ॥

祖父看见他行那可怕的苦行:一位肌肉、皮肤与筋腱都已干枯的仙人,头发纠结,身穿树皮衣。

1.36.6

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः ।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥ १.३६.६ ॥

祖父对那位坚守真实、正在苦行的他说:“舍沙啊,你这是在做什么?为众生带来福祉吧。”

1.36.7

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ ।
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः ॥ १.३६.७ ॥

无罪者啊,你以猛烈的苦行炙烤众生。舍身啊,请随意告诉我你心中所定的一切。

1.36.8

सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥ १.३६.८ ॥

我的同胞兄弟们都心智愚钝。我不能与他们同住,请您允许此事。

1.36.9

अभ्यसूयन्ति सततं परस्परममित्रवत् ।
ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत ॥ १.३६.९ ॥

他们像仇敌一样不断地彼此嫉妒。因此我开始苦修,以免看到这一切。

1.36.10

न मर्षयन्ति ससुतां सततं विनतां च ते ।
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः ॥ १.३६.१० ॥

他们从不容忍与儿子在一起的毗那达。我们的另一位兄长是毗那达之子迦噜荼,他在空中飞行。

1.36.11

तं च द्विषन्ति सततं स चापि बलवत्तरः ।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥ १.३६.११ ॥

他们也不断地憎恨他,而他也更为强大,这是由我们伟大的父亲迦叶所赐之恩。

1.36.12

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् ।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥ १.३६.१२ ॥

因此我将全心投入苦修,舍弃此身。死后我又怎会与他们不相聚呢?

1.36.13

तमेवं वादिनं शेषं पितामह उवाच ह ।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् ॥ १.३६.१३ ॥

对如此说话的舍沙,祖父说道:舍沙啊,我知道你所有兄弟的行为。

1.36.14

मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम ॥ १.३६.१४ ॥

由于母亲的过错,你的兄弟们也遭遇了巨大的恐惧;但对此的补救已经事先作出了,蛇中之王啊。

1.36.15

भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ।
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् ॥ १.३६.१५ ॥

你不应为你所有的兄弟悲伤。舍沙啊,请从我这里选择你想要的恩赐。

1.36.16

दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ।
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम।
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥ १.३६.१६ ॥

今日我将赐予你恩惠,因为我对你有至高的喜悦。幸运的是,你的心已坚定于法。蛇中之最啊,愿你的心在法中一再更加坚定。

1.36.17

एष एव वरो देव काङ्क्षितो मे पितामह ।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥ १.३६.१७ ॥

神啊,祖父啊,这正是我所希望的恩赐:愿我的心喜悦于法,主啊,也喜悦于寂静与苦行。

1.36.18

प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च ।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥ १.३६.१८ ॥

舍沙啊,我因你的克制与寂静而欢喜。但依我的命令,你必须履行这一言语,它关乎众生的福祉。

1.36.19

इमां महीं शैलवनोपपन्नां ।
ससागरग्रामविहारपत्तनाम्
त्वं शेष सम्यक् चलितां यथाव-
त्संगृह्य तिष्ठस्व यथाऽचला स्यात् ॥ १.३६.१९ ॥

哦,舍娑!这片大地拥有山岳与森林,环绕着海洋、村落、游乐之地和城市,正在摇晃。你要妥善地托住它并保持稳固,使它不再动摇。

1.36.20

यथाऽऽह देवो वरदः प्रजापति-
र्महीपतिर्भूतपतिर्जगत्पतिः।
तथा महीं धारयिताऽस्मि निश्चलां ।
प्रयच्छतां मे विवरं प्रजापते ॥ १.३६.२० ॥

正如赐福之神、生主、大地之主、众生之主、世界之主所说,我将稳固地承载这片大地。哦,生主,请赐我一个孔道吧。

1.36.21

अधो महीं गच्छ भुजङ्गमोत्तम ।
स्वयं तवैषा विवरं प्रदास्यति।
इमां धरां धारयता त्वया हि मे ।
महत्प्रियं शेष कृतं भविष्यति ॥ १.३६.२१ ॥

哦,蛇中之王,下到大地之中去吧。这大地自会为你开启一个孔道。哦,舍娑,你承载此地,便是为我做了一件大善事。

1.36.22

तथैव कृत्वा विवरं प्रविश्य स ।
प्रभुर्भुवो भुजगवराग्रजः स्थितः।
बिभर्ति देवीं शिरसा महीमिमां ।
समुद्रनेमिं परिगृह्य सर्वतः ॥ १.३६.२२ ॥

他如此开出孔道进入其中,那位大地之主、群蛇中之最尊者便站立于彼处,以头顶承载这位以海洋为环带的女神大地,从四面将她托住。

1.36.23

शेषोऽसि नागोत्तम धर्मदेवो ।
महीमिमां धारयसे यदेकः।
अनन्तभोगैः परिगृह्य सर्वां ।
यथाहमेवं बलभिद्यथा वा ॥ १.३६.२३ ॥

你是舍娑,蛇中之最尊者,你即是法神,因为唯有你独自承载这片大地。以你无尽的盘身环绕整个大地,像我承载它那样,或像因陀罗承载它那样,去承载吧。

1.36.24

अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान् ।
धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः ॥ १.३६.२४ ॥

如此,大地之下居住着威力强大的蛇神阿南塔,他奉全能梵天之命,独自承载这大地。

1.36.25

सुपर्णं च सहायं वै भगवानमरोत्तमः ।
प्रादादनन्ताय तदा वैनतेयं पितामहः ॥ १.३६.२५ ॥

那时,诸神中最尊贵的薄伽梵祖父,将毗娜塔之子金翅鸟(迦楼罗)赐给阿南塔作为助手。

1.36.26

अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः ।
अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः ॥ १.३६.२६ ॥

阿南塔离去之后,那位大力的婆苏吉被众蛇神授予灌顶,如同诸神为因陀罗灌顶一般。