摩诃婆罗多 · 章 1.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.39.1
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम ।
सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन् ॥ १.३९.१ ॥
诸位婆罗门中的最优者啊,诸蛇闻听伊罗帕特拉之言,心中欢喜,齐声赞叹:“善哉!善哉!”
1.39.2
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत ।
जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥ १.३९.२ ॥
自此以后,婆苏吉守护那位少女,即他的妹妹遮罗特卡茹,他也因此获得了极大的喜悦。
1.39.3
ततो नातिमहान्कालः समतीत इवाभवत् ।
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥ १.३९.३ ॥
其后,似乎未过多少时日,诸天与阿修罗齐心搅动了婆罗尼之居——大海。
1.39.4
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः ।
समाप्यैव च तत्कर्म पितामहमुपागमन् ॥ १.३९.४ ॥
于是,诸强者中最优的蛇王婆苏吉化作搅绳;完成此事之后,他们前往祖父(梵天)处。
1.39.5
देवा वासुकिना सार्धं पितामहमथाव्रुवन् ।
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥ १.३९.५ ॥
于是诸天与婆苏吉一同对祖父说:“尊者啊,这婆苏吉因惧怕诅咒,正极度痛苦。”
1.39.6
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि ।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः ॥ १.३९.६ ॥
天神啊,您应当拔去他心中这根刺——由其母之诅咒所生,而他正希望亲族的福祉。
1.39.7
हितो ह्ययं सदास्मकं प्रियकारी च नागराट् ।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम् ॥ १.३९.७ ॥
此龍王向來對我們有益,且常行我們所喜之事。天神之主啊,請賜予他恩惠,平息他心中的熱惱。
1.39.8
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः ।
एलापत्रेण नागेन यदस्याभिहितं पुरा ॥ १.३९.८ ॥
諸位不死者,我自己心中已許下那諾言,即往昔龍Elāpatra為他所宣告的話。
1.39.9
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम् ।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥ १.३९.९ ॥
願此龍王親自履行那及時之言。唯有罪人將滅亡,而行法者則不然。
1.39.10
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः ।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥ १.३९.१० ॥
一位名為耆羅迦盧的婆羅門已經出生,他專心於苛烈的苦行。待到時候,願此龍將他的妹妹嫁給那耆羅迦盧。
1.39.11
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह ।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥ १.३९.११ ॥
諸天,蛇Elāpatra所說之言,是為諸蛇之利益。它必定如此實現,而不會有別。
1.39.12
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा ।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः ॥ १.३९.१२ ॥
聽此言後,龍王婆蘇吉聆聽了祖父的話語,隨後為詛咒所迷惑,向所有諸蛇發出了指示。
1.39.13
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥ १.३९.१३ ॥
于是他将妹妹许配给仙人闍罗訶噜,并派遣众多时常随侍的蛇守护闍罗訶噜。
1.39.14
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः ।
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति ॥ १.३९.१४ ॥
当有力的闍罗訶噜想要选择妻子时,他应迅速前来告诉我们;这将对我们有利。