Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.4.1

पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच। ॥ १.४.१ ॥

精通往世书的那位诵者,合掌向他们说道。

1.4.2

मयोत्तङ्कस्य चरितमशेषमुक्तं जनमेजयस्य सार्पसत्रे निमित्तान्तरमिदमपि ।
किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति ॥ १.४.२ ॥

我已在闍那梅阇耶的蛇祭上完整讲述了乌坦卡的事迹;这也是另一个机缘。诸位想听什么?我该说什么?

1.4.3

परं रौमहर्षणे प्रवक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे ॥ १.४.३ ॥

但罗摩哈尔沙那之子啊!我们将说话,你将回答我们;为我们这些愿意聆听者,愿有故事的连接。诸仙对他说道。

1.4.4

तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते ।
दीर्घसत्रत्वात्सर्वाः कथाः श्रोतुं कालोस्ति ॥ १.४.४ ॥

那里,尊贵的群主舍奴迦坐在火堂中;因为是长祭,有时间听完所有故事。诸仙对他说道。

1.4.5

यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः ।
मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥ १.४.५ ॥

他完全知晓关于诸神与阿修罗的神圣故事,以及人、龙蛇与乾闼婆的故事。诸仙对他说道。

1.4.6

स चाप्यस्मिन्मशे सौते विद्वान्कुलपतिर्दिवजः ।
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥ १.४.६ ॥

苏提啊!那位伟大而博学的群主,再生者,灵巧,持守誓戒,睿智,又是经典与森林书的老师,也在我们之中。诸仙对他说道。

1.4.7

सत्यवादी शमपरस्तपस्वी नियतव्रतः ।
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥ १.४.७ ॥

他诚实守信,专心于寂静,是苦行者,坚守誓愿。我们众人都应尊敬他;暂且让人好好照料他。

1.4.8

तस्मिन्नध्यासति गुरावासनं परमार्चितम् ।
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥ १.४.८ ॥

当那位师长坐在最尊贵的座位上之后,你便说出你想说的话;那位最优秀的再生者便会向你发问。

1.4.9

एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि ।
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥ १.४.९ ॥

就这样吧。当那位高尚的师长坐定之后,应他所请,我将讲述种种不同的神圣故事。

1.4.10

सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि ।
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह ॥ १.४.१० ॥

于是那位婆罗门中的雄牛,依照规定完成了所有的职责,以言辞娱悦诸神,以水供养祖先,便来到了那里。

1.4.11

यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः ।
यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः ॥ १.४.११ ॥

那里,梵仙、成就者和坚守誓愿者安然而坐;他们来到祭祀之所,由御者之子引领在前。

1.4.12

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा ।
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥ १.४.१२ ॥

当祭司和与会者都已就座时,主人朔那迦坐在就座的人中间,说了这番话。