Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.40.1

जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन ।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः ॥ १.४०.१ ॥

御者之子啊,我愿听你讲述那位名为遮罗特迦如的大德仙人。

1.40.2

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि ॥ १.४०.२ ॥

这个名字遮罗特迦如在世间闻名,其原因是什么?请你如实解说遮罗特迦如的词源。

1.40.3

जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः ॥ १.४०.३ ॥

衰老被称为消耗,它是可怕的;他名为“卡卢”的身体便是“卡卢”。那位智者渐渐地(使之耗损)。

1.40.4

क्षपयामास तीव्रेण तपसेत्यत उच्यते ।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥ १.४०.४ ॥

他以严苛的苦行使(身体)耗损,因此被称为遮罗特迦如。婆罗门啊,同样,婆苏吉的妹妹也名为遮罗特迦如。

1.40.5

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥ १.४०.५ ॥

被如此相问后,正直的首那伽于是笑了,他对乌格拉室罗婆说:“说得很好。”

1.40.6

उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम् ।
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्।
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः ॥ १.४०.६ ॥

先前所说的名字之义,我都已听闻。但我愿知道阿斯提迦是如何出生的。听完他的话,苏提便依照典籍说道。

1.40.7

संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः ।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ॥ १.४०.७ ॥

婆苏吉既已妥善指示所有蛇众,便将其妹呈献给仙人遮罗特伽如。

1.40.8

अथ कालस्य महतः स मुनिः संशितव्रतः ।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत ॥ १.४०.८ ॥

此后许久,那位坚守誓愿、乐于苦行的智者,并不想要妻子。

1.40.9

स तूर्ध्वरेतास्तपसि प्रसक्तः ।
स्वाध्यायवान्वीतभयः कृतात्मा।
चचार सर्वां पृथिवीं महात्मा ।
न चापि दारान्मनसाध्यकाङ्क्षत् ॥ १.४०.९ ॥

他守持上升之精,专注苦行与诵习吠陀,无所畏惧,自制其心,这位大心者游行遍及大地,甚至心中也不想要妻子。

1.40.10

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः ॥ १.४०.१० ॥

此后另一时期到来时,有一位名叫阿缚婆·利刹(Parīkṣit)的国王,出生于俱卢族,婆罗门啊。

1.40.11

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥ १.४०.११ ॥

如同大臂的般度,作战中最优秀的弓手,往昔爱好狩猎,此人的曾祖父也是如此。

1.40.12

तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः ।
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥ १.४०.१२ ॥

同样,名闻世间的阿毗曼纽之子阿缚婆·利刹,身为地上之主,猎取鹿、野猪、鬣狗、水牛以及种种其他野兽而巡行。

1.40.13

स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा ।
पृष्ठतो धनुरादाय ससार गहने वने ॥ १.४०.१३ ॥

有一次,他用一支弯曲关节的箭射中了一只鹿,拿起弓从后面追入茂密的森林。

1.40.14

यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः ॥ १.४०.१४ ॥

正如吉祥的楼陀罗在天空射中祭祀之鹿后,手持弓箭四处追寻它一样。

1.40.15

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने ।
पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति ॥ १.४०.१५ ॥

被他射中的鹿并未活着逃入森林;它原来的形体很快便走向天堂之路。

1.40.16

परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः ।
दूरं चापहृतस्तेन मृगेण स महीपतिः ॥ १.४०.१६ ॥

被人主般的波利刹希特射伤的鹿消失了,而那只鹿把国王带到了远方。

1.40.17

परिश्रान्तः पिपासार्त आससाद मुनिं वने ।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ॥ १.४०.१७ ॥

他疲惫不堪,饱受干渴折磨,来到森林中一位坐在牛群牧场上的圣人身边,看着小牛口中流出的乳汁。

1.40.18

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ॥ १.४०.१८ ॥

国王疾速奔向那位持守坚定誓愿的圣人,他正大量享用着吮乳的小牛所溢出的泡沫。

1.40.19

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ।
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः ॥ १.४०.१९ ॥

饥渴疲惫的国王举起弓,问那位仙人:婆罗门啊,我是阿毗曼尤之子、国王波利可希特。

1.40.20

मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि ।
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः ॥ १.४०.२० ॥

我射伤的鹿逃走了,你可曾看见它?但那位守持缄默誓愿的仙人,一句话也没有回答他。

1.40.21

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत ॥ १.४०.२१ ॥

愤怒的国王用弓梢挑起一条死蛇,搭在他的肩上,然后看着他。

1.40.22

न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम् ।
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्।
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः ॥ १.४०.२२ ॥

他对他什么也没说,无论好坏。国王放下怒气,见他如此情状而心中悲痛,便返回了城中;而仙人依旧如故。

1.40.23

न हि तं राजशार्दूलं क्षमाशीलो महामुनिः ।
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत् ॥ १.४०.२३ ॥

那位性情宽忍的大仙人,虽被侮辱,却并未加害那位专心于自身法的王中之虎。

1.40.24

न हि तं राजशार्दूलस्तथा धर्मपरायणम् ।
जानाति भरतश्रेष्ठस्तत एनमधर्षयत् ॥ १.४०.२४ ॥

那位婆罗多族中最优秀的王中之虎,不知道他是如此专心于法,因此才加以侮辱。

1.40.25

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।
शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः ॥ १.४०.२५ ॥

他有一个年轻的儿子,光辉锐利,苦行高深,名叫希林吉,大怒,难以取悦,持大誓愿。

1.40.26

स देवं परमासीनं सर्वभूतहिते रतम् ।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः ॥ १.४०.२६ ॥

他在适当的时候,克制自己,侍奉端坐于至高座位、专心于一切众生福祉的神梵天。

1.40.27

सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ।
सख्योक्तः क्रीडमानेन स तत्र हसता किल ॥ १.४०.२७ ॥

得到梵天的允许后,他回到家中。在那里,一位与他一同玩耍的伙伴笑着对他说。

1.40.28

संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः ।
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्।
ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम ॥ १.४०.२८ ॥

这位像毒药一样的仙人之子,因激动而极为愤怒,听到针对其父的话,便勃然大怒。哦,再生者中最优秀的人,一位仙人之子曾戏谑地对那位枯瘦之人说——

1.40.29

तेजस्विनस्तव पिता तथैव च तपस्विनः ।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥ १.४०.२९ ॥

你的父亲也是光辉的苦行者;他肩上扛着一具尸体。希林吉啊,不要骄傲。

1.40.30

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद ।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥ १.४०.३० ॥

在仙人之子中间,不要说任何话。不要对像我们这样的成就者、梵智者、苦行者说任何不敬之言。

1.40.31

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा ॥ १.४०.३१ ॥

你的男子气概何在?你那样的言辞何在?生于傲慢的你,见到父亲,却如此扛着尸体!

1.40.32

पित्रा च तव तत्कर्म नानुरूपमिवात्मनः ।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः ॥ १.४०.३२ ॥

你的父亲也做了那件不符合自身身份的事,诸位仙人中最杰出的人啊,因此我深感悲痛。