摩诃婆罗多 · 章 1.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.41.1
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥ १.४१.१ ॥
如此被告知之后,光辉的尸林之子(Śṛṅgī)怒火填胸,听闻其父Mṛtadhāra之事,为愤怒所煎熬。
1.41.2
स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।
अपृच्छत्तं कथं तातः सर्वभूतहिते रतः ॥ १.४१.२ ॥
他看着瘦弱的Kṛśa,说出温和真实的话语,问道:一心致力于众生福祉的我的父亲是如何死去的?
1.41.3
अनन्यचेताः सततं विष्णुं दवेमतोषयत् ।
वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः।
एवंभूतः स तेजस्वी स मेऽद्य मृतधारकः ॥ १.४१.३ ॥
这位以专一之心不断使毗湿奴欢喜、食林中之物、坚守缄默之誓的仙人——这位光辉者,今日成为了我的死亡持有者。
1.41.4
राज्ञा परिक्षिता तात मृगयां परिधावता ।
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥ १.४१.४ ॥
亲爱的孩子,因国王Parīkṣit在狩猎中奔跑,挂在你父亲肩上的一条蛇,今日致他死亡。
1.41.5
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः ।
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम् ॥ १.४१.५ ॥
我的父亲对那位心怀恶意的国王做了什么坏事?Kṛśa,请如实告诉我。看看我苦行的力量。
1.41.6
स राजा मृगयां यातः परिक्षिदभिमन्युजः ।
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम् ॥ १.४१.६ ॥
那位国王,Abhimanyu之子Parīkṣit,外出狩猎;他以箭射中一只飞奔的鹿,独自追赶它。
1.41.7
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥ १.४१.७ ॥
国王在那片大森林中徘徊,没有看见鹿。他看见你的父亲,便问那位不说话的人。
1.41.8
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः ।
पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव ॥ १.४१.८ ॥
饥渴疲惫的国王,向那位像树桩一样站立的人,一再询问你父亲关于那只失踪的鹿。
1.41.9
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत ।
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत् ॥ १.४१.९ ॥
然而他持守缄默之誓,没有回答。于是国王用弓梢把一条蛇挂在了他的肩上。
1.41.10
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः ।
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम् ॥ १.४१.१० ॥
啊,尸林伽!你的父亲也同样坚守誓愿地坐在那里。那位国王也已经回到他的城市象城(Gajasāhvaya)去了。
1.41.11
श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम् ।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥ १.४१.११ ॥
仙人之子听到这些,肩上放着死尸,双眼因愤怒而泛红,仿佛被怒火燃烧一般。
1.41.12
आविष्टः स हि कोपेन शशाप नृपतिं तदा ।
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥ १.४१.१२ ॥
被愤怒所攫住的那位光辉者,饮水净身之后,被愤怒的冲力所驱使,于是诅咒了国王。
1.41.13
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह ।
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी ॥ १.४१.१३ ॥
那个在我年迈的父亲陷入困境时,把一条死蛇放在他肩上的人,那个对国王犯下罪行的罪人。
1.41.14
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः ।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥ १.४१.१४ ॥
蛇王德叉迦,锐利威力的毒蛇,对那罪人极为愤怒,受我话语之力的驱使。
1.41.15
सप्तरात्रादितो नेता यमस्य सदनं प्रति ।
द्विजानामवमन्तारं कुरूणामयशस्करम् ॥ १.४१.१५ ॥
从今起七夜之内,他将被引向阎摩的住所,那个侮辱再生者、给俱卢族带来耻辱的人。
1.41.16
इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात् ।
आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम् ॥ १.४१.१६ ॥
如此诅咒之后,极为愤怒的尸吉回到他的父亲那里。父亲正坐在牛栏中,扛着那条死蛇。
1.41.17
स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै ।
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः ॥ १.४१.१७ ॥
尸吉看见父亲肩上扛着死蛇,又一次因愤怒而激动不已。
1.41.18
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् ।
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥ १.४१.१८ ॥
悲痛使他流下眼泪,他对父亲说:父亲,听到那个恶人对您施加的这一侮辱……
1.41.19
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् ।
यथार्हति स एवोग्रं शापं कुरुकुलाधमः।
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ॥ १.४१.१९ ॥
国王波利叉在愤怒中侮辱了我,因此我诅咒了那位国王。这位库卢家族中最卑劣的人应得这可怕的诅咒。第七天,蛇中最优秀的德叉迦将咬死这个罪人。
1.41.20
वैवस्वतस्य सदनं नेता परमदारुणम् ।
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् ॥ १.४१.२० ॥
他将把他带往毗婆娑多(阎摩)极其可怖的住所。婆罗门啊,他的父亲满怀愤怒地对他这样说。
1.41.21
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ।
वयं तस्य नरेन्द्रस्य विषये निवसामहे ॥ १.४१.२१ ॥
亲爱的孩子,你没有做让我高兴的事。这不是苦行者的职责。我们住在那位国王的领土上。
1.41.22
न्यायतो रक्षितास्तेन तस्य पापं न रोचये ।
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा ॥ १.४१.२२ ॥
我们曾得到他的公正庇护。我不赞同他的恶行。对于一位始终以各种方式对待我们这样的人的国王来说,这种罪过是不可接受的。
1.41.23
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ।
यदि राजा न संरक्षेत्पीडा नः परमा भवेत् ॥ १.४१.२३ ॥
孩子,应当宽恕;被毁坏的法必定反过来毁灭,这毫无疑问。若国王不保护我们,我们将遭受极大的苦难。
1.41.24
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ।
रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः ॥ १.४१.२४ ॥
孩子,我们无法安然地修持法。亲爱的孩子,只有在重视法的国王们的保护下,我们才能如此。
1.41.25
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः ।
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि ॥ १.४१.२५ ॥
我们修习广大的法;依法,他们也有其份。对于一切行事如法的国王,理应宽恕。
1.41.26
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः ।
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो ॥ १.४१.२६ ॥
尤其是帕里克希特,正如他的曾祖父保护我们,国王也应当保护臣民,哦,威力者。
1.41.27
अराजके जनपदे दोषा जायन्ति वै सदा ।
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै ॥ १.४१.२७ ॥
在无王的国度,过错总会产生;国王以刑罚不断约束那些悖乱的人。
1.41.28
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा ।
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् ॥ १.४१.२८ ॥
由于刑罚,又生出畏惧,于是平安随之产生。无忧无惧地修行法,无忧无惧地行事。
1.41.29
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः ।
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः ॥ १.४१.२९ ॥
法由国王确立,由法而确立天界。国王掌管一切祭祀之事,由祭祀而诸神得以确立。
1.41.30
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः ।
ओषधिभ्यो मनुष्याणां धारयन्सततं हितम् ॥ १.४१.३० ॥
由神降下雨水;由雨水生出草药,人们由此常得安康。
1.41.31
मनुष्याणां च यो धाता राजा राज्यकरः पुनः ।
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत् ॥ १.४१.३१ ॥
养育众人、治理国家的国王,等同于十位通晓吠陀的婆罗门——摩奴如是说。
1.41.32
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना ।
अजानता कृतं मन्ये व्रतमेतदिदं मम ॥ १.४१.३२ ॥
他饥饿疲惫地来此寻找鹿,我想他并非有意地,违背了我这项誓约。
1.41.33
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् ।
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ १.४१.३३ ॥
孩子啊,你为何因年少而草率地做出这恶行?国王无论如何都不应受到我们的诅咒。