摩诃婆罗多 · 章 1.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.49.1
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः ।
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥ १.४९.१ ॥
当时国王阿闍耶王向大臣们所问的,关于其父升天之事的始末,请再为我详细讲述。
1.49.2
शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा ।
यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः ॥ १.४९.२ ॥
婆罗门啊,请听:当时国王如何询问大臣,他们又如何讲述了阿夜王(Parīkṣit)之死。
1.49.3
जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम ।
आसीद्यथा स निधनं गतः काले महायशाः ॥ १.४९.३ ॥
你们确实知道我父亲的全部经过,这位大名之人在时候到来时如何死去。
1.49.4
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः ।
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित् ॥ १.४९.४ ॥
从你们处完整听闻我父亲的事迹之后,我必将获得吉祥,绝不会遭遇不利。
1.49.5
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना ।
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम् ॥ १.४९.५ ॥
于是,被那位大德之王询问的大臣们——皆通晓法(dharma)且有智慧——向国王阿闍耶王说了这些话。
1.49.6
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः ।
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः ॥ १.४९.६ ॥
国王啊,请听你所说的你那大德之父、诸王之主的行迹,以及他如何走到了终局。
1.49.7
धर्मात्मा च महात्मा च प्रजापालः पिता तव ।
आसीदिहायथा वृत्तः स महात्मा शृणुष्व तत् ॥ १.४९.७ ॥
你的父亲心怀正法、德行崇高,是百姓的守护者。请听那位大德之人在此的行事。
1.49.8
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत ।
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥ १.४९.८ ॥
这位通晓正法的国王,使四种姓各安其本分,并妥善守护。他依正法治理,仿佛正法自身化为了人身。
1.49.9
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः ।
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन ॥ १.४९.९ ॥
这位威光显赫、勇武无双的国王守护着女神大地。他没有敌人,也不憎恨任何人。
1.49.10
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु ॥ १.४९.१० ॥
他对一切众生平等相待,如同造物主一般。婆罗门、刹帝利、吠舍和首陀罗也各守自己的本职。
1.49.11
स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः ।
विधवानाथविकलान्कृपणांश्च बभार सः ॥ १.४९.११ ॥
大王啊,在那位国王治下,人们心满意足,各安其位。他扶养寡妇、孤儿、残障者和贫弱之人。
1.49.12
सुदर्शः सर्वभूतानामासीत्सोम इवापरः ।
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः ॥ १.४९.१२ ॥
他对一切众生都易于亲近,犹如另一轮明月。他的百姓心满意足、富足安康;他威光显赫,言语诚实,勇武坚定。
1.49.13
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः ।
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय ॥ १.४९.१३ ॥
他在射术上成为沙罗陀的儿子(克里帕)的弟子,并且为瞿频陀(黑天)所爱。阇那梅阇耶啊,他是你的父亲。
1.49.14
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ।
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत् ॥ १.४९.१४ ॥
他为全世界所爱,享有大名。当俱卢族几近灭绝时,他与乌塔拉生下了一个儿子。
1.49.15
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ।
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः ॥ १.४९.१५ ॥
从他那里生出了强大的帕里克希特,他是娑巴陀罗(阿毗曼牛)之子,精通王法与政务,具备一切美德。
1.49.16
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता ।
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः ॥ १.४९.१६ ॥
他克制诸根,自我节制,智慧,奉行法;战胜六种情欲,大智慧,是通晓政治学的最优秀者。
1.49.17
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत् ।
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन् ॥ १.४९.१७ ॥
你的父亲保护这些臣民六十年;之后,他达到了命运所定的终点,给所有人带来了悲痛。
1.49.18
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् ।
इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्।
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः ॥ १.४९.१८ ॥
于是,人中之最,你依法获得了这源自俱卢族的王国,将长达千年。你还是孩童时便已受灌顶;你是一切众生的守护者。
1.49.19
नास्मिन्कुले जातु बभूव राजा ।
यो न प्रजानां प्रियकृत्प्रियश्च।
विशेषतः प्रेक्ष्य पितामहानां ।
वृत्तं महद्वृत्तपरायणानाम् ॥ १.४९.१९ ॥
在这一族中,从未有过不使臣民欢喜、不为臣民所爱戴的君王;尤其是看到那些恪守高尚德行的先祖的德行。
1.49.20
कथं निधनमापन्नः पिता मम तथाविधः ।
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥ १.४९.२० ॥
我那样的父亲是如何死去的?请如实地告诉我;我想听真实的经过。
1.49.21
एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् ।
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः ॥ १.४९.२१ ॥
国王如此催促之后,那些一心为国王谋求福利与喜乐的大臣们,便将所发生的一切如实地讲给那位人主听。
1.49.22
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः ।
बभूव मृगयाशीलस्तव राजन्पिता सदा ॥ १.४९.२२ ॥
那位大地的守护者、持兵器者中最优秀的国王,你的父亲,啊国王,一直喜好狩猎。
1.49.23
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥ १.४९.२३ ॥
如大臂的般度,他是战场上最优秀的弓手,将一切国事全部托付给我们。
1.49.24
स कदाचिद्वनगतो मृगं विव्याध पत्रिणा ।
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥ १.४९.२४ ॥
他有一次进入森林,用箭射中一头鹿,射中之后,便迅速在茂密的森林中追赶那头鹿。
1.49.25
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् ।
न चाससाद गहने मृगं नष्टं पिता तव ॥ १.४९.२५ ॥
他徒步而行,佩剑、背负箭囊与兵器,却未能追上逃入密林的那只鹿,你的父亲。
1.49.26
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः ।
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम् ॥ १.४९.२६ ॥
他疲惫不堪,年事已高,六十岁,为衰老所困,饥饿难耐,在那大森林中看见了最杰出的仙人。
1.49.27
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम् ।
न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा ॥ १.४९.२७ ॥
那位王中之王问那位持守缄默誓愿的仙人,然而虽被问及,那仙人当时却什么也没说。
1.49.28
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् ।
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः ॥ १.४९.२८ ॥
于是,那国王饥渴疲惫,立即被愤怒所支配,对那位如木桩般伫立、持守缄默誓愿、心境平静的仙人。
1.49.29
न बुबोध च तं राजा मौनव्रतधरं मुनिम् ।
स तं क्रोधसमाविष्टो धर्षयामास ते पिता ॥ १.४९.२९ ॥
国王没有认出那位持守缄默誓愿的仙人;怒气充塞的他,你的父亲,侮辱了他。
1.49.30
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् ।
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥ १.४९.३० ॥
婆罗多中最杰出的人啊,他用弓梢从地上挑起一条死蛇,放在那位心地纯净的仙人肩上。
1.49.31
न चोवाच स मेधावी तमथो साध्वसाधु वा ।
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन् ॥ १.४९.३१ ॥
那位智者对他既不说好,也不说坏;他仍旧站着,不发怒,把蛇扛在肩上。