Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.5.1

पुराणमखिलं तात पिता तेऽधीतवान्पुरा ।
भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा।
कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे ॥ १.५.१ ॥

亲爱的孩子,你的父亲从前曾从黑仙毗耶娑(Kṛṣṇa Dvaipāyana)那里学习了全部往世书和全部《薄罗多》。罗摩哈尔沙那之子啊,你是否也都学过了?

1.5.2

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।
कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव ॥ १.५.२ ॥

往世书中讲述着智者的神圣故事与上古世系,这些我们从前曾从你的父亲那里听过。

1.5.3

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।
कथयस्व कथामेतां कल्याः स्मः श्रवणे तव ॥ १.५.३ ॥

因此我首先想听婆尔伽瓦(Bhārgava)的世系;请讲述这段故事,我们因聆听你的讲述而得到福报。

1.5.4

यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः ।
वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा ॥ १.५.४ ॥

正如往昔那些伟大的、卓越的婆罗门所彻底学习的,也正如婆罗门中最杰出的毗舍摩衍那所宣讲的。

1.5.5

यदधीतं च पित्रा मे सम्यक्कैव ततो मया ।
तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः ॥ १.५.५ ॥

我父亲所彻底学习的,以及我此后也学习的;现在请听,这是因陀罗与诸天、仙人及摩鲁特众所听闻的。

1.5.6

पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन ।
इमं वंशमहं पूर्वं भार्गवं ते महामुने ॥ १.५.६ ॥

婆利古之子啊,婆尔伽瓦世系最为卓越、最受尊崇;我将首先为你讲述这一世系,伟大的圣者啊。

1.5.7

निगदामि यथायुक्तं पुराणाश्रयसंयुतम् ।
भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा ॥ १.५.७ ॥

我依据往世书如实讲述:伟大的仙人、世尊婆利古,是由自生的梵天所创造的。

1.5.8

वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम् ।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ॥ १.५.८ ॥

我们听说他是在伐楼那的祭祀中从婆伐迦(火神)而生。婆利古最钟爱的儿子名为遮耶那,乃婆利古族后裔。

1.5.9

च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः ।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥ १.५.९ ॥

遮耶那的继承者是名为婆罗摩蒂的正法之人。婆罗摩蒂又从酥陀罗(酥陀琪)生下名为茹茹的儿子。

1.5.10

रुरोरपि सुतो जज्ञे शुनको वेदपारगः ।
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥ १.५.१० ॥

茹茹又生下精通吠陀的儿子舜那迦。舜那迦是由普腊玛德瓦拉所生的正法之人,乃您的先祖。

1.5.11

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः ।
धार्मिकः सत्यवादी च नियतो नियताशनः ॥ १.५.११ ॥

他苦行、有名望、博学,是知梵者中最优秀的;他正直、诚实、自制,饮食有节。

1.5.12

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥ १.५.१२ ॥

苏多之子啊,请为我这个发问者讲述:那位大德婆利迦族人如何以“遮耶那”之名闻名于世。

1.5.13

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता ।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥ १.५.१३ ॥

婆利固最心爱的妻子,以普罗摩之名闻名,她孕育了一个由婆利固之精所生的胎儿。

1.5.14

तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह ।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥ १.५.१४ ॥

婆利固族中最优秀者啊!那胎儿在普罗摩体内形成之时,于适当时候便在她之中——她是光荣的婆利固的法定妻子,性情相投。

1.5.15

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।
आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह ॥ १.५.१५ ॥

当持法者中最优秀的婆利固外出行灌顶礼之时,那罗刹来到他的修行处,普罗摩也随之而来。

1.5.16

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥ १.५.१६ ॥

他进入修行处,看见婆利固那无可指摘的妻子,心中被欲望之箭所击,心神迷乱。

1.5.17

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना ।
न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥ १.५.१७ ॥

然而,那以客人身份到来的罗刹,当时被容貌美好的普罗摩以林中的果实、根茎等所款待。

1.5.18

तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम् ।
दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम् ॥ १.५.१८ ॥

婆罗门啊,国王啊!那罗刹见她心中被欲望之箭所苦,便欢喜起来,想要掳走这位无可指摘的女子。

1.5.19

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् ।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता ॥ १.५.१९ ॥

他说:“她已经出生了。”他欣喜地想要夺走那位吉祥的女子,便定下了这件事。她先前已被那布罗摩选定,是笑容明亮的女子。

1.5.20

तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव ॥ १.५.२० ॥

婆利古之子啊,他那罪过始终留在他的心中。

1.5.21

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा ।
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम् ॥ १.५.२१ ॥

他想:“这正是机会。”于是他决意掳走她。然后他在火的庇护处看到了燃烧的遮陀婆陀斯(火神)。

1.5.22

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ।
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥ १.५.२२ ॥

于是罗刹问那熊熊燃烧的波婆卡(火神):“火神啊,请告诉我,她是谁的妻子?我如实相问。”

1.5.23

मुखं त्वमसि देवानां वद पावक पृच्छते ।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥ १.५.२३ ॥

你是诸神的口。波婆卡啊,请回答提问者。这位美貌的女子,先前已被我选为妻子。

1.5.24

पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः ।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता ॥ १.५.२४ ॥

之后,她的父亲,做了虚假之事的人,把她嫁给了婆利古。如果这位细腰美女是婆利古的妻子,那个曾秘密离去的人……

1.5.25

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ।
स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति ॥ १.५.२५ ॥

“那就说出实情:我要把此女从修行处掳走。”那股怒火停留在那里,仿佛在焚烧他的心。

1.5.26

मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम् ।
असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम् ॥ १.५.२६ ॥

婆利古先前把这位细腰女子娶为我的前妻,这于我不可接受。今日我要把她从修行处带走。

1.5.27

एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम् ।
शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत ॥ १.५.२७ ॥

罗刹如此呼唤那熊熊燃烧的火神耶陀婆陀,对婆利古之妻心存疑虑,一再追问。

1.5.28

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा ।
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥ १.५.२८ ॥

啊,火神,你常在一切众生之内运行,如同善与恶的见证者。啊,智者,请说出真实之言。

1.5.29

मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा ।
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥ १.५.२९ ॥

那欺骗的婆利古劫走了我的前妻。若此女就是她,你理应对我说出真相。

1.5.30

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम् ।
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥ १.५.३० ॥

从你这里听说此女是婆利古之妻,我要把她从修行处带走。啊,耶陀婆陀,你看着,请对我说一句真实之言。

1.5.31

तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत् ।
सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात् ॥ १.५.३१ ॥

saptārci(火神)听了这话,感到痛苦。“即使我因梵智者中最优秀的婆利古而受到诅咒,我也要说实话。”

1.5.32

असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम् ।
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥ १.५.३२ ॥

“如果我说谎,必定会堕入地狱。”他因害怕谎言和婆利古的诅咒,轻声说道。

1.5.33

त्वया वृता पुलोमेयं पूर्वं दानवनन्दन ।
किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया ॥ १.५.३३ ॥

“达那婆之子啊,这位普罗摩以前是你所选的。那你以前为何没有按照仪式、诵念咒语来娶她呢?”

1.5.34

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी ।
ददाति न पिता तुभ्यं वरलोभान्महायशाः ॥ १.५.३४ ॥

“她的父亲已把荣耀的普罗摩许给了婆利古。那位大名鼎鼎的父亲因贪图聘礼,现在不把她给你。”

1.5.35

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् ।
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव ॥ १.५.३५ ॥

“那么,达那婆啊,仙人婆利古依照吠陀所示的仪式,按规定以我为先导,得到她作为妻子。”

1.5.36

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे ।
नानृतं हि सदा लोके पूज्यते दानवोत्तम ॥ १.५.३६ ॥

“我知道这就是她。我不敢说谎,因为达那婆中最优秀的啊,世上的谎言从来不受尊重。”