摩诃婆罗多 · 章 1.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.50.1
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् ।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः ॥ १.५०.१ ॥
于是那位国王,诸王之主啊,因饥饿而憔悴,把一条蛇挂在仙人的肩上,然后又返回了自己的城市。
1.50.2
ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः ।
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥ १.५०.२ ॥
那位仙人有一子,名叫尸陀,声名远扬,光辉盛大,勇猛刚烈,极易发怒。
1.50.3
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह ।
सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा ॥ १.५०.३ ॥
仙人走近梵天并向他致敬;得到允许后,尸陀当时便在那里听到了此事。
1.50.4
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा ।
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम् ॥ १.५०.४ ॥
他从朋友那里得知,您的父亲以前曾羞辱过他的父亲——把一条死蛇挂在那位像木桩一样静坐不动的仙人身上。
1.50.5
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम् ।
तपस्विनमतीवाथ तं मुनिप्रवरं नृप ॥ १.५०.५ ॥
诸王中的猛虎啊,国王啊,他并无过错,却把那条蛇扛在肩上;那位最杰出的仙人极其苦修。
1.50.6
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम् ।
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा ॥ १.५०.६ ॥
他克制诸根、清净、坚守己任、令人惊叹;他的自我因苦行而光明,那时他正约束着自己的肢体。
1.50.7
शुभाचारं शुभकथं सुस्थितं तमलोलुपम् ।
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्।
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव ॥ १.५०.७ ॥
品行端正,言语善良,坚定稳固,不贪不昧,心胸高尚而无嫉妒,年老,安住于缄默之誓,是一切众生的庇护者——你的父亲却轻慢了他。
1.50.8
शशापाथ महातेजाः पितरं ते रुषान्वितः ।
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः ॥ १.५०.८ ॥
于是这位大有光辉的人怒气满胸,诅咒了你的父亲。这位仙人之子虽是少年,却有长者的光彩。
1.50.9
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह ।
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥ १.५०.९ ॥
他迅速触水,怒气中说出这些话,针对你的父亲,以力量燃烧,仿佛火焰一般。
1.50.10
अनागसि गुरौ यो मे मृतं सर्पवासृजत् ।
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति ॥ १.५०.१० ॥
谁将死蛇投在我无辜的老师身上,愤怒的蛇王德叉迦将以其威力焚烧他。
1.50.11
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ।
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥ १.५०.११ ॥
具有锐利威力的毒蛇,受我言语之力驱使,从今日起七夜之内将咬噬那罪人。请看我苦行的力量。
1.50.12
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत् ।
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत् ॥ १.५०.१२ ॥
说完这些,他前往父亲所在之处,见到父亲后便把那诅咒告诉了他。
1.50.13
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः ।
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् ॥ १.५०.१३ ॥
那位人中猛虎般的仙人也派遣了他的弟子高罗摩柯,一位品行良好、德行兼备的人,去见他们的父亲。
1.50.14
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः ।
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥ १.५०.१४ ॥
他休息之后,将一切完整地告诉了国王:“地上之主啊,你已被我的儿子诅咒;务必警惕。”
1.50.15
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति ।
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय ॥ १.५०.१५ ॥
“大王,德叉迦将以他的炽热威力焚烧你。”闍那梅阇耶啊,你的父亲听到这可怕的话语……
1.50.16
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ।
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ॥ १.५०.१६ ॥
他因蛇中之王德叉迦而极度惊恐,于是保持警觉。随后,到了第七天……
1.50.17
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ।
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा ॥ १.५०.१७ ॥
梵仙迦叶希望前往国王面前。那时,龙王德叉迦看见了迦叶。
1.50.18
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ १.५०.१८ ॥
龙王对匆忙前行的再生者迦叶说:“你为何如此匆忙要去哪里?打算做什么事情?”
1.50.19
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज ।
तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै ॥ १.५०.१९ ॥
婆罗门啊,那位名叫般遮都的俱卢最优秀之王在哪里?今天蛇王德叉迦将咬他,他将被焚烧。
1.50.20
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥ १.५०.२० ॥
我将急速前往,立即使他摆脱热病。被我所护之人,即使蛇也不能伤害他。
1.50.21
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि ।
अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम् ॥ १.५०.२१ ॥
你为何想救活被我咬伤的人?婆罗门啊,我就是德叉迦。看我奇妙的威力吧。
1.50.22
न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम् ।
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम् ॥ १.५०.२२ ॥
他说:“你无法救活我所咬的国王。”说完,德叉迦便在那里咬了那棵树。
1.50.23
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः ।
काश्यपश्च ततो राजन्नजीवयत तं नगम् ॥ १.५०.२३ ॥
那树刚被蛇咬,便化为灰烬。然后,大王啊,迦叶把那棵树救活了。
1.50.24
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः ।
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः ॥ १.५०.२४ ॥
于是德叉迦引诱他说:“请说出你的愿望。”如此被问,迦叶又对德叉迦说。
1.50.25
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा ॥ १.५०.२५ ॥
他这样说道:“我想去那里求财。”被如此询问后,德叉迦以温和的言语对那位大人说道。
1.50.26
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम् ।
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ ॥ १.५०.२६ ॥
你向国王所求的财富,甚至比那更多,都从我这里拿去吧。无罪者啊,请回去吧。
1.50.27
स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥ १.५०.२७ ॥
那位蛇王如此说后,二生者中最优秀的迦叶从德叉迦那里得到了他所渴望的财富,便返回了。
1.50.28
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव ॥ १.५०.२८ ॥
那位婆罗门离去后,德叉迦暗中接近那位国王——诸王之最,你那位正直的父亲。
1.50.29
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥ १.५०.२९ ॥
他也用毒火焚烧了那位在宫中的人。于是,人中之虎啊,你被加冕以求胜利。
1.50.30
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम् ॥ १.५०.३० ॥
诸王之最啊,我们所见所闻的这一切,都已如实完整地告诉了你,它极其可怖。
1.50.31
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम् ।
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम् ॥ १.५०.३१ ॥
人中之最,既已听闻国王的这次战败,便请依次行事,关于此仙人乌唐迦之后所发生的事情。
1.50.32
एतस्मिन्नेव काले तु स राजा जनमेजयः ।
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः ॥ १.५०.३२ ॥
就在此时,降伏敌人的国王阇那弥阇耶对所有大臣说了这番话。
1.50.33
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ ।
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा ॥ १.५०.३३ ॥
那在树中发生、对世界而言奇异、而后化为灰烬堆的事情,是谁讲述的?
1.50.34
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै ।
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात् ॥ १.५०.३४ ॥
迦叶仙人使那棵被德叉迦咬伤的树复活;若其毒已被咒语消除,它就不会因迦叶而毁灭了。
1.50.35
चिन्तयामास पापात्मा मनसा पन्नगाधमः ।
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति ॥ १.५०.३५ ॥
那心怀恶念、最卑劣的蛇王在心中思忖:'若这位婆罗门使我所咬的国王复活……'
1.50.36
तक्षकः संहतविषो लोके यास्यति हास्यताम् ।
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै ॥ १.५०.३६ ॥
德叉迦聚集了毒液,将在世间成为笑柄。如此思量之后,他确实使那婆罗门满意了。
1.50.37
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् ।
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने ॥ १.५०.३७ ॥
必定会有办法让我施加惩罚的那人受罚。但我想听一件事:那在荒僻森林中发生的事情的经过。
1.50.38
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा ।
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम् ॥ १.५०.३८ ॥
当时是谁听到并看到了蛇王与迦叶之间的那番对话?它又是如何传到你们那里的?听了之后,我将下定决心,让蛇族走向灭亡。
1.50.39
शृणु राजन्यथास्माकं येन तत्कथितं पुरा ।
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ १.५०.३९ ॥
国王啊,请听——正如从前传给我们的那样:婆罗门中的至尊与蛇王在路上相遇了。
1.50.40
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ ॥ १.५०.४० ॥
国王啊,有一个人为了找柴火,先前爬上了那棵树——那是一棵枯枝满布的树。
1.50.41
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ ।
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप ॥ १.५०.४१ ॥
国王啊,树上的那两者——蛇与婆罗门——彼此都没有察觉;而那个人也与那棵树一同化为了灰烬。
1.50.42
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः ।
तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम् ॥ १.५०.४२ ॥
帝王中的至尊啊,凭借婆罗门的力量,那棵树重新复活了;而他亲自前来告诉了我们,婆罗门中的至尊啊。
1.50.43
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ।
एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्।
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम् ॥ १.५०.४३ ॥
国王啊,塔卡沙与那位婆罗门之间所发生的一切,已按所见所闻告诉您了。人中之虎啊,听了这些,请决定接下来该怎么做。
1.50.44
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे ॥ १.५०.४४ ॥
闻听大臣们的话,国王阴阳遮耶痛苦万分,内心煎熬,两手相互摩擦。
1.50.45
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः ॥ १.५०.४५ ॥
这位莲花眼的国王一再长叹,热气逼人;他哭泣起来,泪水从眼中流下。
1.50.46
उवाच च महीपालो दुःखशोकसमन्वितः ।
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि ॥ १.५०.४६ ॥
国王充满痛苦与悲伤,任由难以抑制的泪水滑落,依礼触摸净水,然后说道。
1.50.47
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः ।
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत् ॥ १.५०.४७ ॥
国王沉思片刻,心中已定,满怀愤怒,对所有大臣说了这些话。
1.50.48
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति ।
निश्चितेयं मम मतिर्या च तां मे निबोधत।
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने ॥ १.५०.४८ ॥
听了你们的话,关于我父亲升天之事,我的决定已经确定,请听我说。我认为接下来该对恶念的塔卡沙所做的事,就是这个。
1.50.49
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता ।
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम् ॥ १.५०.४९ ॥
必须如此报复:伤害我父亲的人,只把执角(Śṛṅgin)当作借口,并焚烧了国王。
1.50.50
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् ।
यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम ॥ १.५०.५० ॥
他的恶行在于让迦叶折返;若那位婆罗门前来,我的父亲定能复活。
1.50.51
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च ॥ १.५०.५१ ॥
若那位国王得以存活,他又会失去什么?靠迦叶的恩惠和大臣们的恭顺。
1.50.52
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् ।
संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥ १.५०.५२ ॥
他因迷惑而阻止了迦叶——那位最优秀的婆罗门,他前来让那位不败的国王复活。
1.50.53
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥ १.५०.५३ ॥
这确是恶人德叉迦的大罪:他把财物给了那位婆罗门,说“不要让国王复活”。
1.50.54
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम् ।
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः ॥ १.५०.५४ ॥
为了使乌当迦欢喜,也为了我自己及你们所有人的大欢喜,我要为父亲报仇。