Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.60.1

श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥ १.६०.१ ॥

闻知蛇祭中受戒的 Janamejaya,博学的仙人 Kṛṣṇa Dvaipāyana 便前去拜见他。

1.60.2

जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥ १.६०.२ ॥

他是 Kālī(Satyavatī)在尚为少女时,于 Yamunā 河的一座岛上所生,由 Śakti 之子 Parāśara 所孕育,是 Pāṇḍava 兄弟的祖父。

1.60.3

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् ।
वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः ॥ १.६०.३ ॥

他一出生便借祭祀之仪使身体迅速长成,并以六支(吠陀支)与古史传说学习吠陀,是大名声者。

1.60.4

यं नाति तपसा कश्चिन्न वेदाध्ययनेन च ।
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥ १.६०.४ ॥

无人能以苦行、诵习吠陀、誓愿、斋戒、子嗣或愤怒超越他。

1.60.5

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥ १.६०.५ ॥

他将唯一的吠陀分为四部,是精通吠陀者中最优秀的,通晓上下之理的梵仙、诗人、持守真实誓愿且清净。

1.60.6

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।
शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥ १.६०.६ ॥

他也生下了 Pāṇḍu、Dhṛtarāṣṭra 与 Vidura,延续了 Śantanu 的后嗣,是功德美名、大名声者。

1.60.7

जनमेजयस्य राजर्षेः स महात्मा सदस्तथा ।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः ॥ १.६०.७ ॥

这位大德与精通吠陀及其支分的弟子们一同进入了王仙贤者嘉奈摩阇耶的大会堂。

1.60.8

तत्र राजानमासीनं ददर्श जनमेजयम् ।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् ॥ १.६०.८ ॥

他在那里看见国王嘉奈摩阇耶端坐,被许多会众环绕,如同因陀罗被诸天环绕。

1.60.9

तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः ।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥ १.६०.९ ॥

在祭场之中,他被头戴灌顶的诸王、各邦之主以及如梵天般精通的祭司所环绕。

1.60.10

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् ।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥ १.६०.१० ॥

王仙嘉奈摩阇耶见那位仙人到来,便偕随从迅速怀着喜悦起身迎接;他是婆罗多族中的最优者。

1.60.11

काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः ।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥ १.६०.११ ॥

经会众同意,国王为他安设了一座金座,正如因陀罗为岐婆·布利诃娑帝所设的座位一样。

1.60.12

तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ १.६०.१२ ॥

那位赐予恩惠者坐在那里,受诸天与仙人众的尊崇;诸王之王依照圣典所规定的仪轨礼敬了他。

1.60.13

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥ १.६०.१३ ॥

他依照仪轨,向值得如此供奉的祖父黑天(毗耶娑)奉上洗足水、漱口水、阿尔ghya与一头牛。

1.60.14

प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात् ।
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ १.६०.१४ ॥

毗耶娑接受了般度族后裔赞世阎游的供奉,又允许了那头牛,于是心生欢喜。

1.60.15

तथा च पूजयित्वा तं प्रणयात्प्रतितामहम् ।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥ १.६०.१५ ॥

同样,他以深情回敬这位祖父,然后心怀喜悦地在近旁坐下,询问他的安好。

1.60.16

भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च ।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत् ॥ १.६०.१६ ॥

这位尊者也见到了他,告知了自己的安好,受到全体与会者的敬奉,并以此回敬与会者。

1.60.17

ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः ।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥ १.६०.१७ ॥

此后,赞世阎游与全体与会者一同合掌,向再生者中最尊贵的人问道:

1.60.18

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥ १.६०.१८ ॥

再生者啊,您曾亲眼目睹俱卢族与般度族;我愿听您讲述他们的事迹。

1.60.19

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् ।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥ १.६०.१९ ॥

那些行事毫不费力的人之间,分裂是如何产生的?那场导致众生毁灭的大战又是如何发生的?

1.60.20

पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् ।
कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम।
इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि ॥ १.६०.२० ॥

最优秀的再生者啊,请将我众祖先之事完整地告诉我,他们的心智被命运所攫取。我希望如实听闻,因为尊者您精通此道。

1.60.21

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ १.६०.२१ ॥

听了他的话,克利须那·二岛(Kṛṣṇa Dvaipāyana)便吩咐坐在近旁的弟子毗舍摩衍那(Vaiśampāyana)。

1.60.22

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ १.६०.२२ ॥

把你从我这里听到的,关于往昔库鲁族与般度族之间如何产生分裂的一切,都讲给他听。

1.60.23

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।
आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ १.६०.२३ ॥

这位婆罗门中的雄牛领会了老师的吩咐,便开始讲述全部古老的历史。

1.60.24

राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः ।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा ॥ १.६०.२४ ॥

他便向那位国王、众位议会成员以及在场的所有王者,讲述了库鲁族与般度族的分裂及其彻底的毁灭。