マハーバーラタ · 章 1.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.62.1
कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।
महाभारतमाख्यानं कुरूणां चरितं महत् ॥ १.६२.१ ॥
二生者の最上よ、あなたはクル族の偉大な事績たるマハーバーラタの物語を、すべて簡潔に語り終えた。
1.62.2
कथां त्वनघ चित्रार्थां कथयस्व तपोधन ।
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ १.६२.२ ॥
汚れなき苦行の富める方よ、意味豊かなその物語をお話しください。詳しく聞きたい私の好奇心は大いに高まりました。
1.62.3
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ १.६२.३ ॥
ですからあなたこそ、これを詳しく改めて語るにふさわしい方です。先祖の偉大な事績を聞いても私は飽き足りません。
1.62.4
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः ।
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ १.६२.४ ॥
法(ダルマ)を知る般度の子らは、殺されるべきでなかった者たちをことごとく殺した。その理由は小さくなく、人々はそれゆえに彼らを称える。
1.62.5
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः ।
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥ १.६२.५ ॥
人中の虎たちよ、力があり罪なき身でありながら、なぜ悪人たちが与えた苦難を耐え忍んだのか。
1.62.6
कथं नागायुतप्राणो बाहुशाली वृकोदरः ।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥ १.६२.६ ॥
二生者の最上よ、万頭の象の生命力をもつ剛腕のヴリコーダラ(ビーマ)は、苦しめられながらも怒りをどうして抑えたのか。
1.62.7
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः ।
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा ॥ १.६२.७ ॥
邪悪な者たちに苦しめられた黒きドラウパディーは、力も貞節もありながら、なぜ怒りの眼でドリタラーシュトラの息子たちを焼き尽くさなかったのか。
1.62.8
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा ।
अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः ॥ १.६२.८ ॥
賭博で不運に陥り、邪悪な者たちに虐げられたプリターの息子たちとマードリーの息子たち、あの人中の虎たちは、その時どのように彼らに従ったのか。
1.62.9
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् ।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥ १.६२.९ ॥
法を保つ者の中で最も優れ、法の子であり、法を知るユディシュティラは、そうされるに値しないのに、あの至上の苦悩をどうして耐え忍んだのか。
1.62.10
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः ॥ १.६२.१० ॥
クリシュナを御者とするパーンダヴァのダナンジャヤは、ただ一人で矢を放ち、あの多くの軍勢をことごとく祖霊の世界へ送ったのか。
1.62.11
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।
यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः ॥ १.६२.११ ॥
苦行の宝よ、これらすべてを実際に起きたとおりに私に語ってください。そして、あの偉大な戦車戦士たちがあちこちで行ったことすべてを。
1.62.12
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः ।
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः ॥ १.६२.१२ ॥
偉大なる王よ、しばし耳を傾けよ。この広大な流れは、クリシュナ・ドヴァイパーヤナが語った聖なる物語に属するものであり、今まさに語られるべきである。
1.62.13
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ १.६२.१३ ॥
あらゆる世界で尊ばれる大聖者、偉大な魂、無量の威光を持つヴィヤーサの全き教えを私は語ろう。
1.62.14
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥ १.६२.१४ ॥
ここにサティヤヴァティーの子、無量の力を持つヴィヤーサが、功徳ある行いについてのこの十万の詩節を説いた。
1.62.15
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ।
संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप ॥ १.६२.१५ ॥
挿話を伴うこの優れたバーラタは、知られ、朗誦されるべきものである。人主よ、私はそれを全て簡潔に語ろう。
1.62.16
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च ।
श्लोकानां तु सहस्राणि नवतिश्च दशैव च।
ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा ॥ १.६२.१६ ॥
二千の章、百の巻、そして九万十の詩節がある。その後、十八の巻として偉大な聖者によって編纂された。
1.62.17
य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः ।
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥ १.६२.१७ ॥
これを誦ぜさせる学者も、これを聞く人々も、梵天の住処に至り、神々に等しい境地を得る。
1.62.18
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् ।
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥ १.६२.१८ ॥
これは実に清浄で至上であり、ヴェーダに等しい。誦ずべきものの中でこれが最上であり、この古伝承は聖者たちに讃えられている。
1.62.19
अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते ।
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ १.६२.१९ ॥
この最も神聖な物語において、アルタ(利)とカーマ(欲)は余すところなく説かれ、また最高の確固たる知性も説かれるであろう。
1.62.20
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् ।
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते ॥ १.६२.२० ॥
高潔で、施しを好み、真実を重んじ、信仰篤い聴衆に、このクリシュナのヴェーダを朗誦する学者は、その果報を得る。
1.62.21
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् ।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥ १.६२.२१ ॥
胎児殺しによって生じた罪であっても、また極めて残酷な人であっても、この物語を聞けば、疑いなくその罪を捨てるのである。
1.62.22
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा ।
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ॥ १.६२.२२ ॥
ラーフから月が解放されるように、人はあらゆる罪から解放される。「ジャヤ」と名づけられたこの物語は、勝利を望む者が聞くべきである。
1.62.23
महीं विजयते राजा शत्रूंश्चापि पराजयेत् ।
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् ॥ १.६२.२३ ॥
王は大地を征服し、敵をも打ち負かす。これは最上のプンサヴァナの儀礼であり、偉大なスヴァスティアヤナである。
1.62.24
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ।
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् ॥ १.६२.२४ ॥
第一王妃と世継ぎの王子は、これを何度も聞くべきである。彼らは勇敢な息子、あるいは王国を分かつ娘を産むであろう。
1.62.25
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् ।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ १.६२.२५ ॥
これは尊い法の教典であり、これは最高の利の教典である。無限の智慧を持つヴィヤーサによって、これは解脱の教典とも説かれた。
1.62.26
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्।
इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह ॥ १.६२.२६ ॥
バラタの牡牛よ、ここにあるダルマ・アルタ・カーマ・モークシャのものは他にもある。ここにないものはどこにもない。この世でこれはここで、バラモンの間でバラモンによって語られた。
1.62.27
संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे ।
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ १.६२.२७ ॥
今も人々はこれを語り、他の人々もこれを聞くだろう。聞くことを望む息子たちや、喜ばせる行いをする召使いがいる。
1.62.28
भरतानां महज्जन्म शृण्वतामनसूयताम् ।
नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ १.६२.२८ ॥
嫉妬せずにバラタ族の偉大な系譜を聞く者には、病の恐れはない。ましてや来世の恐れなどどこにあろうか。
1.62.29
शरीरेण कृतं पापं वाचा च मनसैव च ।
सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः ॥ १.६२.२९ ॥
身体・言葉・心で犯したあらゆる罪を、これを聞く人はたちどころにすべて捨て去る。
1.62.30
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च ।
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ १.६२.३० ॥
これは吉祥で、名声・長寿・功徳・天界をもたらす。功徳を積むことを望んだクリシュナ・ドヴァイパーヤナ(ヴィヤーサ)によって作られた。
1.62.31
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ १.६२.३१ ॥
偉大な心のパーンダヴァたちと、富と威光に満ちた他のクシャトリヤの名声を世に広めつつ。
1.62.32
सर्वविद्यावदातानां लोके प्रथितकर्मणाम् ।
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन् ॥ १.६२.३२ ॥
あらゆる学問によって清められ、世に名高い行いをした人々の名声を広めつつ。この世で功徳のために清らかなバラモンたちを……
1.62.33
श्रावयेत महापुण्यं तस्य धर्मः सनातनः ।
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः ॥ १.६२.३३ ॥
この大功徳を聞かせる者には、そのダルマは永遠である。清らかにして、名高いクル族の系譜を常に唱える者。
1.62.34
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् ।
योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः ॥ १.६२.३४ ॥
誓戒を堅く守るバラモンが功徳ある『バーラタ』を学べば、広大な血統を得て、世で最も尊ばれる者となる。
1.62.35
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते ।
विज्ञेयः स च वेदानां पारगो भारतं पठन् ॥ १.६२.३५ ॥
雨季の四か月の間(これを読む者は)一切の罪から解放される。そして『バーラタ』を読む者は、ヴェーダに通達した者と知られるべきである。
1.62.36
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा ।
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा ॥ १.६२.३६ ॥
ここでは神々、王仙、功徳ある梵仙が讃えられ、罪を振り払った者たちが讃えられ、ケーシャヴァもまた同様に讃えられる。
1.62.37
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते ।
अनेकजननो यत्र कार्तिकेयस्य संभवः ॥ १.६२.३७ ॥
尊き神々の主と女神が讃えられ、幾多の生を経たカールティケーヤの誕生が語られる所。
1.62.38
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते ।
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः ॥ १.६२.३८ ॥
婆羅門と牛の偉大さが讃えられる所。この聖典の全体は、法を心とする者が聴くべきである。
1.62.39
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु ।
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम् ॥ १.६२.३९ ॥
ここで祭日に婆羅門にこれを聞かせる博学の者は、罪を払い、天界を得て、永遠のブラフマンへ赴く。
1.62.40
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः ।
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह ॥ १.६२.४० ॥
śrāddhaにおいてこの詩節を最後まで婆羅門に聞かせる者の祭祀は尽きることなく、ここの祖霊たちは彼のもとへ戻る。
1.62.41
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा ।
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् ॥ १.६२.४१ ॥
昼に諸感覚や意によって犯される罪、そして人が知って、あるいは知らずになす一切。
1.62.42
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ।
भरतानां महज्जन्म महाभारतमुच्यते ॥ १.६२.४२ ॥
その『マハーバーラタ』の物語を聞くだけで罪は消え去る。バラタ族の偉大な誕生こそが『マハーバーラタ』と呼ばれる。
1.62.43
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
भरतानां महज्जन्म महाभारतमुच्यते ॥ १.६२.४३ ॥
これの語源を知る者は、あらゆる罪から解放される。バラタ族の偉大な生誕の物語が「マハーバーラタ」と呼ばれる。
1.62.44
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः ।
त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत् ॥ १.६२.४४ ॥
これが語り伝えられるとき、人々は大きな罪からさえ解放される。大いなる福をもつクリシュナ・ドヴァイパーヤナ(ヴィヤーサ)は、三年でこれを作ったと語った。
1.62.45
नित्योत्थितः शुचिः शक्तो महाभारतमादितः ।
तपोनियममास्थाय कृतमेतन्महर्षिणा ॥ १.६२.४५ ॥
常に目覚め、清浄で力あるその大聖は、苦行と戒律を身につけ、始めからこの『マハーバーラタ』を編んだ。
1.62.46
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् ।
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् ॥ १.६२.४६ ॥
ゆえに、戒律を守るバラモンは、クリシュナが語ったこの聖なる至高のバーラタの物語を聴くべきである。
1.62.47
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः ।
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः ॥ १.६२.४७ ॥
これを語り聞かせるバラモンも、聴く人々も、あらゆる面で正しく振る舞えば、為したことと為さなかったことを嘆く必要はない。
1.62.48
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि ।
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् ॥ १.६२.४८ ॥
法を求める人は、この歴史をすべて余すところなく聴くべきである。そうすれば成就を得るであろう。
1.62.49
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः ।
यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते ॥ १.६२.४९ ॥
天界への道に至っても、人はこの大いなる功徳の歴史をこのように聞くことで得る満足を得ることはない。
1.62.50
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् ।
नरः फलमवाप्नोति राजसूयाश्वमेधयोः ॥ १.६२.५० ॥
信仰を持ち、功徳ある品行の人がこの驚くべき物語を聞き、また人に聞かせるならば、ラージャスーヤとアシュヴァメーダの供犠の果報を得る。
1.62.51
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः ।
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते ॥ १.६२.५१ ॥
尊い海と大山メールがともに宝玉の蔵として名高いように、これはバーラタと呼ばれる。
1.62.52
इदं हि वेदैः समितं पवित्रमषि चोत्तमम् ।
श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् ॥ १.६२.५२ ॥
これはまさにヴェーダに匹敵し、清浄で最上である。聞くに値し、耳に心地よく、清め、徳を増すものである。
1.62.53
य इदं भारतं राजन्वाचकाय प्रयच्छति ।
तेन सर्वा मही दत्ता भवेत्सागरमेखला ॥ १.६२.५३ ॥
王よ、この『バーラタ』を読誦者に施す者は、海に帯のように囲まれた大地全体を施したことになる。
1.62.54
पारिक्षित कथां दिव्यां पुण्याय विजयाय च ।
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम् ॥ १.६२.५४ ॥
パリークシットの子孫よ、私が全てを語るこの神聖な物語は功徳と勝利をもたらす。この喜びを与える物語を聞け。
1.62.55
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः ।
महाभारतमाख्यानं कृतवानिदमद्भुतम् ॥ १.६२.५५ ॥
常に早朝に起きた聖仙クリシュナ・ドヴァイパーヤナは、三年かけてこの驚くべき『マハーバーラタ』の物語を著した。
1.62.56
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम् ॥ १.६२.५६ ॥
私が語るこの古の物語を聞け。