Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.64.1

राजोपरिचरो नाम धर्मनित्यो महीपतिः ।
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः ॥ १.६४.१ ॥

有一位名为优帕里恰拉的国王,恒守法度,是大地之主。他喜好狩猎,同时始终专心诵习吠陀,且保持清净。

1.64.2

स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः ॥ १.६४.२ ॥

保卢瓦家族的欢喜者婆苏,依因陀罗的教导,取得了那片可爱的遮底国,那令人愉悦的领地,作为大地之主。

1.64.3

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम् ।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे ॥ १.६४.३ ॥

那位放下武器、居于修行林中、堪称苦行宝藏的国王,诸神在帝释(因陀罗)率领下确实来到他面前站立。

1.64.4

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै ।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन् ॥ १.६४.४ ॥

他们思量道:“此王凭苦行,堪配因陀罗之位。”于是以温言安抚,直接把那位国王从苦行中劝回。

1.64.5

न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते ।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत् ॥ १.६४.५ ॥

大地之主啊,愿此法在世间不致混乱;因为法已由你执持,它支撑着整个世界。

1.64.6

देवानहं पालयिता पालय त्वं हि मानुषान् ।
लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान् ॥ १.६४.६ ॥

我是诸天的守护者;你则守护人类。在世间守护法,恒常专注、心神安定。具足法者,将获得福报与永恒的世界。

1.64.7

दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः ।
ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥ १.६४.७ ॥

你成为我这位居于天界者的亲爱朋友,将居于大地。人主啊,请居住在大地的乳房那片地区吧。

1.64.8

पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान् ।
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥ १.६४.८ ॥

此地牲畜丰饶,吉祥,财富与谷物充足,易于守护,温和,并具备大地可享用的种种美德。

1.64.9

अर्थवानेष देशो हि धनरत्नादिभिर्युतः ।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥ १.६४.९ ॥

此地确实珍贵,富有财物、宝石等。大地充满宝藏;请居住在车底之国吧。

1.64.10

धर्मशीला जनपदाः सुसंतोषाश्च साधवः ।
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥ १.६४.१० ॥

此地的民众以法为本,善人极为知足。即使在自己人之间,这里也没有虚妄的闲谈;否则怎会如此呢?

1.64.11

न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः ।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च ॥ १.६४.११ ॥

儿子们不会被父亲分家;他们乐于增进长辈的福祉。他们把我们的牛套在犁轭上,并喂养、滋补连瘦弱的母牛也一并照料。

1.64.12

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद ।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् ॥ १.६४.१२ ॥

在车底之国,各个种姓始终安住于自己的本分。尊荣的赐予者啊,三界之中可能发生的任何事,你都不会不知道。

1.64.13

दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत् ।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥ १.६४.१३ ॥

这辆神圣的巨大水晶飞车,供诸神享用,停在天空中——我赐予你的这辆飞行于天空的车,将归你所有。

1.64.14

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः ।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव ॥ १.६४.१४ ॥

在所有凡人中,唯有你一人乘坐最好的飞车,停在高处穿行,如同显现形体的神灵。

1.64.15

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥ १.६४.१५ ॥

我赐你由不凋谢的莲花编成的胜利花环;它将在战斗中为你所佩戴,使你不被兵器所伤。

1.64.16

लक्षणं चैतदेवेह भविता ते नराधिप ।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥ १.६४.१६ ॥

这将是你在此的标志,人主啊:这花环名为“因陀罗花环”,吉祥、无与伦比、伟大。

1.64.17

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः ।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम् ॥ १.६४.१७ ॥

斩杀弗栗多的因陀罗赐给他一根竹杖,用来满足所求并庇护善人。

1.64.18

एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत् ।
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम् ॥ १.६४.१८ ॥

因陀罗如此安慰国王,使他放弃苦行,完成了天界众神的使命,便与众神一同离去。

1.64.19

ततस्तु राजा चेदीनामिन्द्राभरणभूषितः ।
इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् ॥ १.६४.१९ ॥

于是,车底国王身着因陀罗所赐的饰物,登上因陀罗所赐的天车,前往城中。

1.64.20

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा ।
प्रवेशं कारयामास सर्वोत्सववरं तदा ॥ १.६४.२० ॥

于是地上之主为礼敬帝释,令人在地上举行入城仪式,是一切节庆中最殊胜者。

1.64.21

मार्गशीर्षे महाराज पूर्वपक्षे महामखम् ।
ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः ॥ १.६४.२१ ॥

大王啊,在末伽尸沙月的白分,此大祀得以举行;从那时起直至今日,最优秀的君主们都在举行它。

1.64.22

प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ।
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः ॥ १.६४.२२ ॥

大王啊,入城仪式依他所立之法而行;次日,诸王再将其高大的旗帜升起。

1.64.23

अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः ।
माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम् ॥ १.६४.२३ ॥

以竹篮、香料、花鬘和饰物装饰,周围缠绕花鬘之带,高三十二“基斯库”。

1.64.24

उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये ।
महारजनवासांसि परिक्षिप्य ध्वजोत्तमम् ॥ १.६४.२४ ॥

将其置于高十二“阿罗特尼”的竹篮中升起,并以大幅彩色布匹包裹,便升起了这面殊胜的旗帜。

1.64.25

वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः ।
पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा ॥ १.६४.२५ ॥

请最优秀的婆罗门诵念吉祥祝福,并以衣物与饮食供养他们之后,便升起旗帜。

1.64.26

शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा ।
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः ॥ १.६४.२६ ॥

此时以海螺、鼓与鼙鼓齐鸣;此处以杖的形态供奉尊贵的婆薮(因陀罗)。

1.64.27

स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ।
माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह ॥ १.६४.२७ ॥

因伟大心性的婆苏出于爱而自行接受,摩尼跋陀罗等夜叉与诸神一同受到供奉。

1.64.28

नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः ।
अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा ॥ १.६४.२८ ॥

向求乞者施以种种布施之后,朋友亲眷以花鬘和各种衣物庄严自身。

1.64.29

दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् ।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः ॥ १.६४.२९ ॥

依国王之命,众人以盛水的皮囊嬉戏,尊敬国王,并讲述诙谐的故事。

1.64.30

रमन्ते नागराः सर्वे तथा जानपदैः सह ।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः ॥ १.६४.३० ॥

城中所有居民与乡民一同欢乐;御者与赞颂者、演员与舞者也都尽情欢乐。

1.64.31

प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम् ।
सान्तःपुरः सहामात्यः सर्वाभरणभूषितः ॥ १.६४.३१ ॥

人中之虎啊,众人欢欣地举行盛大的节庆,连同后宫与大臣,皆身披各种饰物。

1.64.32

महारजनवासांसि वसित्वा चेदिराट् तदा ।
जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा ॥ १.६४.३२ ॥

那时,唾底王身披大红衣裳,涂抹着茉莉红粉,与妻子们一同欢喜。

1.64.33

एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः ।
यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः ॥ १.६४.३३ ॥

如此,各地百姓皆举行因陀罗节,正如欢喜的唾底主王伐苏所举行的因陀罗节一般。

1.64.34

एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम् ।
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ १.६४.३४ ॥

大因陀罗见到伐苏所行的这吉祥供养,便乘坐由棕黄色骏马牵引、在空中行进的战车。

1.64.35

आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः ।
वसुना राजमुख्येन समागम्याब्रवीद्वचः ॥ १.६४.३५ ॥

他与舍质同乘战车,被天女众环绕,来到诸王之首伐苏面前,说出了这些话。

1.64.36

ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ।
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥ १.६४.३६ ॥

凡欢喜供养者,如唾底主王所行;凡欢喜使人行供养者,如唾底主王所使。

1.64.37

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति ।
तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥ १.६४.३७ ॥

他们将获得繁荣与胜利,连同其王国;如此,国土将繁盛喜乐。

1.64.38

निरीतिकानि सस्यानि भवन्ति बहुधा नृप ।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन ॥ १.६४.३८ ॥

大王,庄稼将多方免于灾害,罗刹与毕舍遮无论如何也不会损害它们。

1.64.39

एवं महात्मना तेन महेन्द्रेण नराधिप ।
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः।
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् ॥ १.६४.३९ ॥

人主啊,那位大德的摩醯因陀罗以爱意,借摩ghavan之名尊敬大王优苏。如此行毕,摩醯因陀罗便返回了自己的居所。

1.64.40

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः ।
भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च ॥ १.६४.४० ॥

凡常为帝释举办节庆的人,将因施舍土地、宝物等物、举行赐予恩典的大祭,以及帝释节庆而受人尊敬。

1.64.41

संपूजितो मघवता वसुश्चेदीश्वरो नृपः ।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥ १.६४.४१ ॥

受摩ghavan妥善尊敬的遮提之主大王优苏,居于遮提,依法统治着这片大地。

1.64.42

इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः ।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ॥ १.६४.४२ ॥

因爱慕因陀罗,遮提之主优苏举行了因陀罗节。他有五子,皆有大勇、力量无量。

1.64.43

नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ।
महारथो मागधानां विश्रुतो यो बृहद्रथः ॥ १.६४.४३ ॥

这位君王在各个王国为其诸子举行灌顶;摩揭陀的大车战士、著名的勃诃陀罗也在其中。

1.64.44

प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ।
मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥ १.६४.४४ ॥

普罗底迦罗与俱舍婆,被称为摩尼婆诃那者,摩蒂西拉,耶度,以及不败的罗阇尼耶。

1.64.45

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः ।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥ १.६४.४५ ॥

大王啊,这些是那位光辉灿烂的王仙的儿子。他们以自己的名字建立了国土与城市。

1.64.46

वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः ।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् ॥ १.६४.४६ ॥

婆苏之后的五位王,各有其族,且永恒不灭,与他一同居住在因陀罗的宫殿中,在天空、水晶之殿里。

1.64.47

उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥ १.६४.४७ ॥

乾闼婆与阿普莎罗们侍奉那位大德之王;因此他以“王上升者”(优波利恭罗)之名而闻名。

1.64.48

पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः ।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥ १.६४.४८ ॥

流经他城前的 Śuktimatī 河,被有知觉的山 Kolāhala 出于欲望而阻断。

1.64.49

गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।
निश्चक्राम ततस्तेन प्रहारविवरेण सा ॥ १.६४.४९ ॥

婆苏用脚踢那座柯拉哈拉山,她便从这一击造成的裂口中涌出。

1.64.50

तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम् ।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥ १.६४.५० ॥

在那河中,山自己生出了一对双胞胎;河因这次解脱而欢喜,便将此事禀告了国王。

1.64.51

महिषी भविता कन्या पुमान्सेनापतिर्भवेत् ।
शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः ॥ १.६४.५१ ॥

“女孩将成为正妃,男孩将成为军队统帅。”那位最优秀的国王听了舒克蒂玛蒂的话,又见到了那两个孩子,(心中欢喜)。

1.64.52

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः ॥ १.६४.५२ ॥

在那里诞生的男孩,被那位最优秀的王家贤者、赐予财富、降伏敌人的婆苏任命为军队统帅。

1.64.53

चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः ।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत् ॥ १.६४.५३ ॥

国王将那位少女吉利卡娶为妻子。随后,婆苏之妻吉利卡向他报告了她的欲望之期(月经之期)。

1.64.54

ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ।
तदहः पितरश्चैनपूचुर्जहि मृगानिति ॥ १.६४.५४ ॥

她的月经之期到来,沐浴后为求生男之仪式而保持清净。那一天,祖先们对她说:“去杀鹿吧。”

1.64.55

तं राजसत्तमं प्रीतास्तदा मतिमतां वरः ।
स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः ॥ १.६४.५५ ॥

依祖灵之命,国王越过了她;那时,智者中之最上者欣然看着这位王中之最……

1.64.56

चकार मृगयां कामी गिरिकामेव संस्मरन् ।
अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम् ॥ १.६४.५६ ॥

他心怀爱欲,只念着那山中少女去狩猎;她美艳非凡,仿佛另一位吉祥天女亲临。

1.64.57

अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः ।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥ १.६४.५७ ॥

有无忧树、金色花、芒果树、许多攀缘的无上解脱花、布纳伽树、卡尼迦罗树、巴古罗树和天上的巴塔拉树……

1.64.58

पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा ।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् ॥ १.६४.५८ ॥

有波罗蜜、椰子树、檀香树和阿周那树,有这些可爱的大树,结满纯净甜美果实的……

1.64.59

कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् ।
वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम् ॥ १.६४.५९ ॥

在春天时节,看着那片充满杜鹃鸣声、回荡着醉蜂嗡鸣的树林,它如同吉祥车园……

1.64.60

मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा ।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया ॥ १.६४.६० ॥

他心神被爱神所困,那时没有看见那山中少女;被欲火煎熬,随意漫游,竟未见到她。

1.64.61

पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम् ।
अशोकस्तबकैश्छन्नं रमणीयमपश्यत ॥ १.६४.६१ ॥

他看见一处可爱的地方,枝头盛开着花朵,嫩芽装点其间,被无忧树的花簇覆盖。

1.64.62

अधस्यात्तस्य छायायां सुखासीनो नराधिपः ।
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम् ॥ १.६४.६२ ॥

国王舒适地坐在树荫之下,看见那地方因蜂蜜的香气和花朵的芬芳而令人心醉。

1.64.63

वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् ।
भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत।
तस्य रेतः प्रचस्कन्द चरतो गहने वने ॥ १.६४.६३ ॥

他被风吹动,沉溺于与Dhūmrā的欢乐;思念妻子之时,他心中的爱欲之火越烧越旺。他在茂密的森林中游走时,精液泄出。

1.64.64

स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत ॥ १.६४.६४ ॥

精液刚一落下,国王便用一片树叶接住,心想:“我的精液不可白白落下。”

1.64.65

अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः ।
अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत् ॥ १.६४.६५ ॥

国王用戒指保护那白色的精液,并用红色的无忧树花簇和嫩芽将其包裹系好。

1.64.66

इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति ।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥ १.६४.६६ ॥

“愿我这精液不致白白流出,也愿我妻子的月经期不致徒劳无功。”这位君主心想。

1.64.67

संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः ।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥ १.६४.६७ ॥

国王如此反复思量之后,明白了精液不会落空,这位最优秀的国王便安下心来。

1.64.68

शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै ।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥ १.६४.६८ ॥

他仔细观察了王后的时节,然后以咒语加持精液,看见远处站立的那只迅疾的鹰。

1.64.69

सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत् ।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय ॥ १.६४.६९ ॥

那位通晓细微的法与利之真理的国王走到鹰前说:"温顺的朋友,为了我所爱的人,请把这精液带到我的宫中。"

1.64.70

गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् ॥ १.६४.७० ॥

"快把它交给吉利卡,因为今天正是她的时节。"鹰立刻接过,迅速地振翅飞起。

1.64.71

जवं परममास्थाय प्रदुद्राव विहंगमः ।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः ॥ १.६४.७१ ॥

这只鸟以最快的速度飞驰而去。它看见那只迎面而来的鹰,另一只鹰也同样看见了它。

1.64.72

अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः ॥ १.६४.७२ ॥

那只鹰见到它,怀疑是肉,立即扑了上去。于是两只鹰在空中用喙展开了搏斗。

1.64.73

युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा ॥ १.६४.७३ ॥

两人争斗之时,精液落入亚穆纳河水中。那里因婆罗门的诅咒,住着一位名叫阿德里卡的著名天女。

1.64.74

मीनभावमनुप्राप्ता बभूव यमुनाचरी ।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् ॥ १.६४.७४ ॥

她化为鱼形,在亚穆纳河中游荡;那是从鹰爪中掉落的婆苏的精液。

1.64.75

जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी ।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः ॥ १.६४.७५ ॥

化为鱼形的阿德里卡迅速靠近并将其吞取。一次,渔民捕获了那条雌鱼。

1.64.76

मासे च दशमे प्राप्ते तदा भरतसत्तम ।
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ ॥ १.६४.७६ ॥

婆罗多族的最优者啊,到了第十个月,人们从她的腹中取出了两个人,一位女子和一位男子。

1.64.77

आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन् ।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति ॥ १.६४.७७ ॥

他们前往王宫,向国王报告了这桩奇事:“大王,这两个人是从一条鱼的身体中诞生的。”

1.64.78

तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥ १.६४.७८ ॥

两人之中,国王优帕里恰拉那时收养了那个男子。那位正直、恪守诚言的国王以“摩差”之名闻名。

1.64.79

साऽप्सरा मुक्तशापा च क्षणेन समपद्यत ।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा ॥ १.६४.७९ ॥

摆脱诅咒的那位天女瞬间恢复了原形——便是先前世尊所说、堕入畜生之胎的吉祥女。

1.64.80

मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ।
ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः ॥ १.६४.८० ॥

你生下两个人类子女后,便会获得解脱诅咒。随后,她生下他们,却被渔夫杀害。

1.64.81

संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ १.६४.८१ ॥

舍弃鱼形、重获天身之后,那位殊胜的天女便走上了悉陀、仙人与乐神的道路。

1.64.82

सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी ।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति ॥ १.६४.८२ ॥

那位少女便是她的女儿——生于鱼腹,身有鱼腥味。国王把她交给渔夫,说:“愿此女归你所有。”

1.64.83

रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः ।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् ॥ १.६४.८३ ॥

她容貌端庄、德性兼备,诸般美德齐全;因为寄居于渔夫之处,她被称为萨提亚瓦蒂。

1.64.84

आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता ।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम् ॥ १.६४.८४ ॥

有一段时间她仍带着鱼腥味,笑容纯洁;为了侍奉父亲,她在水上撑船。

1.64.85

तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ।
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् ॥ १.६४.८५ ॥

巡礼途中的波罗奢罗果然看见一位美貌非凡、连悉陀也渴求的女子。

1.64.86

दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम् ।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः ॥ १.६४.८६ ॥

那位聪慧的仙人之首一见那笑容优美的女子,便生起了爱慕——那位天神般的婆苏之女,大腿如芭蕉树干一般。

1.64.87

संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः ।
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि ॥ १.६४.८७ ॥

他思量了这种可能,并认出她之后,沙克提之子说:"女士啊,驾驶这条船的舵手在哪里?请告诉我。"

1.64.88

अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया ।
सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज ॥ १.६४.८८ ॥

"婆罗门啊,我是无子的渔夫达沙之女;为了让他欢喜,我正在驾驶这条能载千人的船。"

1.64.89

शोभनं वासवि शुभे किं चिरायसि वाह्यताम् ।
कलशं भविता भद्रे सहस्रार्धेन संमितम् ॥ १.६४.८९ ॥

"婆苏之女啊,吉祥的人,这很好!为何迟疑?让船前行吧。善良的女子啊,将会有一只按五百之数量度的罐子。"

1.64.90

अहं शेषो भिविष्यामि नीयतामचिरेण वै ।
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले ॥ १.६४.९० ॥

"我将成为剩余之分;让它迅速被载送吧。" 玛特亚干陀说:"就这样吧",便在水中驾船前行。

1.64.91

वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा ।
मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः ॥ १.६४.९१ ॥

见仙人凝视着她,她于是说道:“人们称我为鱼香,乃渔王之女。”

1.64.92

जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् ।
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः ॥ १.६४.९२ ॥

“我因忧愁而备受煎熬,你怎能知道我的出生?请说吧。你凭神圣的知识,仅凭看见你的身形便已看透了。”

1.64.93

प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु ।
बर्हिषद इति ख्याताः पितरः सोमपास्तुते ॥ १.६४.९३ ॥

“为了赢得你的爱,我要告诉你,婆薮之女啊,你听着。他们是以巴尔希沙德之名著称的、饮用苏摩的祖先。”

1.64.94

तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता ।
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ॥ १.६४.९४ ॥

“你是他们意念所生之女,以阿乔陀之名闻名。那神圣的湖因你而得名阿乔陀,因为它是由此而生的。”

1.64.95

त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन ।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥ १.६४.९५ ॥

“你从未见过那些祖先。虽然你是他们意念所生,你却不认识自己的祖先。”

1.64.96

सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् ।
नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम् ॥ १.६४.९६ ॥

“可是她越过自己的那些祖先,选择了另一位父亲:名叫婆苏,是居于天界的摩奴之子。”

1.64.97

अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम् ।
सा तेन व्यभिचारेण मनसा कामचारिणी ॥ १.६४.९७ ॥

天上坐在天车中的他身边有天女阿德里迦。因与他行淫,她心中随欲而行,成为任意游荡之人。

1.64.98

पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा ।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात् ॥ १.६४.९८ ॥

她想要另一位丈夫,便失去瑜伽之力而坠落。坠落时,她看见附近有三辆天车。

1.64.99

त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन् ।
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान् ॥ १.६४.९९ ॥

她在那里看见自己的祖先,细微如尘埃,模糊不清,肢体仿佛彼此嵌入对方的肢体之中。

1.64.100

तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी ।
तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि ॥ १.६४.१०० ॥

她痛苦地头朝下坠落,对他们喊道:“父亲啊!”他们说:“不要怕。”因此她仍停留在天上。

1.64.101

ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा ।
तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात् ॥ १.६४.१०१ ॥

于是她用哀切的声音安抚自己的祖先。祖先们对那位因越轨而失去权能的少女说道。

1.64.102

भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ।
यैरारभन्ते कर्माणि शरीरैरिह देवताः ॥ १.६४.१०२ ॥

“纯净微笑的人啊,你因自己的过失而失去权能,正在坠落。诸神在此以之行祭祀的那些身体,你正以之坠落。”

1.64.103

तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः ।
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः ॥ १.६४.१०३ ॥

诸天以这些身体获得自己业行的果报;而人则以另一种身体承受善与恶,这便是既定之法。

1.64.104

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम् ॥ १.६४.१०४ ॥

在诸天之境,业行立即结果;在人身之中,则待死后方结果。因此,女儿啊,你正在坠落;死后你将得到你的果报。

1.64.105

पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता ।
मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि ॥ १.६४.१०५ ॥

你是无父的少女,却被认为是婆苏之女。你将从鱼腹中出生,成为一位国王的女儿。

1.64.106

अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे ।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ॥ १.६४.१०६ ॥

阿德里迦在恒河与阎牟那河的汇合处化为鱼身。你将生下一个继承婆罗舍罗的儿子。

1.64.107

यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति ।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम् ॥ १.६४.१०७ ॥

将一部吠陀分为四部的梵仙,将使摩诃跋首之子沙antanu的名声增长。

1.64.108

ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् ।
एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि ॥ १.६४.१०८ ॥

生下这些优秀的儿子——长子英雄妙彩(Citrāṅgada)和著名的妙勇(Citravīrya)——你将再次离去。

1.64.109

व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् ।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि ॥ १.६४.१०९ ॥

因冒犯祖先,你将获得卑贱的出生;作为此王的女儿,你将从阿德里卡的腹中降生。

1.64.110

अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ।
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा ॥ १.६४.११० ॥

在第二十八个德瓦帕拉时代,你将从鱼胎中诞生;他们先前如此告诉你,于是吉祥的萨提亚瓦蒂降生了。

1.64.111

अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा ।
मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम् ॥ १.६४.१११ ॥

那位名为阿德里卡的殊胜天女,因婆罗门的诅咒而化为鱼身。你产下孩子后便升天而去。

1.64.112

तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि ।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् ॥ १.६४.११२ ॥

你正是由她而生,凭国王的精液而生为少女。因此,婆薮之女啊,愿你吉祥;我请求一个能延续家族的儿子。

1.64.113

संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत ॥ १.६४.११३ ॥

「吉祥的女子啊,与我交合吧。」他这样对她说。

1.64.114

विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता ।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन् ॥ १.६४.११४ ॥

她全身为惊异所攫,忆起了自己的出生,说道:「尊者啊,请看那彼岸站立的仙人们。」

1.64.115

आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः ।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः ॥ १.६४.११५ ॥

若被他们看见,我们二人如何相会?世尊听她如此说,便造出了雾气。

1.64.116

येन देशः स सर्वस्तु तमोभूत इवाभवत् ।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ॥ १.६४.११६ ॥

因此整个地方仿佛陷入黑暗。那位大仙于是看见了被造出的雾气。

1.64.117

विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी ।
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् ॥ १.६४.११७ ॥

那少女又惊讶又羞怯。苦行女说:“尊者,请知道我是一个始终遵从父亲意愿的少女。”

1.64.118

त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ ।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम ॥ १.६४.११८ ॥

与你结合,我的少女之身便会被玷污,无罪者啊。少女之身被玷污,我怎能存活,婆罗门中最优秀者?

1.64.119

गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे ।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥ १.६४.११९ ॥

智者啊,我想回家,实在没有勇气留在这里。尊者,请考虑此事,然后决定接下来该怎么做。

1.64.120

एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः ।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति ॥ १.६४.१२० ॥

她如此说后,那位最优秀的仙人心中欢喜,对她说:“你为我做了所爱之事,仍将保持少女之身。”

1.64.121

वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि ।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥ १.६४.१२१ ॥

温柔的美人啊,请选择你所渴望的恩赐吧。纯净微笑的女子啊,我的恩惠从来不曾白白给予。

1.64.122

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।
सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः ॥ १.६४.१२२ ॥

他这样说后,她选择了身体最上乘的芬芳作为恩赐。那位尊贵的主便满足了她心中所愿。

1.64.123

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा ॥ १.६४.१२३ ॥

于是她得到恩赐,心中欢喜,以女性的美德装饰自己,前去与那位行事奇异的仙人结合。

1.64.124

तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि ॥ १.६४.१२४ ॥

大地上的人们在一由旬之外便能闻到她的芳香。

1.64.125

तस्या योजनगन्धेति ततो नामापरं स्मृतम् ।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ॥ १.६४.१२५ ॥

于是人们为她又记起了另一个名字:由旬香。如此,萨提亚瓦蒂获得了无上的恩赐,心中欢喜。

1.64.126

पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ १.६४.१२६ ॥

她与波罗舍罗结合后,立即怀孕并生下了孩子;在亚穆纳河的一个小岛上,诞生了波罗舍罗那位有威力的儿子。

1.64.127

स मातरमनुज्ञाप्य तपस्येव मनो दधे ।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥ १.६४.१२७ ॥

他向母亲告别后,将心专注于苦行,并说:「当你们在需要之时想起我,我便会显现。」

1.64.128

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः ॥ १.६४.१२८ ॥

如此,波罗舍罗使萨蒂耶哇蒂生下了二岛生;因为那婴儿被遗弃在岛上,他被称为二岛生。

1.64.129

पादापसारिणं धर्मं स तु विद्वान्युगे युगे ।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच ॥ १.६४.१२९ ॥

他知道法在每一世代都失去一足,并且考虑了凡人的寿命、力量以及时代的状况。

1.64.130

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया ।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः ॥ १.६४.१३० ॥

他因想要施恩于梵天与婆罗门,而将吠陀加以编排;因此被称为毗耶娑。

1.64.131

वेदानध्यापयामास महाभारतपञ्चमान् ।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥ १.६४.१३१ ॥

他以《摩诃婆罗多》为第五吠陀,将吠陀传授给苏曼图、阇弥尼、钵逻、以及他自己的儿子shuka。

1.64.132

प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च ।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ १.६४.१३२ ॥

这位强大、最为卓越、施予恩惠的导师也教导了吠舍阇衍那;通过他们,《婆罗多》的各种编本被分别传布。

1.64.133

तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः ।
वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥ १.६४.१३३ ॥

同样,檀奴之子毗湿摩,光辉无量,由婆苏之力从恒河所生;他英勇盖世,名声显赫。

1.64.134

वैदार्थविच्च भगवानृषिर्विप्रो महायशाः ।
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया ॥ १.६४.१३४ ॥

精通吠陀义理的尊贵仙人、婆罗门、大名声的古仙,虽非盗贼,却因被疑为盗贼而被刺于木桩上。

1.64.135

अणीमाण्डव्य इत्येवं विख्यातः स महायशाः ।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ॥ १.६४.१३५ ॥

这位以阿尼曼达维耶之名闻名的大名声者,往昔召唤法神,说了这番话。

1.64.136

इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका ।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे ॥ १.६४.१३६ ॥

童年时我用一根芦苇刺穿了一只小鸟;这过错我记得,法神啊。除此之外,我不记得任何别的罪过。

1.64.137

तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः ।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः ॥ १.६४.१३७ ॥

那么,我那无量的千年苦行为何在此未能获胜?因为杀害婆罗门比杀害一切众生更为沉重。

1.64.138

तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत ॥ १.६४.१३८ ॥

因此,因这罪过,你将降生于首陀罗之胎。由于那诅咒,法神也降生于首陀罗之胎。

1.64.139

विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः ।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ॥ १.६४.१३९ ॥

智慧而正直者以维杜罗之形降生;随后,因那过失,如仙人般的桑遮耶从伽伐尔伽那降生为御者。

1.64.140

सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः ।
सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः ॥ १.६४.१४० ॥

太阳神之子在少女贡蒂体内生下了大力的迦尔纳;他身披天生的铠甲,面容因耳环而光彩照人。

1.64.141

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥ १.६४.१४१ ॥

为了使世界蒙受恩典,受世界敬礼的毗湿奴,大名声者,从婆苏提婆在提婆基中显现。

1.64.142

अनादिनिधनो देवः स कर्ता जगतः प्रभुः ।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम् ॥ १.६४.१४२ ॥

那位无始无终的神,是世界的创造者与主宰;他是未显现的、不灭的梵,由三德构成的原初本质(自性)。

1.64.143

आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम् ।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम् ॥ १.६४.१४३ ॥

他是不灭的自我、自性、万有之源与主宰;是原人(补鲁沙),万事的作者,与萨埵相结合,坚固不灭。

1.64.144

अनन्तमचलं देवं हंसं नारायणं प्रभुम् ।
धातारमजमव्यक्तं यमाहुः परमव्ययम् ॥ १.६४.१४४ ॥

无限、不动的神,天鹅,那罗衍那,主宰,创造者,无生者,未显现者——人们称他为至上、不灭者。

1.64.145

कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् ।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः ॥ १.६४.१४५ ॥

他是独存者、无德者、宇宙、无始、不生、不灭。他是普鲁沙,遍在者,创造者,一切众生的祖父。

1.64.146

धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ ॥ १.६४.१४६ ॥

为了确立法,他们降生于安陀迦与毗湿尼之中:二人皆精通武器,威力强大,博通一切经典。

1.64.147

सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥ १.६४.१४७ ॥

萨提亚基与克利塔瓦尔曼,那罗延的追随者,生于萨蒂亚迦与赫利第迦;二人皆精于武艺。

1.64.148

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।
सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥ १.६४.१४८ ॥

跋罗堕遮的精液落入一只木槽中并逐渐长大;从那位苦行极严的仙人,德罗纳诞生了。

1.64.149

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥ १.६४.१४९ ॥

从乔达摩生出一对双胞胎;从芦苇丛生出沙罗陀婆多。阿奢婆陀的母亲与大力者克利巴也降生了。

1.64.150

अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः ।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ॥ १.६४.१५० ॥

此后,强大的阿奢婆陀从德罗纳而生;同样,光辉如火的德里斯塔达尤姆纳也降生了。

1.64.151

वैताने कर्मणि तते पावकात्समजायत ।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान् ॥ १.६४.१५१ ॥

在盛大举行的吠陀祭祀(Vaitāna)中,从火中诞生了一位英雄,他为毁灭德罗纳而拿起弓,极为勇猛。

1.64.152

तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा ।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥ १.६४.१५२ ॥

同样,克利希娜也从祭坛中诞生,她光辉灿烂而吉祥,身体闪耀,具有至高的容貌。

1.64.153

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः ।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥ १.६४.१५३ ॥

之后,那伽那吉特与苏巴拉成为了钵罗诃罗陀的弟子;因激怒诸神,他们的后代生出,成为毁坏正法的人。

1.64.154

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा ।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ ॥ १.६४.१५४ ॥

乾陀罗王之子沙古尼,即苏巴拉之后,应运而生;杜尤达纳之母与沙古尼也一同出生,二人皆精通财务之道。

1.64.155

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥ १.६४.१५५ ॥

从黑双岛仙人(毗耶娑)生出人主持国王;而在毗基特拉维利亚的田地中,也生出了大力的般度。

1.64.156

धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः ।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि ॥ १.६४.१५६ ॥

精通法与财利、智慧、聪明、无垢的毗杜罗,生于首陀罗之胎,却也由毗耶娑所生。

1.64.157

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥ १.६४.१५७ ॥

般度有五个如同诸神的儿子,由他的两位妻子所生。他们之中,以德行居长的是坚战(Yudhiṣṭhira)。

1.64.158

धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः ॥ १.६४.१५८ ॥

由法神生出坚战,由风神生出狼腹(Bhīma),由因陀罗生出光辉的财主(Dhanaṃjaya,阿周那),他是一切持兵者中最优秀的。

1.64.159

जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि ।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥ १.६४.१५९ ॥

由双马神生出容貌俊美的孪生子那伽罗(Nakula)与萨诃提婆(Sahadeva),二人都专心侍奉长辈。

1.64.160

तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥ १.६४.१६० ॥

同样,智慧的持国王生了一百个儿子,以难敌为首,其中还有Yuyutsu与Karaṇa。

1.64.161

ततो दुःशासनश्चैव दुःसहश्चापि भारत ।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः ॥ १.६४.१६१ ॥

其次是难降、难胜、婆罗多啊,还有难忍、毗迦尔纳、奇光与毗毗婆提。

1.64.162

जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः ॥ १.६४.१६२ ॥

胜、真誓、富友,婆罗多啊,还有吠舍之子油由赞——这十一位是大车战士。

1.64.163

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत ।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥ १.६४.१६३ ॥

阿毗曼由在苏跋陀罗腹中由阿周那所生。他是婆苏提婆之甥,大德般度之孙。

1.64.164

पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे ।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः ॥ १.६४.१६४ ॥

般度五子从潘遮罗之女德罗波蒂处各生一子:五位俊美的王子,精通一切学术。

1.64.165

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ १.६४.१६५ ॥

从坚战生出普罗提毗陀耶,从狼腹生出苏陀索摩,从阿周那生出闻名,从无敌生出百军。

1.64.166

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥ १.६४.१६६ ॥

同样,从偕天生出威武的闻军;在林中,狼腹与希丁巴生出了诃茶多迦。

1.64.167

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता ।
यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया ॥ १.६४.१६७ ॥

从俱卢王生出神冠,她是女儿却取得了儿子的身份,夜叉伺那出于善意使她成为男子。

1.64.168

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥ १.६४.१६८ ॥

在那场俱卢族的争斗中,聚集了许多,数十万的国王,准备在战斗中交战。

1.64.169

तेषामपरिमेयानां नामधेयानि सर्वशः ।
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ १.६४.१६९ ॥

那些不可计量之人的名字,即使经历数万年也无法全部列举。但这些主要人物已被说出,此叙事正是借由他们而得以广泛展开。