Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.67.1

ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
एकादश सुताः स्थाणोः ख्याताः परमतेजसः ॥ १.६७.१ ॥

梵天由心而生的六位大仙是广为人知的;湿婆(Sthāṇu)的十一个儿子以极大的光辉而闻名。

1.67.2

मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः ।
अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः ॥ १.६७.२ ॥

鹿猎者与蛇,以及尼厘提,皆大名远扬;山羊独足、蛇腹以及毗那伽,皆能令敌人受苦。

1.67.3

दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः ।
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥ १.६७.३ ॥

燃烧者、主宰者,大光明的迦婆梨,斯塔奴,婆伽,以及世尊——这十一位楼陀罗被传颂。

1.67.4

मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥ १.६७.४ ॥

摩利枳、安吉罗、阿低利、补罗斯底耶、补罗诃与迦睹——这六位是梵天之子,威力强大的大仙。

1.67.5

त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥ १.६७.५ ॥

安吉罗的三个儿子在世间各处皆享盛名:布利诃斯巴提、乌达提亚与桑伐多,皆坚守誓愿。

1.67.6

अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप ।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥ १.६७.६ ॥

人主啊,据闻阿低利有许多子嗣:他们皆通晓吠陀,成就圆满,心性寂静,是伟大的大仙。

1.67.7

राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा ।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ॥ १.६७.७ ॥

智者补罗斯蒂耶的儿子是罗刹、猴族、紧那罗和夜叉,人中之虎啊。

1.67.8

पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः ।
सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा ॥ १.६७.८ ॥

大王啊,补罗诃的儿子被称为沙拉跋、狮子、紧那罗、虎、熊和狼。

1.67.9

क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः ।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥ १.६७.९ ॥

克拉图的儿子与克拉图同等,是太阳的伴侣,闻名三界,专心于真实之誓。

1.67.10

दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः ॥ १.६७.१० ॥

大地的守护者啊,从梵天的右拇指生出了尊贵的仙人达刹,他心境平和,苦行极大。

1.67.11

वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥ १.६७.११ ॥

从左拇指生出了他的妻子,那位仙人与她生下了五十个女儿。

1.67.12

ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥ १.६७.१२ ॥

她们都是肢体无瑕、眼如莲花的女儿;失去了儿子的生主便将她们立为女儿,以代替儿子。

1.67.13

ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ १.६७.१३ ॥

他将十位给了法(Dharma),二十七位给了月神,大王啊,依神圣仪轨,将十三位给了迦叶波。

1.67.14

नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ १.६७.१४ ॥

法之妻子,我将列举她们的名字,请听:名声(Kīrti)、吉祥天(Lakṣmī)、坚定(Dhṛti)、智慧(Medhā)、滋养(Puṣṭi)、信心(Śraddhā)、行动(Kriyā)等。

1.67.15

बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥ १.६७.१५ ॥

智(Buddhi)、羞耻(Lajjā)、意(Mati)也是。这些便是法的十位妻子。法的这些门户是自生者所确立的。

1.67.16

सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः ।
कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः ॥ १.६७.१६ ॥

月神(Soma)的二十七位妻子在世间闻名;与时间之眼相连,这些月神之妻持守清净的誓愿。

1.67.17

सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः ।
पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः।
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥ १.६७.१७ ॥

她们都是依世界运行之法而设的二十七宿的瑜伽女。梵天之孙,神圣牟尼,其子为生主(Prajāpati);生主有八位婆苏(Vasu)之子——我将详细讲述他们。

1.67.18

धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ १.६७.१८ ॥

达罗(Dhara)、德鲁瓦(Dhruva)、月神(Soma)、阿诃(Ahaḥ)、阿尼罗(Anila)、阿那罗(Anala)、普拉提优沙(Pratyūṣa)与普拉跋萨(Prabhāsa)——这八位被称为婆苏。

1.67.19

धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा ।
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा ॥ १.६७.१९ ॥

达摩罗之子为达罗,同样,精通梵智的德鲁瓦亦是;曼娜斯维妮之子为月神,呼吸之子同样为娑婆那。

1.67.20

रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः ।
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥ १.६७.२० ॥

罗塔之子为阿诃,山底利亚之子为胡陀舍那;普拉帕塔的两子被记为普罗迪沙与普罗跋娑。

1.67.21

धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १.६७.२१ ॥

达罗之子为德拉维那,同样胡塔哈夫亚瓦诃也是;阿波之子为吠檀陀耶,以及室罗摩与贤者寂静亦然;德鲁瓦之子为世尊时间,乃毁灭世界者。

1.67.22

सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते ।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ १.६७.२२ ॥

月神之子为光华,由彼而生光耀者;曼诺哈罗之子为寒露,以及普拉那与罗摩那亦然。

1.67.23

अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः ।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः ॥ १.६७.२३ ॥

阿诃之子为光明,同样寂静与贤者寂静亦然;火神之子为童子,光荣的居于芦苇丛者。

1.67.24

तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ।
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः ॥ १.६७.२४ ॥

其子有沙卡、毗沙卡,以及从背后而生的奈伽梅耶;因昴宿女神收养之故,他被称为迦尔底刻耶。

1.67.25

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ १.६७.२५ ॥

风神阿尼罗的妻子是湿婆女(Śivā);她的儿子是摩诺遮婆(Manojava),还有不可知行(Avijñātagati);阿尼罗共有两个儿子。

1.67.26

प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ १.६७.२६ ॥

普拉提尤沙之子名叫提婆罗(Devala)仙人;提婆罗也有两个能忍耐、有智慧的儿子。木星神(Bṛhaspati)的妹妹是一位优秀的女子,精通吠陀的女论者。

1.67.27

योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह ।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥ १.६७.२७ ॥

她精通瑜伽,无所执著地遍行世界。她是诸婆苏中第八位普拉跋娑(Prabhāsa)的妻子。

1.67.28

विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥ १.६७.२८ ॥

大福的毗首羯磨(Viśvakarman)降生为工艺之主Śilpa-Prajāpati;他创造了千种技艺,是诸天神的工匠。

1.67.29

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
यो दिव्यानि विमानानि त्रिदशानां चकार ह ॥ १.६७.२९ ॥

他是一切饰物的制作者,也是诸工匠中最优秀的;他为诸天神制造了神圣的天车。

1.67.30

मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥ १.६७.३० ॥

人们依靠那位伟大者的技艺为生,并且永远敬拜不朽的毗首羯磨。

1.67.31

स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः ।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥ १.६७.३१ ॥

梵天裂开右胸,以人形现身的世尊法(Dharma)出现,他为一切世界带来安乐。

1.67.32

त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः ।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥ १.६७.३२ ॥

他有三个杰出的儿子,令一切众生心生喜爱:寂静(Śama)、欲(Kāma)与喜(Harṣa),他们以光辉支撑着世界。

1.67.33

कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना ।
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः ॥ १.६७.३३ ॥

欲神之妻是爱乐(Rati);寂静之妻是名为获得(Prāpti)的女子;喜之妻是难陀(Nandā)——诸世界便安立于她们之中。

1.67.34

मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥ १.६७.३४ ॥

摩利枢(Marīci)之子是迦叶波(Kaśyapa);从迦叶波生出天神与阿修罗。人中之虎啊,他就是诸世界的根源。

1.67.35

त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी ।
असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ ॥ १.६७.३५ ॥

特瓦什特利之女、萨维特利之妻,化作母马的形态,在天空中生下了两位双马童(Aśvin)。

1.67.36

द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप ।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥ १.६७.३६ ॥

阿底提有十二个儿子,以帝释(Śakra)为首;人主啊,其中最小的是毗湿奴,诸世界便安立于他之中。

1.67.37

त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव ।
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥ १.६७.३७ ॥

这些是三十三位天神;我将依照他们的派系与家族,为你讲述其世系和众神之群。

1.67.38

रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥ १.६७.३८ ॥

另一派是楼陀罗;萨陀耶与摩录多亦然。应知婆利古之子(室建罗)属于婆苏,毗首提婆亦复如是。

1.67.39

वैनतेयस्तु गरुडो बलवानरुणस्तथा ।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥ १.६७.३९ ॥

毗娜塔之子强大的迦楼罗,还有阿录那;尊贵的木星(布利哈斯帕提)也被归入阿底提耶之列。

1.67.40

अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः ॥ १.६७.४० ॥

应知双阿输阳与夜叉,以及一切药草与牲畜。国王啊,这些天神之群已依次说完。

1.67.41

यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ।
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः ॥ १.६७.४१ ॥

人若称颂他们,便能脱离一切罪业。尊贵的婆利古从梵天的心中裂开而出。

1.67.42

भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः ।
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये।
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥ १.६७.४२ ॥

婆利古之子是博学的迦毗,迦毗之子即行星室建罗。受自生者所命,为三界生命之维持、雨与旱、惧与安,他遍行于世间。

1.67.43

योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः ।
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥ १.६७.४३ ॥

这位大智的瑜伽导师成为达伊提耶的师尊,也是诸神中睿智的导师;他是梵行者,持守誓愿坚定不移。

1.67.44

तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे ।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥ १.६७.४४ ॥

婆迦婆(室建罗)依法被任命以护持安稳之后,婆利古又生出另一个无可指摘的儿子。

1.67.45

च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम् ।
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥ १.६७.४५ ॥

光耀苦行、德行崇高而名声显赫的遮衍那;他因愤怒从母胎中脱出,以求解脱,哦,婆罗多子孙。

1.67.46

आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः ।
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥ १.६७.४६ ॥

摩奴之女阿卢什,是那位贤者的妻子;她腹中,大名的奥尔瓦剖开大腿而生。

1.67.47

महातेजा महावीर्यो बाल एव गुणैर्युतः ।
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् ॥ १.६७.४७ ॥

光辉广大、勇力非凡的利奇卡,幼年便具备诸德;他的儿子是遮摩陀尼,由他所生。

1.67.48

जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ।
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः।
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी ॥ १.६७.४८ ॥

大心的遮摩陀尼有四个儿子;其中罗摩最小,但德行上不逊于任何人。他精通一切兵器,是刹帝利的灭绝者,能自我节制。

1.67.49

और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः ॥ १.६७.४९ ॥

奥尔瓦有一百个儿子,以遮摩达吉尼为首。他们的数千个儿子遍布大地。

1.67.50

द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।
लोके धाता विधाता च यौ स्थितौ मनुना सह ॥ १.६७.५० ॥

梵天另有两个儿子,他们的标记仍留存于世间:创造者达多与安排者毗陀多,他们与摩奴同在。

1.67.51

तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा ।
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥ १.६७.५१ ॥

他们的妹妹是女神吉祥天(拉克希米),以莲花为居所,极为吉祥。她意生的儿子是在天空中飞驰的骏马。

1.67.52

वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत ।
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥ १.६७.५२ ॥

婆楼那的长妻,从首陀罗(室克罗)所生的女神:应知其子为婆罗,也应知苏罗(酒)是令诸神欢喜的女儿。

1.67.53

प्रजानामन्नकामानामन्योन्यपरिभक्षणात् ।
अधर्मस्तत्र संजातः सर्वभूतविनाशकः ॥ १.६७.५३ ॥

当渴求食物的众生开始相互吞食时,不法于是生起,那是毁灭一切众生者。

1.67.54

तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः ।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥ १.६७.५४ ॥

他的妻子也是尼梨底(Nirṛti),由她生出了涅梨多族与可怖的罗刹。她有三子,常常乐于行恶。

1.67.55

भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ।
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः ॥ १.६७.५५ ॥

恐惧、大恐惧、死亡以及毁灭众生者亦同样(而生)。他既无妻子也无儿子;他确是终结者(Antaka)。

1.67.56

काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम् ।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥ १.६७.५६ ॥

迦吉、夏耶尼、跋西、德里多罗湿特利和舒吉——这五位闻名三界,由天女坦罗所生。

1.67.57

उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत ।
भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥ १.६७.५७ ॥

迦吉生猫头鹰,夏耶尼生鹰,跋西生白鹭,而且,人主啊,也生秃鹫。

1.67.58

धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।
चक्रवाकांश्च भद्रा तु जनयामास सैव तु ॥ १.६७.५८ ॥

德里多罗湿特利生天鹅、鹤以及各种鸳鸯;婆陀罗也生了这些。

1.67.59

शुकी च जनयामास शुकानेव यशस्विनी ।
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता ॥ १.६७.५९ ॥

光辉的舒吉生鹦鹉;她具足吉祥的德性,为一切吉相所尊敬。

1.67.60

नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः ।
मृगी च मृगमन्दा च हरी भद्रमना अपि ॥ १.६७.६० ॥

忿怒之母(Krodhavaśā)生了九位由忿怒所生的女子——鹿女、鹿慢、诃利,以及善心女。

1.67.61

मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च ।
सर्वलक्षणसंपन्ना सुरसा चैव भामिनी ॥ १.६७.६१ ॥

随后又生出摩檀耆、舍尔杜利、白天女、苏罗毗,以及具备一切吉相的美貌女子苏罗娑。

1.67.62

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।
ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप ॥ १.६७.६२ ॥

鹿女之子孙皆为鹿,人中之最;鹿慢之子孙为熊与苏摩罗,敌人的焚烧者啊。

1.67.63

ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम् ।
ऐरावतः सुतस्तस्या देवनागो महागजः ॥ १.६७.६३ ॥

随后吉意生下一子,即象王爱罗婆多;爱罗婆多是她的儿子,天界之龙象,大象。

1.67.64

हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः ।
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥ १.६७.६४ ॥

赫梨娅之子孙为诃梨与敏捷的猴子;愿你安好——金尾猴也被称为赫梨娅之子。

1.67.65

प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः ।
द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः ॥ १.६७.६५ ॥

随后舍尔杜利生下许多狮子与老虎,也生下大力的豹子——这一点毫无疑问。

1.67.66

मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप ।
दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम् ॥ १.६७.६६ ॥

摩檀耆也生下诸象,人主啊;白天女则生下方位象之一、名为白象的疾行象。

1.67.67

तथा दुहितरौ राजन्सुरभिर्वै व्यजायत ।
रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी ॥ १.६७.६७ ॥

君王啊,同样,苏罗毗生下两个女儿:罗诃尼与名声显赫的乾达婆女。愿你吉祥。

1.67.68

विमलामपि भद्रं ते अनलामपि भारत ।
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥ १.६७.६८ ॥

婆罗多啊,愿你吉祥。从罗诃尼生出维摩罗与阿那罗,生出了牛;从乾达婆女生出了马,作为儿子。

1.67.69

इरायाः कन्यका जातास्तिस्रः कमललोचनाः ।
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ॥ १.६७.६९ ॥

伊罗之女生有三个眼如莲花的女儿;她们成为草木、树木与藤蔓之母。

1.67.70

लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः ।
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक् ॥ १.६७.७० ॥

名为拉塔与卢诃的二者,被说为藤蔓之母;那些不经开花而单独结果的树木——

1.67.71

लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन् ।
पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः ॥ १.६७.७१ ॥

应当知道他们是藤蔓之子;人们正称他们为“林中之树”。借花结果的树木,人们知道是卢诃之后。

1.67.72

लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः ।
वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते ॥ १.६७.७२ ॥

藤蔓、灌木、树木、有硬皮之物、草及众生——作为她子孙的藤蔓;至此她的谱系便告完结。

1.67.73

सप्तपिम्डफलान्वृक्षाननलापि व्यजायत ॥ १.६७.७३ ॥

阿那罗也生下了结七簇果实的树木。

1.67.74

अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः ।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ॥ १.६७.७४ ॥

舒基是阿那罗的女儿;羯迦是苏罗萨的儿子。尸因尼是阿鲁那的妻子;两者都威力强大、力量非凡。

1.67.75

संपातिं जनयामास वीर्यवन्तं जटायुषम् ।
सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान् ॥ १.६७.७५ ॥

舒基生下了威力强大的桑帕提和迦吒由。苏罗萨生下了龙(那伽);迦德卢生下了毒蛇(班那伽)作为儿子。

1.67.76

द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ।
इत्येष सर्वभूतानां महतां मनुजाधिप।
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥ १.६७.७६ ॥

毗那妲有两个著名的儿子,迦楼罗和阿鲁那。人主啊,智者中最优秀的人,我已如实讲述了一切众生与伟大者的起源。

1.67.77

यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः ।
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति ॥ १.६७.७७ ॥

人若听闻此篇,便能彻底脱离罪业,获得一切知,并得到至上的喜乐。